धम्मुद्देसवारो
फस्सपञ्चमकरासिवण्णना
तस्मिं समयेति इदं अनियमनिद्दिट्ठस्स समयस्स नियमतो पटिनिद्देसवचनं. तस्मा ‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव समये फस्सो होति…पे… अविक्खेपो होती’ति अयमत्थो वेदितब्बो. तत्थ यथेव चित्तं एवं फस्सादीसुपि फस्सो होति. किं होति? ‘कामावचरो होति, कुसलो होति, उप्पन्नो होति, सोमनस्ससहगतो होती’तिआदिना नयेन लब्भमानपदवसेन योजना कातब्बा. वेदनायञ्हि ‘सोमनस्ससहगता’ति पञ्ञिन्द्रिये च ‘ञाणसम्पयुत्त’न्ति न लब्भति, तस्मा ‘लब्भमानपदवसेना’ति वुत्तं. इदं अट्ठकथामुत्तकं आचरियानं मतं; न पनेतं सारतो दट्ठब्बं.
कस्मा पनेत्थ फस्सोव पठमं वुत्तोति? चित्तस्स पठमाभिनिपातत्ता. आरम्मणस्मिञ्हि चित्तस्स पठमाभिनिपातो हुत्वा फस्सो आरम्मणं फुसमानो उप्पज्जति, तस्मा पठमं वुत्तो. फस्सेन पन फुसित्वा वेदनाय वेदयति, सञ्ञाय सञ्जानाति, चेतनाय चेतेति. तेन वुत्तं – ‘‘फुट्ठो, भिक्खवे, वेदेति, फुट्ठो सञ्जानाति फुट्ठो चेतेती’’ति.
अपिच, अयं फस्सो नाम यथा पासादं पत्वा थम्भो नाम सेसदब्बसम्भारानं बलवपच्चयो, तुलासङ्घाटभित्तिपादकूटगोपानसीपक्खपासकमुखवट्टियो थम्भाबद्धा थम्भे पतिट्ठिता, एवमेव सहजातसम्पयुत्तधम्मानं बलवपच्चयो होति. थम्भसदिसो हि एस. अवसेसा दब्बसम्भारसदिसाति. तस्मापि पठमं वुत्तो. इदं पन अकारणं. एकचित्तस्मिञ्हि उप्पन्नधम्मानं ‘अयं पठमं उप्पन्नो अयं पच्छा’ति इदं वत्तुं न लब्भा. बलवपच्चयभावेपि फस्सस्स कारणं न दिस्सति. देसनावारेनेव पन फस्सो पठमं वुत्तो. वेदना होति फस्सो होति, सञ्ञा होति फस्सो होति, चेतना होति फस्सो होति, चित्तं होति फस्सो होति, वेदना होति सञ्ञा होति, चेतना होति वितक्को होतीति आहरितुम्पि हि वट्टेय्य. देसनावारेन पन फस्सोव पठमं वुत्तोति वेदितब्बो. यथा चेत्थ एवं सेसधम्मेसुपि पुब्बापरक्कमो नाम न परियेसितब्बो. वचनत्थलक्खणरसादीहि पन धम्मा एव परियेसितब्बा.
सेय्यथिदं – फुसतीति फस्सो. स्वायं फुसनलक्खणो, सङ्घट्टनरसो, सन्निपातपच्चुपट्ठानो, आपाथगतविसयपदट्ठानो.
अयञ्हि अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्ततीति फुसनलक्खणो. एकदेसेन च अनल्लीयमानोपि रूपं विय चक्खुं, सद्दो विय च सोतं, चित्तं आरम्मणञ्च सङ्घट्टेतीति सङ्घट्टनरसो. वत्थारम्मणसङ्घट्टनतो वा उप्पन्नत्ता सम्पत्तिअत्थेनपि रसेन सङ्घट्टनरसोति वेदितब्बो. वुत्तञ्हेतं अट्ठकथायं – ‘‘चतुभूमकफस्सो हि नोफुसनलक्खणो नाम नत्थि. सङ्घट्टनरसो पन पञ्चद्वारिकोव होति. पञ्चद्वारिकस्स हि फुसनलक्खणोतिपि सङ्घट्टनरसोतिपि नामं; मनोद्वारिकस्स फुसनलक्खणोत्वेव नामं, न सङ्घट्टनरसो’’ति.
