६. छट्ठनयो सम्पयोगविप्पयोगपदवण्णना

२२८. इदानि सम्पयोगविप्पयोगपदं भाजेतुं रूपक्खन्धोतिआदि आरद्धं. तत्थ यं लब्भति यञ्च न लब्भति तं सब्बं पुच्छाय गहितं. विस्सज्जने पन यं न लब्भति, तं नत्थीति पटिक्खित्तं. चतूहि सम्पयोगो, चतूहि विप्पयोगो; सभागो विसभागोति हि वचनतो चतूहि अरूपक्खन्धेहेव सभागानं एकसन्तानस्मिं एकक्खणे उप्पन्नानं अरूपक्खन्धानंयेव अञ्ञमञ्ञं सम्पयोगो लब्भति. रूपधम्मानं पन रूपेन निब्बानेन वा, निब्बानस्स च रूपेन सद्धिं सम्पयोगो नाम नत्थि. तथा रूपनिब्बानानं अरूपक्खन्धेहि, विसभागा हि ते तेसं. यथा च अरूपक्खन्धानं रूपनिब्बानेहि, एवं भिन्नसन्तानेहि नानाक्खणिकेहि अरूपधम्मेहिपि सद्धिं नत्थियेव. तेपि हि तेसं सन्तानक्खणविसभागताय विसभागायेव. अयं पन विसभागता सङ्गहट्ठेन विरुज्झनतो सङ्गहनये नत्थि. गणनूपगमत्तञ्हि सङ्गहट्ठो. सम्पयोगनये पन अत्थि, एकुप्पादतादिलक्खणञ्हि सम्पयोगट्ठोति. एवमेत्थ यस्स एकधम्मेनपि सम्पयोगलक्खणं न युज्झति, तस्स पुच्छाय सङ्गहं कत्वापि नत्थीति पटिक्खेपो कतो. यस्स विप्पयोगलक्खणं युज्जति, तस्स विप्पयोगो दस्सितो. यानि पन पदानि सत्तसु विञ्ञाणधातूसु एकायपि अविप्पयुत्ते रूपेन निब्बानेन वा मिस्सकधम्मे दीपेन्ति, तानि सब्बथापि इध न युज्जन्तीति न गहितानि. तेसं इदमुद्दानं –

‘‘धम्मायतनं धम्मधातु, दुक्खसच्चञ्च जीवितं;

सळायतनं नामरूपं, चत्तारो च महाभवा.

‘‘जातिजरा च मरणं, तिकेस्वेकूनवीसति;

गोच्छकेसु च पञ्ञास, अट्ठ चूळन्तरे पदा.

‘‘महन्तरे पन्नरस, अट्ठारस ततो परे;

तेवीस पदसतं एतं, सम्पयोगे न लब्भती’’ति.

धम्मायतनञ्हि रूपनिब्बानमिस्सकत्ता तस्मिं अपरियापन्नेन विञ्ञाणेनपि न सक्का सम्पयुत्तन्ति वत्तुं. यस्मा पनेत्थ वेदनादयो विञ्ञाणेन सम्पयुत्ता, तस्मा विप्पयुत्तन्तिपि न सक्का वत्तुं. सेसेसुपि एसेव नयो. एवं सब्बत्थापि एतानि न युज्जन्तीति इध न गहितानि. सेसानि खन्धादीनि युज्जन्तीति तानि गहेत्वा एकेकवसेन च समोधानेन च पञ्हविस्सज्जनं कतं. तेसु पञ्हेसु, पठमे – एकेनायतनेनाति मनायतनेन. केहिचीति धम्मायतनधम्मधातुपरियापन्नेहि वेदनासञ्ञासङ्खारेहि.

२२९. दुतिये – तीहीति पुच्छितं पुच्छितं ठपेत्वा सेसेहि. केहिचि सम्पयुत्तोति वेदनाक्खन्धो सञ्ञासङ्खारेहि. इतरेपि अत्तानं ठपेत्वा इतरेहि. केहिचि विप्पयुत्तोति रूपनिब्बानेहि. एवं सब्बत्थ रूपस्स विप्पयोगे धम्मायतनधम्मधातूसु अरूपं, अरूपस्स विप्पयोगे रूपं दट्ठब्बं. ततियपञ्हो उत्तानत्थोव.

२३१. चतुत्थे – ‘कतिहि खन्धेही’तिआदिं अवत्वा सम्पयुत्तन्ति नत्थीति वुत्तं. तं पन खन्धादीनंयेव वसेन वेदितब्बं. परतोपि एवरूपेसु पञ्हेसु एसेव नयो. आदिपञ्हस्मिञ्हि सरूपतो दस्सेत्वा परतो पाळि संखित्ता. इमिना नयेन सब्बत्थ अत्थयोजना वेदितब्बा. यत्थ पन नातिपाकटा भविस्सति, तत्थ नं पाकटं कत्वाव गमिस्साम.

