९. यथाकम्मूपगतञाणकथावण्णना
३७७. इदानि यथाकम्मूपगतञाणकथा नाम होति. तत्थ येसं ‘‘इति दिब्बेन चक्खुना विसुद्धेन…पे… यथाकम्मूपगे सत्ते पजानाती’’ति (दी. नि. १.२४६; पटि. म. १.१०६) सुत्तं अयोनिसो गहेत्वा यथाकम्मूपगतञाणमेव दिब्बचक्खुन्ति लद्धि, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. पुन यथाकम्मूपगतञ्च मनसि करोतीति पुट्ठो एकचित्तस्स आरम्मणद्वयाभावा पटिक्खिपति. दुतियं पुट्ठो नानाचित्तवसेन पटिजानाति. पुन लेसोकासं अदत्वा द्विन्नं फस्सानन्ति पुट्ठो पटिक्खिपति. इति यथा इमिना यथाकम्मूपगतपदेन, एवमेव इमे वत भोन्तो, सत्तातिआदिपदेहिपि सद्धिं योजनासु अत्थो वेदितब्बो.
३७८. आयस्मा सारिपुत्तो यथाकम्मूपगतं ञाणं जानातीति इदं सकवादी यस्मा थेरो अप्पिच्छताय अभिञ्ञाञाणानि न वळञ्जेतीति एकच्चे न जानन्ति, तानि पनस्स नेव अत्थीति मञ्ञन्ति, तस्मा तं ‘‘दिब्बचक्खुनो अलाभी थेरो’’ति मञ्ञमानं पुच्छति. तेनेव कारणेन ‘‘अत्थायस्मतो सारिपुत्तस्स दिब्बचक्खू’’ति परतो पुट्ठो पटिक्खिपति. दुतियं पुट्ठो यंकिञ्चि सावकेन पत्तब्बं, सब्बं तं थेरेन अनुप्पत्तन्ति पटिजानाति. इदानिस्स विक्खेपं करोन्तो सकवादी ननु आयस्मा सारिपुत्तोतिआदिमाह. इमञ्हि गाथं थेरो वळञ्जनपणिधिया एव अभावेन आह, न अभिञ्ञाञाणस्स अभावेन. परवादी पन अभावेनेवाति अत्थं सल्लक्खेति. तस्मा तस्स लद्धिया थेरस्स यथाकम्मूपगतञाणमेव अत्थि, नो दिब्बचक्खु. तेन वुत्तं ‘‘तेन हि न वत्तब्बं यथाकम्मूपगतञाणं दिब्बचक्खू’’ति.
यथाकम्मूपगतञाणकथावण्णना.