३. ततियनयो असङ्गहितेनसङ्गहितपदवण्णना

१७९. इदानि असङ्गहितेनसङ्गहितपदं भाजेतुं वेदनाक्खन्धेनातिआदि आरद्धं. तत्रिदं लक्खणं – इमस्मिञ्हि वारे यं खन्धपदेन असङ्गहितं हुत्वा आयतनधातुपदेहि सङ्गहितं, तस्स खन्धादीहि सङ्गहं पुच्छित्वा विस्सज्जनं कतं. तं पन रूपक्खन्धविञ्ञाणक्खन्धचक्खायतनादीसु न युज्जति. रूपक्खन्धेन हि चत्तारो खन्धा खन्धसङ्गहेन असङ्गहिता. तेसु तेन एकधम्मोपि आयतनधातुसङ्गहेन सङ्गहितो नाम नत्थि. ननु च वेदनादयो धम्मायतनेन सङ्गहिताति? सङ्गहिता. न पन रूपक्खन्धोव धम्मायतनं, रूपक्खन्धतो हि सुखुमरूपमत्तं धम्मायतनं भजति. तस्मा ये धम्मायतनेन सङ्गहिता, न ते रूपक्खन्धेन सङ्गहिता नाम. विञ्ञाणक्खन्धेनपि इतरे चत्तारो खन्धा असङ्गहिता. तेसु तेन एकोपि आयतनधातुसङ्गहेन सङ्गहितो नाम नत्थि. एवं सङ्गहितताय अभावतो एतानि अञ्ञानि च एवरूपानि चक्खायतनादीनि पदानि इमस्मिं वारे न गहितानि. यानि पन पदानि विञ्ञाणेन वा ओळारिकरूपेन वा असम्मिस्सं धम्मायतनेकदेसं दीपेन्ति, तानि इध गहितानि. तेसं इदमुद्दानं –

‘‘तयो खन्धा तथा सच्चा, इन्द्रियानि च सोळस;

पदानि पच्चयाकारे, चुद्दसूपरि चुद्दस.

‘‘समतिंस पदा होन्ति, गोच्छकेसु दसस्वथ;

दुवे चूळन्तरदुका, अट्ठ होन्ति महन्तरा’’ति.

एतेसु पन पदेसु सदिसविस्सज्जनानि पदानि एकतो कत्वा सब्बेपि द्वादस पञ्हा वुत्ता. तेसु एवं खन्धविभागो वेदितब्बो. आयतनधातूसु पन भेदो नत्थि. तत्थ पठमपञ्हे ताव – तीहि खन्धेहीति रूपसञ्ञासङ्खारक्खन्धेहि. आयतनधातुयो पन धम्मायतनधम्मधातुवसेन वेदितब्बा.

तत्रायं नयो – वेदनाक्खन्धेन हि निब्बानञ्च सुखुमरूपसञ्ञासङ्खारा च खन्धसङ्गहेन असङ्गहिता हुत्वा आयतनधातुसङ्गहेन सङ्गहिता. तेसु निब्बानं खन्धसङ्गहं न गच्छति, सेसा रूपसञ्ञासङ्खारक्खन्धेहि सङ्गहं गच्छन्ति. आयतनधातुसङ्गहं पन निब्बानम्पि गच्छतेव. तेन वुत्तं – ‘‘असङ्खतं खन्धतो ठपेत्वा तीहि खन्धेहि, एकेनायतनेन, एकाय धातुया सङ्गहिता’’ति. सञ्ञाक्खन्धपक्खे पनेत्थ सञ्ञं अपनेत्वा वेदनाय सद्धिं तयो खन्धा सङ्खारादीसु सङ्खारक्खन्धं अपनेत्वा रूपवेदनासञ्ञावसेन तयो खन्धा वेदितब्बा.

१८०. दुतिये – चतूहि खन्धेहीति विञ्ञाणवज्जेहि. ते हि निरोधेन खन्धसङ्गहेन असङ्गहिता हुत्वा आयतनधातुसङ्गहेन सङ्गहिता.

१८१. ततिये – द्वीहीति वेदनासञ्ञाक्खन्धेहि. रूपारूपजीवितिन्द्रियेन हि वेदनासञ्ञाविञ्ञाणक्खन्धा च खन्धसङ्गहेन असङ्गहिता. तेसु पन वेदनासञ्ञाव आयतनधातुसङ्गहेन सङ्गहिता. तेन वुत्तं – ‘‘वेदनासञ्ञाक्खन्धेही’’ति. इमिना उपायेन सब्बत्थ खन्धभेदो वेदितब्बो. इतो परञ्हि खन्धानं नाममत्तमेव वक्खाम.

१८२. चतुत्थे – तीहि खन्धेहीति इत्थिन्द्रियपुरिसिन्द्रियेसु वेदनासञ्ञासङ्खारेहि, वेदनापञ्चके रूपसञ्ञासङ्खारेहि; सद्धिन्द्रियादीसु फस्सपरियोसानेसु रूपवेदनासञ्ञाक्खन्धेहि. वेदनाय वेदनाक्खन्धसदिसोव तण्हुपादानकम्मभवेसु सङ्खारक्खन्धसदिसोव विनिच्छयो.

१८३. पञ्चमे – जातिजरामरणेसु जीवितिन्द्रियसदिसोव. झानेन पन निब्बानं सुखुमरूपं सञ्ञा च खन्धसङ्गहेन असङ्गहिता हुत्वा आयतनधातुसङ्गहेन सङ्गहिता. तस्मा तं सन्धाय रूपक्खन्धसञ्ञाक्खन्धानं वसेन द्वे खन्धा वेदितब्बा.

१८४. छट्ठे – सोकादित्तये वेदनाय सदिसो. उपायासादीसु सङ्खारसदिसो. पुन वेदनाय वेदनाक्खन्धसदिसो, सञ्ञाय सञ्ञाक्खन्धसदिसो, चेतनादीसु सङ्खारक्खन्धसदिसो विनिच्छयो. इमिना उपायेन सत्तमपञ्हादीसुपि सङ्गहासङ्गहो वेदितब्बोति.

असङ्गहितेनसङ्गहितपदवण्णना.