४. समन्नागतकथावण्णना
३९३. इदानि समन्नागतकथा नाम होति. तत्थ द्वे समन्नागमा पच्चुप्पन्नक्खणे समङ्गीभावसमन्नागमो च रूपावचरादीसु अञ्ञतरभूमिप्पत्तितो पटिलाभसमन्नागमो च. सो याव अधिगतविसेसा न परिहायति, तावदेव लब्भति. येसं पन ठपेत्वा इमे द्वे समन्नागमे अञ्ञो उपपत्तिधम्मवसेन एको समन्नागमो नाम होतीति लद्धि, सेय्यथापि एतरहि उत्तरापथकानं, तेसं पत्तिधम्मो नाम कोचि नत्थीति अनुबोधनत्थं अरहा चतूहि फलेहि समन्नागतोति पुच्छा सकवादिस्स, पत्तिं सन्धाय पटिञ्ञा इतरस्स. अथस्स ‘‘यदि ते अरहा चतूहि खन्धेहि विय चतूहि फलेहि समन्नागतो, एवं सन्ते ये चतूसु फलेसु चत्तारो फस्सादयो, तेहि ते अरहतो समन्नागतता पापुणाती’’ति चोदनत्थं अरहा चतूहि फस्सेहीतिआदि आरद्धं. तं सब्बं परवादिना एकक्खणे चतुन्नं फस्सादीनं अभावा पटिक्खित्तं. अनागामिपञ्हादीसुपि एसेव नयो.
३९५. सोतापत्तिफलं वीतिवत्तोति न पठमज्झानं विय दुतियज्झानलाभी; पुन अनुप्पत्तिया पन वीतिवत्तोति पुच्छति. सोतापत्तिमग्गन्तिआदि यं वीतिवत्तो, तेनस्स पुन असमन्नागमं दस्सेतुं आरद्धं.
३९६. तेहि च अपरिहीनोति पञ्हे यस्मा यथा पच्चनीकसमुदाचारेन लोकियज्झानधम्मा परिहायन्ति, न एवं लोकुत्तरा. मग्गेन हि ये किलेसा पहीयन्ति, फलेन च पटिप्पस्सम्भन्ति, ते तथा पहीनाव तथा पटिप्पस्सद्धायेव च होन्ति, तस्मा सकवादिना आमन्ताति पटिञ्ञातं. स्वायमत्थो परतो ‘‘अरहता चत्तारो मग्गा पटिलद्धा’’तिआदीसु पकासितोयेव. सेसं उत्तानत्थमेवाति.
समन्नागतकथावण्णना.