२. दुतियनयो सङ्गहितेनअसङ्गहितपदवण्णना
१७१. इदानि सङ्गहितेन असङ्गहितपदं भाजेतुं चक्खायतनेनातिआदि आरद्धं. तत्रिदं लक्खणं – इमस्मिञ्हि वारे यं खन्धपदेन सङ्गहितं हुत्वा आयतनधातुपदेहि असङ्गहितं, खन्धायतनपदेहि वा सङ्गहितं हुत्वा धातुपदेन असङ्गहितं, तस्स खन्धादीहि असङ्गहं पुच्छित्वा विस्सज्जनं कतं. तं पन रूपक्खन्धादीसु न युज्जति. रूपक्खन्धेन हि रूपक्खन्धोव सङ्गहितो. सो च अड्ढेकादसहि आयतनधातूहि असङ्गहितो नाम नत्थि. वेदनाक्खन्धेन च वेदनाक्खन्धोव सङ्गहितो. सोपि धम्मायतनधम्मधातूहि असङ्गहितो नाम नत्थि. एवं असङ्गहितताय अभावतो एतानि अञ्ञानि च एवरूपानि मनायतनधम्मायतनादीनि पदानि इमस्मिं वारे न गहितानि. यानि पन पदानि रूपेकदेसं अरूपेन असम्मिस्सं, विञ्ञाणेकदेसञ्च अञ्ञेन असम्मिस्सं दीपेन्ति, तानि इध गहितानि. परियोसाने च –
‘‘दसायतना सत्तरस धातुयो,
सत्तिन्द्रिया असञ्ञाभवो एकवोकारभवो;
परिदेवो सनिदस्सनसप्पटिघं,
अनिदस्सनं पुनदेव सप्पटिघं उपादा’’ति.
एवं उद्दानगाथाय दस्सितानेव. तस्मा तेसं वसेनेव सङ्गहासङ्गहो वेदितब्बो. पञ्हवसेन हि इमस्मिं वारे आयतनधातुवसेनेव सदिसविस्सज्जने वीसति धम्मे समोधानेत्वा एको पञ्हो कतो, सत्त विञ्ञाणधातुयो समोधानेत्वा एको, सत्तिन्द्रियानि समोधानेत्वा एको, द्वे भवे समोधानेत्वा एको, परिदेवेन च सनिदस्सनसप्पटिघेहि च एको, अनिदस्सनसप्पटिघेहि एको, सनिदस्सनेहि एको, सप्पटिघेहि च उपादाधम्मेहि च एकोति अट्ठ पञ्हा कता. तेसु खन्धादिविभागो एवं वेदितब्बो सेय्यथिदं – पठमपञ्हे ताव चतूहि खन्धेहीति अरूपक्खन्धेहि, द्वीहायतनेहीति चक्खायतनादीसु एकेकेन सद्धिं मनायतनेन, अट्ठहि धातूहीति चक्खुधातुआदीसु एकेकाय सद्धिं सत्तहि विञ्ञाणधातूहि.
तत्रायं नयो – चक्खायतनेन हि खन्धसङ्गहेन रूपक्खन्धो सङ्गहितो. तस्मिं सङ्गहिते रूपक्खन्धे आयतनसङ्गहेन चक्खायतनमेवेकं सङ्गहितं. सेसानि दस आयतनानि असङ्गहितानि. धातुसङ्गहेनपि तेन चक्खुधातुयेवेका सङ्गहिता. सेसा दस धातुयो असङ्गहिता. इति यानि तेन असङ्गहितानि दसायतनानि, तानि चक्खायतनमनायतनेहि द्वीहि असङ्गहितानि. यापि तेन असङ्गहिता दस धातुयो, ता चक्खुधातुया चेव सत्तहि च विञ्ञाणधातूहि असङ्गहिताति. रूपायतनादीसुपि एसेव नयो.
