१३. तेरसमनयो असङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना

४४८. इदानि असङ्गहितेनसम्पयुत्तविप्पयुत्तपदं भाजेतुं रूपक्खन्धेनातिआदि आरद्धं. तत्थ ये पञ्चमे असङ्गहितेनअसङ्गहितपदनिद्देसे रूपक्खन्धेन सदिसपञ्हा धम्मा, ये च अरूपभवेन सदिसा, तेयेव उद्धटा. सेसा पन न रुहन्तीति न उद्धटा. वेदनाक्खन्धेन हि खन्धादिवसेन पन रूपारूपधम्मा असङ्गहिता होन्ति. तेसञ्च सम्पयोगो नाम नत्थि. तस्मा यानि पदानि रुहन्ति, तानेव सदिसविस्सज्जनेहि सद्धिं समोधानेत्वा उद्धटानि. तत्थ ये धम्मा पुच्छाय उद्धटधम्मेहि खन्धादिवसेन असङ्गहिता, ते येहि सम्पयुत्ता च विप्पयुत्ता च, तेसं वसेन खन्धादिविभागो वेदितब्बो.

तत्रायं नयो – रूपक्खन्धेन ताव विञ्ञाणमेव तीहि सङ्गहेहि असङ्गहितं. तं वेदनादीहि तीहि खन्धेहि, धम्मायतनधम्मधातूसु च वेदनादीहेव सम्पयुत्तं. एकेन रूपक्खन्धेन, दसहि रूपायतनरूपधातूहि, धम्मायतनधम्मधातूसु च रूपनिब्बानधम्मेहि विप्पयुत्तं. तं सन्धाय ते धम्मा तीहि खन्धेहीतिआदि वुत्तं. इमिना नयेन सब्बत्थ अत्थो वेदितब्बोति.

असङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना.