११. निरोधकथावण्णना
३५३. इदानि निरोधकथा नाम होति. तत्थ येसं अप्पटिसङ्खानिरोधञ्च पटिसङ्खानिरोधञ्च द्वेपि एकतो कत्वा निरोधसच्चन्ति लद्धि, सेय्यथापि एतरहि महिसासकानञ्चेव अन्धकानञ्च; ते सन्धाय द्वे निरोधाति पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स. द्वे दुक्खनिरोधाति पञ्हेसु यस्मा द्वे दुक्खसच्चानि न इच्छति, तस्मा पटिक्खिपति. यस्मा द्वीहाकारेहि दुक्खं निरुज्झतीति इच्छति, तस्मा पटिजानाति. द्वे निरोधसच्चानीतिपञ्हेसु द्विन्नं दुक्खसच्चानं निरोधवसेनअनिच्छन्तो पटिक्खिपति. द्वीहाकारेहि दुक्खस्स निरुज्झनतो पटिजानाति. द्वे ताणानीतिआदीसुपि एसेव नयो.
अत्थि द्विन्नं निब्बानानन्तिआदीसु पुच्छासु उच्चनीचतादीनि अपस्सन्तो पटिक्खिपति.
अप्पटिसङ्खानिरुद्धेति ये पटिसङ्खाय लोकुत्तरेन ञाणेन अनिरुद्धा सुद्धपकतिकत्ता वा उद्देसपरिपुच्छादीनं वा वसेन न समुदाचरणतो निरुद्धाति वुच्चन्ति, ते सङ्खारे. पटिसङ्खा निरोधेन्तीति. लोकुत्तरञाणेन निरोधेन्ति अनुप्पत्तिभावं गमेन्ति. ननु अप्पटिसङ्खानिरुद्धा सङ्खाराति पुच्छा परवादिस्स. तत्थ भग्गानं पुन अभञ्जनतो अप्पटिसङ्खानिरुद्धानं वा अरियमग्गे उप्पन्ने तथा निरुज्झनतोव सकवादी अच्चन्तभग्गतं पटिजानाति. सेसमेत्थ उत्तानत्थमेवाति.
निरोधकथावण्णना.
दुतियो वग्गो.