२३४. सोळसहि धातूहीति चक्खुविञ्ञाणधातु ताव अत्तानं ठपेत्वा छहि विञ्ञाणधातूहि, दसहि च रूपधातूहि. सेसासुपि एसेव नयो.

२३५. तीहि खन्धेहीति सङ्खारक्खन्धं ठपेत्वा सेसेहि. एकाय धातुयाति मनोविञ्ञाणधातुया. समुदयमग्गानञ्हि अञ्ञाय धातुया सम्पयोगो नत्थि. एकेन खन्धेनाति सङ्खारक्खन्धेन. एकेनायतनेनाति धम्मायतनेन. एकाय धातुयाति धम्मधातुया. एतेसु हि तं सच्चद्वयं केहिचि सम्पयुत्तं.

२३८. सुखिन्द्रियादिपञ्हे – तीहीति सञ्ञासङ्खारविञ्ञाणेहि. एकाय धातुयाति कायविञ्ञाणधातुया, मनोविञ्ञाणधातुया च. छहि धातूहीति कायविञ्ञाणधातुवज्जाहि.

२४५. रूपभवपञ्हे – सब्बेसम्पि अरूपक्खन्धानं अरूपायतनानञ्च अत्थिताय न केहिचीति वुत्तं. घानजिव्हाकायविञ्ञाणधातूनं पन नत्थिताय तीहि धातूहि विप्पयुत्तोति वुत्तं.

२५६. अधिमोक्खपञ्हे – द्वीहि धातूहीति मनोधातुमनोविञ्ञाणधातूहि. पन्नरसहीति सेसाहि दसहि रूपधातूहि, पञ्चहि च चक्खुविञ्ञाणादीहि.

२५७. कुसलपञ्हे – कुसलेहि चतुन्नम्पि खन्धानं गहितत्ता सम्पयोगो पटिक्खित्तो.

२५८. वेदनात्तिकपञ्हे – एकेन खन्धेनाति वेदनाक्खन्धेनेव. पन्नरसहीति चक्खुसोतघानजिव्हाविञ्ञाणधातुमनोधातूहि चेव रूपधातूहि च. एकादसहीति कायविञ्ञाणधातुया सद्धिं रूपधातूहि.

२६२. नेवविपाकनविपाकधम्मधम्मपञ्हे – पञ्चहीति चक्खुविञ्ञाणादीहि. अनुपादिन्नअनुपादानियपञ्हे – छहीति मनोविञ्ञाणधातुवज्जाहि. सवितक्कसविचारपञ्हे – पन्नरसहीति पञ्चहि विञ्ञाणेहि सद्धिं रूपधातूहि. अवितक्कविचारमत्तपञ्हे – एकेन खन्धेनातिआदि सङ्खारक्खन्धवसेनेव वेदितब्बं. दुतियज्झानविचारञ्हि ठपेत्वा सेसा अवितक्कविचारमत्ता नाम. पीतिं ठपेत्वा सेसा पीतिसहगता. तत्थ विचारो विचारेन, पीति च पीतिया न सम्पयुत्ताति सङ्खारक्खन्धधम्मायतनधम्मधातूसु केहिचि सम्पयुत्ता नाम. सोळसहीति धम्मधातुमनोविञ्ञाणधातुवज्जाहेव. अवितक्कअविचारपञ्हे – एकाय धातुयाति मनोधातुया. सुखसहगता उपेक्खासहगता च वेदनात्तिके वुत्ताव. दस्सनेनपहातब्बादयो कुसलसदिसाव.

२७१. परित्तारम्मणं विपाकधम्मसदिसं. एकाय धातुयाति धम्मधातुया. केहिचीति ये तत्थ परित्तारम्मणा न होन्ति, तेहि. धम्मधातु पन परित्तारम्मणानं छन्नं चित्तुप्पादानं वसेन चतूहि खन्धेहि सङ्गहितत्ता पठमपटिक्खेपमेव भजति. महग्गतारम्मणादयो कुसलसदिसाव.

२७३. अनुप्पन्नेसु – पञ्चहि धातूहीति चक्खुविञ्ञाणादीहि. तानि हि एकन्तेन उप्पादिधम्मभूतानेव, उप्पन्नकोट्ठासम्पि पन भजन्ति. पच्चुप्पन्नारम्मणादयो परित्तारम्मणसदिसाव. हेतुआदयो समुदयसदिसाव. सहेतुका चेव न च हेतूपि पीतिसहगतसदिसाव. तथा परामाससम्पयुत्ता. अनुपादिन्ना अनुप्पन्नसदिसाव. सेसं सब्बत्थ उत्तानत्थमेवाति.

सम्पयोगविप्पयोगपदवण्णना.