इदञ्च वत्वा इदं सुत्तं आभतं – ‘‘यथा, महाराज, द्वे मेण्डा युज्झेय्युं, तेसु यथा एको मेण्डो एवं चक्खु दट्ठब्बं, यथा दुतियो मेण्डो एवं रूपं दट्ठब्बं; यथा तेसं सन्निपातो एवं फस्सो दट्ठब्बो’’. एवं फुसनलक्खणो च फस्सो, सङ्घट्टनरसो च. ‘‘यथा, महाराज, द्वे सम्मा वज्जेय्युं…पे… द्वे पाणी वज्जेय्युं, यथा एको पाणि एवं चक्खु दट्ठब्बं, यथा दुतियो पाणि एवं रूपं दट्ठब्बं, यथा तेसं सन्निपातो एवं फस्सो दट्ठब्बो. एवं फुसनलक्खणो च फस्सो सङ्घट्टनरसो चा’’ति (मि. प. २.३.८) वित्थारो.
यथा वा ‘‘चक्खुना रूपं दिस्वा’’तिआदीसु (ध. स. १३५२, १३५४) चक्खुविञ्ञाणादीनि चक्खुआदिनामेन वुत्तानि, एवमिधापि तानि चक्खुआदिनामेन वुत्तानीति वेदितब्बानि. तस्मा ‘एवं चक्खु दट्ठब्ब’न्तिआदीसु एवं चक्खुविञ्ञाणं दट्ठब्बन्ति इमिना नयेन अत्थो वेदितब्बो. एवं सन्ते चित्तारम्मणसङ्घट्टनतो इमस्मिम्पि सुत्ते किच्चट्ठेनेव रसेन सङ्घट्टनरसोति सिद्धो होति.
तिकसन्निपातसङ्खातस्स पन अत्तनो कारणस्स वसेन पवेदितत्ता सन्निपातपच्चुपट्ठानो. अयञ्हि तत्थ तत्थ ‘‘तिण्णं सङ्गति फस्सो’’ति एवं कारणस्स वसेन पवेदितोति. इमस्स च सुत्तपदस्स तिण्णं सङ्गतिया फस्सोति अयमत्थो; न सङ्गतिमत्तमेव फस्सोति.
एवं पवेदितत्ता पन तेनेवाकारेन पच्चुपट्ठातीति सन्निपातपच्चुपट्ठानोति वुत्तो. फलट्ठेन पन पच्चुपट्ठानेनेस वेदनापच्चुपट्ठानो नाम होति. वेदनञ्हेस पच्चुपट्ठापेति उप्पादेतीति अत्थो. उप्पादयमानो च यथा बहिद्धा उण्हपच्चयापि लाखासङ्खातधातुनिस्सिता उस्मा अत्तनो निस्सये मुदुभावकारी होति, न अत्तनो पच्चयभूतेपि बहिद्धा वीतच्चितङ्गारसङ्खाते उण्हभावे, एवं वत्थारम्मणसङ्खातअञ्ञपच्चयोपि समानो, चित्तनिस्सितत्ता अत्तनो निस्सयभूते चित्ते एव एस वेदनुप्पादको होति, न अत्तनो पच्चयभूतेपि वत्थुम्हि आरम्मणे वाति वेदितब्बो. तज्जासमन्नाहारेन पन इन्द्रियेन च परिक्खते विसये अनन्तरायेन उप्पज्जनतो एस आपाथगतविसयपदट्ठानोति वुच्चति.
