२. अब्भन्तरमातिकावण्णना
२. पञ्चक्खन्धा …पे… मनसिकारोति अयं पञ्चवीसाधिकेन पदसतेन निक्खित्ता अब्भन्तरमातिका नाम. अयञ्हि ‘‘सब्बापि धम्मसङ्गणी धातुकथाय मातिका’’ति एवं अवत्वा सङ्गहादिना नयेन विभजितब्बे खन्धादिधम्मे सरूपतो दस्सेत्वा धातुकथाय अब्भन्तरेयेव ठपितत्ता अब्भन्तरमातिकाति वुच्चति. खन्धादिपदानं धम्मसङ्गणीमातिकाय असङ्गहितत्ता पकिण्णकमातिकातिपि वत्तुं वट्टति.