१. पठमनयो सङ्गहासङ्गहपदवण्णना

१. खन्धपदवण्णना

६. इदानि पञ्चक्खन्धादिवसेन निक्खित्तमातिकं ‘सङ्गहो असङ्गहो’तिआदीहि नयमातिकापदेहि सद्धिं योजेत्वा दस्सेतुं रूपक्खन्धो कतिहि खन्धेहीतिआदिना नयेन निद्देसवारो आरद्धो. तत्थ यस्मा ‘‘सङ्गहो असङ्गहोतिआदिकाय नयमातिकाय ‘‘तीहि सङ्गहो, तीहि असङ्गहो’’ति नयमुखमातिका ठपिता, तस्मा रूपक्खन्धादीनं सङ्गहं दस्सेतुं कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहीति तीणि खन्धायतनधातुपदानेव उद्धटानि. ‘चत्तारि सच्चानी’तिआदीसु एकम्पि न परामट्ठं. यस्मा च ‘‘सभागो विसभागो’’ति एवं लक्खणमातिका ठपिता, तस्मा इमस्स पञ्हस्स विस्सज्जने रूपक्खन्धो एकेन खन्धेनातिआदि वुत्तं. सभागा हि तस्स एते खन्धादयोति. तत्थ एकेन खन्धेनाति रूपक्खन्धेनेव. यञ्हि किञ्चि रूपं रूपक्खन्धसभागत्ता रूपक्खन्धोत्वेव सङ्गहं गच्छतीति रूपक्खन्धेनेव गणितं, तं रूपक्खन्धेनेव परिच्छिन्नं. एकादसहायतनेहीति मनायतनवज्जेहि. सब्बोपि हि रूपक्खन्धो दसायतनानि धम्मायतनेकदेसो च होति, तस्मा एकादसहायतनेहि गणितो, परिच्छिन्नो. एकादसहि धातूहीति सत्तविञ्ञाणधातुवज्जाहि एकादसहि एतासु हि अपरियापन्नं रूपं नाम नत्थि.

असङ्गहनयनिद्देसे कतिहि असङ्गहितोति सङ्खेपेनेव पुच्छा कता. विस्सज्जने पनस्स यस्मा रूपक्खन्धस्स विसभागा चत्तारो अरूपक्खन्धा, एकं मनायतनं, सत्त विञ्ञाणधातुयो; तस्मा चतूहि खन्धेहीतिआदि वुत्तं. इमिना नयेन सब्बपदेसु सङ्गहासङ्गहो वेदितब्बो. इमस्मिं पन खन्धनिद्देसे – ‘‘रूपक्खन्धो कतिहि खन्धेही’’तिआदिम्हि ताव एकमूलके सङ्गहनये सरूपेनेव दस्सिता पञ्च पुच्छा, पञ्च विस्सज्जनानि. असङ्गहनये सङ्खेपेन दस्सिता पञ्च पुच्छा, पञ्च विस्सज्जनानि. इमिना उपायेन दुकमूलकादीसुपि पुच्छाविस्सज्जनानि वेदितब्बानि. रूपक्खन्धमूलकायेव चेत्थ दुकतिकचतुक्का दस्सिता. पञ्चके पन ‘‘रूपक्खन्धो च…पे… विञ्ञाणक्खन्धो चा’’ति एवं भेदतो च, ‘‘पञ्चक्खन्धा कतिहि खन्धेही’’ति एवं अभेदतो चाति द्विधा पुच्छाविस्सज्जनानि कतानि. एवं पाळिनयो वेदितब्बोति.

२. आयतनपदादिवण्णना

२२. आयतनपदनिद्देसादीसु आयतनपदनिद्देसे ताव चक्खायतनं एकेन खन्धेनाति एकेन रूपक्खन्धेनेव, एकेन चक्खायतनेनेव एकाय चक्खुधातुयाव सङ्गहितन्ति वेदितब्बं. सोतायतनादीसुपि इमिनाव नयेन सङ्गहासङ्गहो वेदितब्बो. असङ्खतं खन्धतो ठपेत्वाति एत्थ पन यस्मा असङ्खतं धम्मायतनं नाम निब्बानं, तञ्च खन्धसङ्गहं न गच्छति; तस्मा ‘खन्धतो ठपेत्वा’ति वुत्तं. चतूहि खन्धेहीति रूपवेदनासञ्ञासङ्खारक्खन्धेहि. निब्बानवज्जञ्हि धम्मायतनं एतेहि सङ्गहितं. विञ्ञाणक्खन्धेन पन ठपेत्वा धम्मायतनधम्मधातुयो सेसायतनधातूहि च तं न सङ्गय्हति. तेन वुत्तं – ‘‘एकेन खन्धेन, एकादसहायतनेहि, सत्तरसहि धातूहि असङ्गहित’’न्ति. यथा च ते हेट्ठा रूपक्खन्धमूलका, एवमिधापि चक्खायतनमूलकाव नया वेदितब्बा. दुकमत्तमेव पन पाळियं दस्सेत्वा ‘‘द्वादसायतनानी’’ति अभेदतोव पुच्छाविस्सज्जनं कतं. धातुनिद्देसेपि एसेव नयो.

४०. सच्चनिद्देसे – सब्बेपि दुकतिकचतुक्का पाळियं दस्सिता. यस्मा च दुकतिकेसु समुदयसच्चसदिसमेव मग्गसच्चेपि विस्सज्जनं, तस्मा तं समुदयानन्तरं वुत्तं.