वेदयतीति वेदना. सा वेदयितलक्खणा, अनुभवनरसा इट्ठाकारसम्भोगरसा वा, चेतसिकअस्सादपच्चुपट्ठाना, पस्सद्धिपदट्ठाना.
‘चतुभूमिकवेदना हि नोवेदयितलक्खणा नाम नत्थि. अनुभवनरसता पन सुखवेदनायमेव लब्भती’ति वत्वा पुन तं वादं पटिक्खिपित्वा ‘सुखवेदना वा होतु, दुक्खवेदना वा, अदुक्खमसुखवेदना वा, सब्बा अनुभवनरसा’ति वत्वा अयमत्थो दीपितो – आरम्मणरसानुभवनट्ठानं पत्वा सेससम्पयुत्तधम्मा एकदेसमत्तकमेव अनुभवन्ति. फस्सस्स हि फुसनमत्तकमेव होति, सञ्ञाय सञ्जाननमत्तकमेव, चेतनाय चेतनामत्तकमेव, विञ्ञाणस्स विजाननमत्तकमेव. एकंसतो पन इस्सरवताय विस्सविताय सामिभावेन वेदनाव आरम्मणरसं अनुभवति.
राजा विय हि वेदना, सूदो विय सेसधम्मा. यथा सूदो नानारसभोजनं सम्पादेत्वा पेळाय पक्खिपित्वा लञ्छनं दत्वा रञ्ञो सन्तिके ओतारेत्वा लञ्छनं भिन्दित्वा पेळं विवरित्वा सब्बसूपब्यञ्जनेहि अग्गग्गं आदाय भाजने पक्खिपित्वा सदोसनिद्दोसभाववीमंसनत्थं अज्झोहरति, ततो रञ्ञो नानग्गरसभोजनं उपनामेति. राजा इस्सरवताय विस्सविताय सामी हुत्वा इच्छितिच्छितं भुञ्जति. तत्थ हि सूदस्स भत्तवीमंसनमत्तमिव अवसेसधम्मानं आरम्मणरसस्स एकदेसानुभवनं. यथा हि सूदो भत्तेकदेसमत्तमेव वीमंसति एवं सेसधम्मापि आरम्मणरसेकदेसमेव अनुभवन्ति. यथा पन राजा इस्सरवताय विस्सविताय सामी हुत्वा यदिच्छकं भुञ्जति, एवं वेदनापि इस्सरवताय विस्सविताय सामिभावेन आरम्मणरसं अनुभवति. तस्मा अनुभवनरसाति वुच्चति.
दुतिये अत्थविकप्पे अयं इध अधिप्पेता वेदना यथा वा तथा वा आरम्मणस्स इट्ठाकारमेव सम्भुञ्जतीति इट्ठाकारसम्भोगरसाति वुत्ता. चेतसिकअस्सादतो पनेसा अत्तनो सभावेनेव उपट्ठानं सन्धाय चेतसिकअस्सादपच्चुपट्ठानाति वुत्ता. यस्मा पन ‘‘पस्सद्धिकायो सुखं वेदेति’’ तस्मा पस्सद्धिपदट्ठानाति वेदितब्बा.
नीलादिभेदं आरम्मणं सञ्जानातीति सञ्ञा. सा सञ्जाननलक्खणा पच्चाभिञ्ञाणरसा. चतुभूमिकसञ्ञा हि नोसञ्जाननलक्खणा नाम नत्थि. सब्बा सञ्जाननलक्खणाव. या पनेत्थ अभिञ्ञाणेन सञ्जानाति सा पच्चाभिञ्ञाणरसा नाम होति.
