सुमेधकथा

एवं आभतस्स पनस्स यं तं दीपङ्करदसबलतो पट्ठाय याव महाबोधिपल्लङ्का अधिगमनिदानं, याव धम्मचक्कप्पवत्तना देसनानिदानञ्च वुत्तं, तस्स आविभावत्थं अयं अनुपुब्बिकथा वेदितब्बा –

इतो किर कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके अमरवती नाम नगरं अहोसि. तत्थ सुमेधो नाम ब्राह्मणो पटिवसति उभतो सुजातो, मातितो च पितितो च, संसुद्धगहणिको, याव सत्तमा कुलपरिवट्टा अक्खित्तो अनुपकुट्ठो जातिवादेन, अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो. सो अञ्ञं कम्मं अकत्वा ब्राह्मणसिप्पमेव उग्गण्हि. तस्स दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढको अमच्चो आयपोत्थकं आहरित्वा सुवण्णरजतमणिमुत्तादिपूरिते गब्भे विवरित्वा ‘एत्तकं ते कुमार मातु सन्तकं, एत्तकं पितु सन्तकं, एत्तका अय्यकपय्यकानं सन्तकाति याव सत्तमा कुलपरिवट्टा धनं आचिक्खित्वा एतं पटिपज्जाही’ति आह. सुमेधपण्डितो चिन्तेसि – ‘इमं धनं संहरित्वा मय्हं पितुपितामहादयो परलोकं गच्छन्ता एककहापणम्पि गहेत्वा न गता, मया पन गहेत्वा गमनकारणं कातुं वट्टती’ति सो रञ्ञो आरोचेत्वा नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा तापसपब्बज्जं पब्बजि. इमस्मिं पन ठाने सुमेधकथा कथेतब्बा. वुत्तञ्हेतं बुद्धवंसे (बु. वं. २.१-३३) –

कप्पे च सतसहस्से, चतुरो च असङ्खिये;

अमरं नाम नगरं, दस्सनेय्यं मनोरमं.

दसहि सद्देहि अविवित्तं, अन्नपानसमायुतं;

हत्थिसद्दं अस्ससद्दं, भेरिसङ्खरथानि च;

खादथ पिवथ चेव, अन्नपानेन घोसितं.

नगरं सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं;

सत्तरतनसम्पन्नं, नानाजनसमाकुलं;

समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिनं.

नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;

अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.

अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सधम्मे पारमिं गतो.

रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;

दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.

जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं तदा;

अजरं अमतं खेमं, परियेसिस्सामि निब्बुतिं.

यंनूनिमं पूतिकायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये;

परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया.

यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;

एवं भवे विज्जमाने, विभवोपि इच्छितब्बको.

यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;

एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.

यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;

एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बकं.

यथा गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;

न गवेसति तं तळाकं, न दोसो तळाकस्स सो.

एवं किलेसमलधोवे, विज्जन्ते अमतन्तळे;

न गवेसति तं तळाकं, न दोसो अमतन्तळे.

यथा अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;

न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.

एवं किलेसपरिरुद्धो, विज्जमाने सिवे पथे;

न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.

यथापि ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;

न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.

एवं किलेसब्याधीहि, दुक्खितो परिपीळितो;

न गवेसति तं आचरियं, न दोसो सो विनायके.

यथापि कुणपं पुरिसो, कण्ठे बद्धं जिगुच्छिय;

मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.

तथेविमं पूतिकायं, नानाकुणपसञ्चयं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

यथा उच्चारट्ठानम्हि, करीसं नरनारियो;

छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.

एवमेवाहं इमं कायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.

यथापि जज्जरं नावं, पलुग्गं उदगाहिनिं;

सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.

एवमेवाहं इमं कायं, नवच्छिद्दं धुवस्सवं;

छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.

यथापि पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;

भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.

एवमेव अयं कायो, महाचोरसमो विय;

पहायिमं गमिस्सामि, कुसलच्छेदनाभया.

एवाहं चिन्तयित्वान, नेककोटिसतं धनं;

नाथानाथानं दत्वान, हिमवन्तमुपागमिं.

हिमवन्तस्साविदूरे, धम्मिको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितं;

अट्ठगुणसमुपेतं, अभिञ्ञाबलमाहरिं.

साटकं पजहिं तत्थ, नवदोसमुपागतं;

वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.

अट्ठदोससमाकिण्णं, पजहिं पण्णसालकं;

उपागमिं रुक्खमूलं, गुणे दसहुपागतं.

वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबल पापुणिन्ति. (बु. वं. २.१-३३);

तत्थ अस्समो सुकतो मय्हं, पण्णसाला सुमापिताति इमिस्सा पाळिया सुमेधपण्डितेन अस्समपण्णसालाचङ्कमा सहत्था मापिता विय वुत्ता. अयं पनेत्थ अत्थो – महासत्तञ्हि ‘‘हिमवन्तं अज्झोगाहेत्वा अज्ज धम्मिकपब्बतं पविसिस्सामी’’ति निक्खन्तं दिस्वा सक्को देवानमिन्दो विस्सकम्मदेवपुत्तं आमन्तेसि – ‘‘गच्छ, तात, अयं सुमेधपण्डितो ‘पब्बजिस्सामी’ति निक्खन्तो एतस्स वसनट्ठानं मापेही’’ति. सो तस्स वचनं सम्पटिच्छित्वा रमणीयं अस्समं सुगुत्तं पण्णसालं, मनोरमं चङ्कमञ्च मापेसि. भगवा पन तदा अत्तनो पुञ्ञानुभावेन निप्फन्नं तं अस्समपदं सन्धाय ‘‘सारिपुत्त तस्मिं धम्मिकपब्बते –

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता;

चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’न्ति. –

आह. तत्थ अस्समो सुकतो मय्हन्ति सुकतो मया. पण्णसाला सुमापिताति पण्णच्छन्ना सालापि मे सुमापिता अहोसि.

पञ्चदोसविवज्जितन्ति पञ्चिमे चङ्कमदोसा नाम थद्धविसमता, अन्तोरुक्खता, गहनच्छन्नता, अतिसम्बाधता, अतिविसालताति. थद्धविसमभूमिभागस्मिञ्हि चङ्कमे चङ्कमन्तस्स पादा रुज्जन्ति, फोटा उट्ठहन्ति, चित्तं एकग्गतं न लभति, कम्मट्ठानं विपज्जति. मुदुसमतले पन फासुविहारं आगम्म कम्मट्ठानं सम्पज्जति. तस्मा थद्धविसमभूमिभागता एको दोसोति वेदितब्बो. चङ्कमनस्स अन्तो वा मज्झे वा कोटियं वा रुक्खे सति पमादमागम्म चङ्कमन्तस्स नलाटं वा सीसं वा पटिहञ्ञतीति अन्तोरुक्खता दुतियो दोसो. तिणलतादिगहनच्छन्ने चङ्कमे चङ्कमन्तो अन्धकारवेलायं उरगादिके पाणे अक्कमित्वा वा मारेति, तेहि वा दट्ठो दुक्खं आपज्जतीति गहनच्छन्नता ततियो दोसो. अतिसम्बाधे चङ्कमे वित्थारतो रतनिके वा अड्ढरतनिके वा चङ्कमन्तस्स परिच्छेदे पक्खलित्वा नखापि अङ्गुलियोपि भिज्जन्तीति अतिसम्बाधता चतुत्थो दोसो. अतिविसाले चङ्कमे चङ्कमन्तस्स चित्तं विधावति, एकग्गतं न लभतीति अतिविसालता पञ्चमो दोसो. पुथुलतो पन दियड्ढरतनं द्वीसु पस्सेसु रतनमत्तअनुचङ्कमं दीघतो सट्ठिहत्थं मुदुतलं समविप्पकिण्णवालुकं चङ्कमं वट्टति, चेतियगिरिम्हि दीपप्पसादकमहामहिन्दत्थेरस्स चङ्कमनं विय, तादिसं तं अहोसि. तेनाह ‘‘चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’न्ति.

अट्ठगुणसमुपेतन्ति अट्ठहि समणसुखेहि उपेतं. अट्ठिमानि समणसुखानि नाम धनधञ्ञपरिग्गहाभावो अनवज्जपिण्डपरियेसनभावो, निब्बुतपिण्डभुञ्जनभावो, रट्ठं पीळेत्वा धनसारं वा सीसकहापणादीनि वा गण्हन्तेसु राजकुलेसु रट्ठपीळनकिलेसाभावो, उपकरणेसु निच्छन्दरागभावो, चोरविलोपे निब्भयभावो, राजराजमहामच्चेहि असंसट्ठभावो चतूसु दिसासु अप्पटिहतभावोति. इदं वुत्तं होति ‘‘यथा तस्मिं अस्समे वसन्तेन सक्का होन्ति इमानि अट्ठ समणसुखानि विन्दितुं, एवं अट्ठगुणसमुपेतं तं अस्समं मापेसि’’ न्ति.

अभिञ्ञाबलमाहरिन्ति पच्छा तस्मिं अस्समे वसन्तो कसिणपरिकम्मं कत्वा अभिञ्ञानञ्च समापत्तीनञ्च उप्पादनत्थाय अनिच्चतो दुक्खतो विपस्सनं आरभित्वा थामप्पत्तं विपस्सनाबलं आहरिं. यथा तस्मिं वसन्तो तं बलं आहरितुं सक्कोमि, एवं तं अस्समं तस्स अभिञ्ञत्थाय विपस्सनाबलस्स अनुच्छविकं कत्वा मापेसिन्ति अत्थो.

