३. नयमुखमातिकावण्णना
३. तीहि सङ्गहो, तीहि असङ्गहो; चतूहि सम्पयोगो, चतूहि विप्पयोगोति अयं चतूहि पदेहि निक्खित्ता नयमुखमातिका नाम. अयञ्हि सब्बेसुपि पञ्चक्खन्धादीसु चेव कुसलत्तिकादीसु च मातिकाधम्मेसु, तीहि खन्धायतनधातुपदेहेव सङ्गहो च असङ्गहो च योजेतब्बो. तथा चतूहि अरूपक्खन्धेहि सम्पयोगो च विप्पयोगो च. एतानि इमेसं सङ्गहासङ्गहादीनं नयानं मुखानीति दस्सेतुं ठपितत्ता नयमुखमातिकाति वुच्चति.