तस्सा, वड्ढकिस्स दारुम्हि अभिञ्ञाणं कत्वा पुन तेन अभिञ्ञाणेन तं पच्चाभिजाननकाले, पुरिसस्स काळतिलकादिअभिञ्ञाणं सल्लक्खेत्वा पुन तेन अभिञ्ञाणेन असुको नाम एसोति तस्स पच्चाभिजाननकाले, रञ्ञो पिळन्धनगोपकभण्डागारिकस्स तस्मिं तस्मिं पिळन्धने नामपण्णकं बन्धित्वा ‘असुकं पिळन्धनं नाम आहरा’ति वुत्ते दीपं जालेत्वा रतनगब्भं पविसित्वा पण्णं वाचेत्वा तस्स तस्सेव पिळन्धनस्स आहरणकाले च पवत्ति वेदितब्बा.
अपरो नयो – सब्बसङ्गाहिकवसेन हि सञ्जाननलक्खणा सञ्ञा. पुनसञ्जाननपच्चयनिमित्तकरणरसा, दारुआदीसु तच्छकादयो विय. यथागहितनिमित्तवसेन अभिनिवेसकरणपच्चुपट्ठाना, हत्थिदस्सकअन्धा विय. आरम्मणे अनोगाळ्हवुत्तिताय अचिरट्ठानपच्चुपट्ठाना वा, विज्जु विय. यथाउपट्ठितविसयपदट्ठाना, तिणपुरिसकेसु मिगपोतकानं ‘पुरिसा’ति उप्पन्नसञ्ञा विय. या पनेत्थ ञाणसम्पयुत्ता होति सा सञ्ञा ञाणमेव अनुवत्तति. ससम्भारपथवीआदीसु सेसधम्मा पथवीआदीनि वियाति वेदितब्बा.
चेतयतीति चेतना सद्धिं अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहतीति अत्थो. सा चेतयितलक्खणा, चेतनाभावलक्खणाति अत्थो. आयूहनरसा. चतुभूमिकचेतना हि नोचेतयितलक्खणा नाम नत्थि. सब्बा चेतयितलक्खणाव. आयूहनरसता पन कुसलाकुसलेसु एव होति. कुसलाकुसलकम्मायूहनट्ठानञ्हि पत्वा सेससम्पयुत्तधम्मानं एकदेसमत्तकमेव किच्चं होति. चेतना पन अतिरेकउस्साहा अतिरेकवायामा, दिगुणुस्साहा दिगुणवायामा. तेनाहु पोराणा – ‘‘थावरियसभावसण्ठिता च पनेसा चेतना’’ति. थावरियोति खेत्तसामी वुच्चति. यथा खेत्तसामी पुरिसो पञ्चपण्णास बलिपुरिसे गहेत्वा ‘लायिस्सामी’ति एकतो खेत्तं ओतरति. तस्स अतिरेको उस्साहो अतिरेको वायामो, दिगुणो उस्साहो दिगुणो वायामो होति, ‘निरन्तरं गण्हथा’तिआदीनि वदति, सीमं आचिक्खति, तेसं सुराभत्तगन्धमालादीनि जानाति, मग्गं समकं हरति. एवंसम्पदमिदं वेदितब्बं. खेत्तसामिपुरिसो विय हि चेतना. पञ्चपण्णास बलिपुरिसा विय चित्तङ्गवसेन उप्पन्ना पञ्चपण्णास कुसला धम्मा. खेत्तसामिपुरिसस्स दिगुणुस्साहदिगुणवायामकरणकालो विय कुसलाकुसलकम्मायूहनट्ठानं पत्वा चेतनाय दिगुणुस्साहो दिगुणवायामो होति. एवमस्सा आयूहनरसता वेदितब्बा.