साटकं पजहिं तत्थ, नवदोसमुपागतन्ति एत्थायं अनुपुब्बिकथा, तदा किर कुटिलेणचङ्कमादिपटिमण्डितं पुप्फूपगफलूपगरुक्खसञ्छन्नं रमणीयं मधुरसलिलासयं अपगतवाळमिगभिंसनकसकुणं पविवेकक्खमं अस्समं मापेत्वा अलङ्कतचङ्कमस्स उभोसु अन्तेसु आलम्बनफलकं संविधाय निसीदनत्थाय चङ्कमवेमज्झे समतलं मुग्गवण्णसिलं मापेत्वा अन्तोपण्णसालायं जटामण्डलवाकचीरतिदण्डकुण्डिकादिके तापसपरिक्खारे मण्डपे पानीयघटपानीयसङ्खपानीयसरावानि अग्गिसालायं अङ्गारकपल्लदारुआदीनीति एवं यं यं पब्बजितानं उपकाराय संवत्तति, तं तं सब्बं मापेत्वा पण्णसालाय भित्तियं ‘‘ये केचि पब्बजितुकामा इमे परिक्खारे गहेत्वा पब्बजन्तू’’ति अक्खरानि छिन्दित्वा देवलोकमेव गते विस्सकम्मदेवपुत्ते सुमेधपण्डितो हिमवन्तपादे गिरिकन्दरानुसारेन अत्तनो निवासनानुरूपं फासुकट्ठानं ओलोकेन्तो नदीनिवत्तने विस्सकम्मनिम्मितं सक्कदत्तियं रमणीयं अस्समं दिस्वा चङ्कमकोटिं गन्त्वा पदवलञ्जं अपस्सन्तो ‘‘धुवं पब्बजिता धुरगामे भिक्खं परियेसित्वा किलन्तरूपा आगन्त्वा पण्णसालं पविसित्वा निसिन्ना भविस्सन्ती’’ति चिन्तेत्वा थोकं आगमेत्वा ‘‘अतिविय चिरायन्ति, जानिस्सामी’’ति पण्णसालकुटिद्वारं विवरित्वा अन्तो पविसित्वा इतो चितो च ओलोकेन्तो महाभित्तियं अक्खरानि वाचेत्वा ‘‘मय्हं कप्पियपरिक्खारा एते, इमे गहेत्वा पब्बजिस्सामी’’ति अत्तना निवत्थपारुतं साटकयुगं पजहि. तेनाह ‘‘साटकं पजहिं तत्था’’ति. एवं पविट्ठो अहं सारिपुत्त तस्सं पण्णसालायं साटकं पजहिं.

नवदोसमुपागतन्ति साटकं पजहन्तो नव दोसे दिस्वा पजहिन्ति दीपेति. तापसपब्बज्जं पब्बजितानञ्हि साटकस्मिं नव दोसा उपट्ठहन्ति. तेसु तस्स महग्घभावो एको दोसो, परपटिबद्धताय उप्पज्जनभावो एको, परिभोगेन लहुं किलिस्सनभावो एको, किलिट्ठो हि धोवितब्बो च रजितब्बो च होति, परिभोगेन लहुकं जीरणभावो एको जिण्णस्स हि तुन्नं वा अग्गळदानं वा कातब्बं होति. पुनपरियेसनाय दुरभिसम्भवभावो एको, तापसपब्बज्जाय असारुप्पभावो एको, पच्चत्थिकानं साधारणभावो एको, यथा हि नं पच्चत्थिका न गण्हन्ति, एवं गोपेतब्बो होति. परिभुञ्जन्तस्स विभूसनट्ठानभावो एको, गहेत्वा चरन्तस्स खन्धभारमहिच्छभावो एकोति.

वाकचीरं निवासेसिन्ति तदा अहं सारिपुत्त इमे नव दोसे दिस्वा साटकं पहाय वाकचीरं निवासेसिं मुञ्जतिणं हीरं हीरं कत्वा गन्थेत्वा कतं वाकचीरं निवासनपारुपनत्थाय आदियिन्ति अत्थो.