५०. इन्द्रियनिद्देसे – जीवितिन्द्रियं द्वीहि खन्धेहीति रूपजीवितिन्द्रियं रूपक्खन्धेन, अरूपजीवितिन्द्रियं सङ्खारक्खन्धेन सङ्गहितं. सेसं वुत्तनयानुसारेनेव वेदितब्बं. पाळिववत्थानं पनेत्थ आयतनधातुनिद्देससदिसमेव.

६. पटिच्चसमुप्पादवण्णना

६१. पटिच्चसमुप्पादनिद्देसे – ‘‘अविज्जा कतिहि खन्धेही’’ति पुच्छं अनारभित्वा अविज्जा एकेन खन्धेनाति एवं विस्सज्जनमेव दस्सितं. तत्थ सङ्खारपच्चया विञ्ञाणन्ति पटिसन्धियं पवत्ते च सब्बम्पि विपाकविञ्ञाणं. तेनेवाह – ‘‘सत्तहि धातूहि सङ्गहित’’न्ति. नामरूपम्पि पटिसन्धिपवत्तिवसेनेव वेदितब्बं. तेनेवेत्थ सद्दायतनम्पि सङ्गहेत्वा एकादसहायतनेहि सङ्गहो दस्सितो. फस्सादीसु खन्धभेदो वेदितब्बो. अञ्ञेनेव हि एकेन खन्धेन फस्सो सङ्गहितो, अञ्ञेन वेदना, तण्हाउपादानकम्मभवा पन सङ्खारक्खन्धेनेव सङ्गहिता. भवपदञ्चेत्थ कम्मभवादीनं वसेन एकादसधा विभत्तं. तत्थ कम्मभवो फस्सादीहि सदिसविसज्जनत्ता तेहि सद्धिं एकतो दस्सितो. उपपत्तिभवकामभवसञ्ञाभवपञ्चवोकारभवा अञ्ञमञ्ञसदिसविस्सज्जनत्ता एकतो दस्सिता. यस्मा चेते उपादिन्नकधम्माव तस्मा ‘‘एकादसहायतनेहि सत्तरसहि धातूही’’ति वुत्तं. सद्दायतनञ्हि अनुपादिन्नं, तं एत्थ न गहितं.

६८. रूपभवनिद्देसे – पञ्चहायतनेहीति चक्खुसोतमनरूपधम्मायतनेहि. अट्ठहि धातूहीति चक्खुसोतचक्खुविञ्ञाणसोतविञ्ञाणरूपधम्ममनोधातुमनोविञ्ञाणधातूहि. अरूपभवादयोपि तयो सदिसविस्सज्जनत्ताव एकतो दस्सिता. तथा असञ्ञाभवएकवोकारभवा. तत्थ द्वीहायतनेहीति रूपायतनधम्मायतनेहि. धातूसुपि एसेव नयो. एकतलवासिकानञ्हि सेसब्रह्मानं चक्खुसब्भावतो तस्सारम्मणत्ता तत्थ रूपायतनं उद्धटं.

७१. जाति द्वीहि खन्धेहीति रूपजाति रूपक्खन्धेन, अरूपजाति सङ्खारक्खन्धेन. जरामरणेसुपि एसेव नयो. सोकादीसुपि एकेन खन्धेनाति सोकदुक्खदोमनस्सानि वेदनाक्खन्धेन, परिदेवो रूपक्खन्धेन, उपायासादयो सङ्खारक्खन्धेनाति एवं खन्धविसेसो वेदितब्बो.

७३. इद्धिपादो द्वीहीति सङ्खारविञ्ञाणक्खन्धेहि, मनायतनधम्मायतनेहि, धम्मधातुमनोविञ्ञाणधातूहि च. झानं द्वीहीति वेदनाक्खन्धसङ्खारक्खन्धेहि. अप्पमञ्ञादयो सदिसविस्सज्जनत्ता एकतो निद्दिट्ठा. चित्तं पन चेतनानन्तरं निक्खित्तम्पि असदिसविस्सज्जनत्ता पच्छा गहितं. तत्थ अप्पमञ्ञादीसु एकेन खन्धेनाति वेदना वेदनाक्खन्धेन, सञ्ञा सञ्ञाक्खन्धेन, सेसा सङ्खारक्खन्धेन सङ्गहिताति एवं खन्धविसेसो वेदितब्बो.

७. तिकपदवण्णना

७७. एवं अब्भन्तरमातिकाय सङ्गहं दस्सेत्वा इदानि बाहिरमातिकाय सङ्गहं दस्सेतुं कुसला धम्मातिआदि आरद्धं. तत्थ वेदनात्तिके तीहि धातूहीति कायविञ्ञाणमनोविञ्ञाणधम्मधातूहि. सत्तहि धातूहीति चक्खुसोतघानजिव्हाविञ्ञाणधातूहि चेव मनोधातुधम्मधातुमनोविञ्ञाणधातूहि च. विपाकत्तिके अट्ठहि धातूहीति कायविञ्ञाणधातुया सद्धिं ताहियेव. विपाकधम्मधम्मा पन संकिलिट्ठसंकिलेसिकेहि सद्धिं सदिसविस्सज्जनत्ता एकतो गहिता. यथा चेते, एवं सब्बतिकदुकपदेसु यं यं पदं येन येन पदेन सद्धिं सदिसविस्सज्जनं होति, तं तं उप्पटिपाटियापि तेन तेन सद्धिं गहेत्वा विस्सज्जितं. तत्थ वुत्तानुसारेनेव सङ्गहासङ्गहनयो वेदितब्बोति.

सङ्गहासङ्गहपदवण्णना.