सा पनेसा संविदहनपच्चुपट्ठाना. संविदहमाना हि अयं उपट्ठाति, सकिच्चपरकिच्चसाधका, जेट्ठसिस्समहावड्ढकीआदयो विय. यथा हि जेट्ठसिस्सो उपज्झायं दूरतोव आगच्छन्तं दिस्वा सयं अधीयमानो इतरेपि दारके अत्तनो अत्तनो अज्झयनकम्मे पवत्तयति, तस्मिञ्हि अधीयितुं आरद्धे तेपि अधीयन्ति, तदनुवत्तिताय. यथा च महावड्ढकी सयं तच्छन्तो इतरेपि तच्छके अत्तनो अत्तनो तच्छनकम्मे पवत्तयति, तस्मिञ्हि तच्छितुं आरद्धे तेपि तच्छन्ति, तदनुवत्तिताय. यथा च योधनायको सयं युज्झमानो इतरेपि योधे सम्पहारवुत्तियं पवत्तयति, तस्मिञ्हि युज्झितुं आरद्धे तेपि अनिवत्तमाना युज्झन्ति, तदनुवत्तिताय. एवमेसापि अत्तनो किच्चेन आरम्मणे पवत्तमाना अञ्ञेपि सम्पयुत्तधम्मे अत्तनो अत्तनो किरियाय पवत्तेति. तस्सा हि अत्तनो किच्चं आरद्धाय, तंसम्पयुत्तापि आरभन्ति. तेन वुत्तं – ‘सकिच्चपरकिच्चसाधका, जेट्ठसिस्समहावड्ढकीआदयो विया’ति. अच्चायिककम्मानुस्सरणादीसु च पनायं सम्पयुत्तानं उस्साहनभावेन पवत्तमाना पाकटा होतीति वेदितब्बा.
‘आरम्मणं चिन्तेती’ति चित्तन्ति नयेन चित्तस्स वचनत्थो वुत्तो एव. लक्खणादितो पन विजाननलक्खणं चित्तं, पुब्बङ्गमरसं, सन्दहनपच्चुपट्ठानं, नामरूपपदट्ठानं. चतुभूमकचित्तञ्हि नोविजाननलक्खणं नाम नत्थि. सब्बं विजाननलक्खणमेव. द्वारं पन पत्वा आरम्मणविभावनट्ठाने चित्तं पुब्बङ्गमं पुरेचारिकं होति. चक्खुना हि दिट्ठं रूपारम्मणं चित्तेनेव विजानाति…पे… मनेन विञ्ञातं धम्मारम्मणं चित्तेनेव विजानाति. यथा हि नगरगुत्तिको नाम नगरमज्झे सिङ्घाटके निसीदित्वा ‘अयं नेवासिको अयं आगन्तुको’ति आगतागतं जनं उपधारेति ववत्थपेति – एवंसम्पदमिदं दट्ठब्बं. वुत्तम्पि चेतं महाथेरेन – ‘‘यथा, महाराज, नगरगुत्तिको नाम मज्झे नगरस्स सिङ्घाटके निसिन्नो पुरत्थिमतो दिसतो पुरिसं आगच्छन्तं पस्सेय्य… पच्छिमतो… दक्खिणतो… उत्तरतो दिसतो पुरिसं आगच्छन्तं पस्सेय्य, एवमेव खो, महाराज, यं चक्खुना रूपं पस्सति तं विञ्ञाणेन विजानाति, यं सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसति, मनसा धम्मं विजानाति, तं विञ्ञाणेन विजानाती’’ति (मि. प. २.३.१२). एवं द्वारं पत्वा आरम्मणविभावनट्ठाने चित्तमेव पुब्बङ्गमं पुरेचारिकं. तस्मा पुब्बङ्गमरसन्ति वुच्चति.
तदेतं पच्छिमं पच्छिमं उप्पज्जमानं पुरिमं पुरिमं निरन्तरं कत्वा सन्दहनमेव उपट्ठातीति सन्दहनपच्चुपट्ठानं. पञ्चवोकारभवे पनस्स नियमतो नामरूपं, चतुवोकारभवे नाममेव पदट्ठानं. तस्मा नामरूपपदट्ठानन्ति वुत्तं.
