७. सत्तमनयो सम्पयुत्तेनविप्पयुत्तपदवण्णना

३०६. इदानि सम्पयुत्तेनविप्पयुत्तपदं भाजेतुं वेदनाक्खन्धेनातिआदि आरद्धं. तत्रिदं लक्खणं – इमस्मिञ्हि वारे पुच्छाय उद्धटपदेन ये धम्मा सम्पयुत्ता, तेहि ये धम्मा विप्पयुत्ता, तेसं खन्धादीहि विप्पयोगं पुच्छित्वा विस्सज्जनं कतं. तं पन रूपक्खन्धादीसु न युज्जति. रूपक्खन्धेन हि सम्पयुत्ता नाम नत्थि. तस्मा तञ्च अञ्ञानि च एवरूपानि पदानि इमस्मिं वारे न गहितानि. यानि पन पदानि धम्मधातुया सम्पयुत्ते धम्मे विञ्ञाणञ्च अञ्ञेन असम्मिस्सं दीपेन्ति, तानि इध गहितानि. तेसं इदमुद्दानं –

‘‘चत्तारो खन्धायतनञ्च एकं,

द्वे इन्द्रिया धातुपदानि सत्त;

तयो पटिच्चा अथ फस्ससत्तकं,

तिके तयो सत्त महन्तरे च.

‘‘एकं सवितक्कं, सविचारमेकं;

युत्तं उपेक्खाय च एकमेवा’’ति.

परियोसाने – खन्धा चतुरोतिआदिनापि अयमेवत्थो सङ्गहितो. तत्थ यानि पदानि सदिसविस्सज्जनानि, तानि उप्पटिपाटियापि समोधानेत्वा तत्थ वेदनाक्खन्धादिका पञ्हा कता. तेसु एवं खन्धादिविभागो वेदितब्बो. वेदनाक्खन्धादिपञ्हे ताव – एकेनाति मनायतनेन. सत्तहीति विञ्ञाणधातूहि. केहिचीति धम्मायतने वेदनादीहि. विञ्ञाणधातुपञ्हे – ते धम्मा न केहिचीति ते पुच्छाय उद्धटपदं विञ्ञाणधातुं ठपेत्वा सेसा छ विञ्ञाणधातुधम्मा, रूपं, निब्बानञ्च. तेहि सब्बेसं खन्धायतनानं सङ्गहितत्ता न केहिचि खन्धेहि आयतनेहि वा विप्पयुत्ता. एकाय धातुयाति या या पुच्छाय उद्धटा होति ताय ताय.

३०९. उपेक्खिन्द्रियपञ्हे – पञ्चहीति उपेक्खासम्पयुत्ताहि चक्खुविञ्ञाणधातुआदीहि. इमिना नयेन सब्बत्थ पुच्छाय उद्धटपदेनेव सद्धिं विप्पयुत्तानं वसेन अत्थो वेदितब्बोति.

सम्पयुत्तेनविप्पयुत्तपदवण्णना.