१७२. दुतियपञ्हे – यस्मा याय कायचि विञ्ञाणधातुया सङ्गहितो विञ्ञाणक्खन्धो मनायतनेन असङ्गहितो नाम नत्थि, तस्मा आयतनसङ्गहेन सङ्गहिताति वुत्तं. एत्थ पन चतूहि खन्धेहीति रूपादीहि चतूहि. एकादसहायतनेहीति मनायतनवज्जेहि. द्वादसहि धातूहीति यथानुरूपा छ विञ्ञाणधातुयो अपनेत्वा सेसाहि द्वादसहि. चक्खुविञ्ञाणधातुया हि चक्खुविञ्ञाणधातुयेव सङ्गहिता, इतरा असङ्गहिता. सोतविञ्ञाणधातुआदीसुपि एसेव नयो.
१७३. ततियपञ्हे – चक्खुन्द्रियादीनं विस्सज्जनं चक्खायतनादिसदिसमेव. इत्थिन्द्रियपुरिसिन्द्रियेसु पन धम्मायतनेन सद्धिं द्वे आयतनानि, धम्मधातुया च सद्धिं अट्ठ धातुयो वेदितब्बा.
१७४. चतुत्थपञ्हे – तीहायतनेहीति रूपायतनधम्मायतनमनायतनेहि. तेसु हि भवेसु रूपायतनधम्मायतनवसेन द्वेव आयतनानि तेहि सङ्गहितानि. सेसानि नव रूपायतनानि तेहेव च द्वीहि, मनायतनेन चाति तीहि असङ्गहितानि नाम होन्ति. नवहि धातूहीति रूपधातुधम्मधातूहि सद्धिं सत्तहि विञ्ञाणधातूहि.
१७५. पञ्चमपञ्हे – द्वीहायतनेहीति पठमपदं सन्धाय सद्दायतनमनायतनेहि. दुतियपदं सन्धाय रूपायतनमनायतनेहि. धातुयोपि तेसंयेव एकेकेन सद्धिं सत्त विञ्ञाणधातुयो वेदितब्बा.
१७६. छट्ठपञ्हे – दसहायतनेहीति रूपायतनधम्मायतनवज्जेहि. सोळसहि धातूहीति रूपधातुधम्मधातुवज्जेहेव. कथं? अनिदस्सनसप्पटिघा हि धम्मा नाम नव ओळारिकायतनानि. तेहि खन्धसङ्गहेन सङ्गहिते रूपक्खन्धे, आयतनसङ्गहेन तानेव नवायतनानि सङ्गहितानि. रूपायतनधम्मायतनानि असङ्गहितानि. धातुसङ्गहेनपि ता एव नव धातुयो सङ्गहिता. रूपधातुधम्मधातुयो असङ्गहिता. इति यानि तेहि असङ्गहितानि द्वे आयतनानि, तानि रूपायतनवज्जेहि नवहि ओळारिकायतनेहि, मनायतनेन चाति दसहि असङ्गहितानि. यापि तेहि असङ्गहिता द्वे धातुयो, ता रूपधातुवज्जाहि नवहि ओळारिकधातूहि, सत्तहि च विञ्ञाणधातूहीति सोळसहि असङ्गहिताति वेदितब्बा.
१७७. सत्तमपञ्हे – द्वीहायतनेहीति रूपायतनमनायतनेहि. अट्ठहि धातूहीति रूपधातुया सद्धिं सत्तहि विञ्ञाणधातूहि.
१७८. अट्ठमपञ्हे – एकादसहायतनेहीति सप्पटिघधम्मे सन्धाय धम्मायतनवज्जेहि, उपादाधम्मे सन्धाय फोट्ठब्बायतनवज्जेहि. धातूसुपि एसेव नयो. अत्थयोजना पनेत्थ हेट्ठा वुत्तनयेनेव वेदितब्बाति.
सङ्गहितेनअसङ्गहितपदवण्णना.