किं पनेतं चित्तं पुरिमनिद्दिट्ठचित्तेन सद्धिं एकमेव उदाहु अञ्ञन्ति? एकमेव. अथ कस्मा पुरिमनिद्दिट्ठं पुन वुत्तन्ति? अविचारितं एतं अट्ठकथायं. अयं पनेत्थ युत्ति – यथा हि रूपादीनि उपादाय पञ्ञत्ता सूरियादयो न अत्थतो रूपादीहि अञ्ञे होन्ति, तेनेव यस्मिं समये सूरियो उदेति तस्मिं समये तस्स तेजसङ्खातं रूपम्पीति. एवं वुच्चमानेपि न रूपादीहि अञ्ञो सूरियो नाम अत्थि. न तथा चित्तं; फस्सादयो धम्मे उपादाय पञ्ञापियति; अत्थतो पनेतं तेहि अञ्ञमेव. तेन ‘यस्मिं समये चित्तं उप्पन्नं होति एकंसेनेव तस्मिं समये फस्सादीहि अत्थतो अञ्ञमेव तं होती’ति इमस्सत्थस्स दीपनत्थाय एतं पुन वुत्तन्ति वेदितब्बं.
यथा च ‘‘यस्मिं समये रूपूपपत्तिया मग्गं भावेति…पे… पथवीकसिणं, तस्मिं समये फस्सो होति वेदना होती’’तिआदीसु (ध. स. १६०) पन भावेन्तेन ववत्थापिते समये यो भावेति न सो अत्थतो उप्पज्जति नाम, तेनेव तत्थ यथा ‘‘फस्सो होति वेदना होती’’ति वुत्तं, न एवं ‘‘यो भावेति सो होती’’ति वुत्तं. ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’तिआदीसु पन चित्तेन ववत्थापिते समये समयववत्थापितं चित्तं न तथा अत्थतो नुप्पज्जति. यथेव पन तदा ‘फस्सो होति वेदना होति’, तथा ‘चित्तम्पि होती’ति इमस्सपि अत्थस्स दीपनत्थमिदं पुन वुत्तन्ति वेदितब्बं. इदं पनेत्थ सन्निट्ठानं – उद्देसवारे सङ्गण्हनत्थं निद्देसवारे च विभजनत्थं पुरिमेन हि ‘चित्त’-सद्देन केवलं समयो ववत्थापितो. तस्मिं पन चित्तेन ववत्थापितसमये ये धम्मा होन्ति तेसं दस्सनत्थं ‘‘फस्सो होती’’तिआदि आरद्धं. चित्तञ्चापि तस्मिं समये होतियेव. तस्मा तस्सापि सङ्गण्हनत्थमेतं पुन वुत्तं. इमस्मिञ्च ठाने एतस्मिं अवुच्चमाने ‘‘कतमं तस्मिं समये चित्त’’न्ति न सक्का भवेय्य निद्देसवारे विभजितुं. एवमस्स विभजनंयेव परिहायेथ. तस्मा तस्स निद्देसवारे विभजनत्थम्पि एतञ्च वुत्तन्ति वेदितब्बं.
यस्मा वा ‘‘उप्पन्नं होती’’ति एत्थ चित्तं उप्पन्नन्ति एतं देसनासीसमेव, ‘न पन चित्तं एकमेव उप्पज्जती’ति अट्ठकथायं विचारितं, तस्मा चित्तं ‘‘उप्पन्न’’न्ति एत्थापि चित्तमत्तमेव अग्गहेत्वा परोपण्णासकुसलधम्मेहि सद्धिंयेव चित्तं गहितं. एवं तत्थ सङ्खेपतो सब्बेपि चित्तचेतसिकधम्मे गहेत्वा इध सरूपेन पभेदतो दस्सेतुं ‘‘फस्सो होती’’तिआदि आरद्धं. इति फस्सादयो विय चित्तम्पि वुत्तमेवाति वेदितब्बं.