४. चतुत्थनयो सङ्गहितेनसङ्गहितपदवण्णना
१९१. इदानि सङ्गहितेनसङ्गहितपदं भाजेतुं समुदयसच्चेनातिआदि आरद्धं. तत्थ यं खन्धादीहि सङ्गहितेन खन्धादिवसेन सङ्गहितं, पुन तस्सेव खन्धादीहि सङ्गहं पुच्छित्वा विस्सज्जनं कतं. तं खन्धायतनधातूसु एकम्पि सकलकोट्ठासं गहेत्वा ठितपदेसु न युज्जति. सकलेन हि खन्धादिपदेन अञ्ञं खन्धादिवसेन सङ्गहितं नाम नत्थि, यं अत्तनो सङ्गाहकं सङ्गण्हित्वा पुन तेनेव सङ्गहं गच्छेय्य. तस्मा तथारूपानि पदानि इमस्मिं वारे न गहितानि. यानि पन पदानि सङ्खारेकदेसं वा अञ्ञेन असम्मिस्सं दीपेन्ति – वेदनेकदेसं वा सुखुमरूपं वा सद्देकदेसं वा, तानि इध गहितानि. तेसं इदमुद्दानं –
‘‘द्वे सच्चा पन्नरसिन्द्रिया, एकादस पटिच्चपदा;
उद्धं पुन एकादस, गोच्छकपदमेत्थ तिंसविध’’न्ति.
पञ्हा पनेत्थ द्वेयेव होन्ति. तत्थ यं पुच्छाय उद्धटं पदं, तदेव येहि धम्मेहि खन्धादिवसेन सङ्गहितं, ते धम्मे सन्धाय सब्बत्थ एकेन खन्धेनातिआदि वुत्तं. तत्रायं नयो – समुदयसच्चेन हि तण्हावज्जा सेसा सङ्खारा खन्धादिसङ्गहेन सङ्गहिता. पुन तेहि तण्हाव सङ्गहिता. सा तण्हा पुन सङ्खारेहेव खन्धादिसङ्गहेन सङ्गहिताति. एसेव नयो सब्बत्थ. अरूपधम्मपुच्छासु पनेत्थ सङ्खारक्खन्धो वा वेदनाक्खन्धो वा एको खन्धो नाम. रूपधम्मपुच्छासु रूपक्खन्धो. परिदेवपुच्छाय सद्दायतनं एकं आयतनं नाम. सद्दधातु एका धातु नाम, सेसट्ठानेसु धम्मायतनधम्मधातुवसेनेव अत्थो वेदितब्बोति.
सङ्गहितेनसङ्गहितपदवण्णना.