द्वादसगुणमुपागतन्ति द्वादसहि आनिसंसेहि समन्नागतं, वाकचीरस्मिञ्हि द्वादसानिसंसा – अप्पग्घं सुन्दरं कप्पियन्ति अयं ताव एको आनिसंसो, सहत्था कातुं सक्काति अयं दुतियो, परिभोगेन सणिकं किलिस्सति धोवियमानेपि पपञ्चो नत्थीति अयं ततियो, परिभोगेन जिण्णेपि सिब्बितब्बाभावो चतुत्थो, पुन परियेसन्तस्स सुखेन करणभावो पञ्चमो, तापसपब्बज्जाय सारुप्पभावो छट्ठो, पच्चत्थिकानं निरुपभोगभावो सत्तमो, परिभुञ्जन्तस्स विभूसनट्ठानाभावो अट्ठमो, धारणे सल्लहुकभावो नवमो, चीवरपच्चये अप्पिच्छभावो दसमो, वाकुप्पत्तिया धम्मिकअनवज्जभावो एकादसमो वाकचीरे नट्ठेपि अनपेक्खभावो द्वादसमोति.

अट्ठदोससमाकिण्णं, पजहिं पण्णसालकन्ति कथं पजहिं? सो किर वरसाटकयुगं ओमुञ्चन्तो चीवरवंसे लग्गितं अनोजपुप्फदामसदिसं रत्तवाकचीरं गहेत्वा निवासेत्वा तस्सुपरि अपरं सुवण्णवण्णं वाकचीरं परिदहित्वा पुन्नागपुप्फसन्थरसदिसं सखुरं अजिनचम्मं एकंसं कत्वा जटामण्डलं पटिमुञ्चित्वा चूळाय सद्धिं निच्चलभावकरणत्थं सारसूचिं पवेसेत्वा मुत्ताजालसदिसाय सिक्काय पवाळवण्णं कुण्डिकं ओदहित्वा तीसु ठानेसु वङ्ककाजं आदाय एकिस्सा काजकोटिया कुण्डिकं, एकिस्सा अङ्कुसकपच्छितिदण्डकादीनि ओलग्गेत्वा खारिकाजं अंसे कत्वा दक्खिणेन हत्थेन कत्तरदण्डं गहेत्वा पण्णसालतो निक्खमित्वा सट्ठिहत्थे महाचङ्कमे अपरापरं चङ्कमन्तो अत्तनो वेसं ओलोकेत्वा ‘‘मय्हं मनोरथो मत्थकं पत्तो, सोभति वत मे पब्बज्जा, बुद्धपच्चेकबुद्धादीहि सब्बेहिपि धीरपुरिसेहि वण्णिता थोमिता अयं पब्बज्जा नाम, पहीनं मे गिहिबन्धनं, निक्खन्तोस्मि नेक्खम्मं, लद्धा मे उत्तमपब्बज्जा, करिस्सामि समणधम्मं, लभिस्सामि अग्गफलसुख’’न्ति उस्साहजातो खारिकाजं ओतारेत्वा चङ्कमवेमज्झे मुग्गवण्णसिलापट्टे सुवण्णपटिमा विय निसिन्नो दिवसभागं वीतिनामेत्वा सायन्हसमयं पण्णसालं पविसित्वा बिदलमञ्चकपस्से कट्ठत्थरिकाय निपन्नो सरीरं उतुं गाहापेत्वा बलवपच्चूसे पबुज्झित्वा अत्तनो आगमनं आवज्जेसि ‘‘अहं घरावासे आदीनवं दिस्वा अमितभोगं अनन्तयसं पहाय अरञ्ञं पविसित्वा नेक्खमगवेसको हुत्वा पब्बजितो, इतो दानि पट्ठाय पमादचारं चरितुं न वट्टति, पविवेकञ्हि पहाय विचरन्तं मिच्छावितक्कमक्खिका खादन्ति, इदानि मया पविवेकमनुब्रूहेतुं वट्टति, अहञ्हि घरावासं पलिबोधतो दिस्वा निक्खन्तो, अयञ्च मनापा पण्णसाला, बेलुवपक्कवण्णा परिभण्डकता भूमि, रजतवण्णा सेतभित्तियो, कपोतपादवण्णं पण्णच्छदनं, विचित्तत्थरणवण्णो बिदलमञ्चको, निवासफासुकं वसनट्ठानं, न एत्तो अतिरेकतरा विय मे गेहसम्पदा पञ्ञायती’’ति पण्णसालाय दोसे विचिनन्तो अट्ठ दोसे पस्सि.

पण्णसालापरिभोगस्मिञ्हि अट्ठ आदीनवा – महासमारम्भेन? दब्बसम्भारे समोधानेत्वा करणपरियेसनभावो एको आदीनवो. तिणपण्णमत्तिकासु पतितासु तासं पुनप्पुनं ठपेतब्बताय निबद्धजग्गनभावो दुतियो, सेनासनं नाम महल्लकस्स पापुणाति, अवेलाय वुट्ठापियमानस्स चित्तेकग्गता न होतीति उट्ठापनीयभावो ततियो, सीतुण्हपटिघातेन कायस्स सुखुमालकरणभावो चतुत्थो, गेहं पविट्ठेन यंकिञ्चि पापं सक्का कातुन्ति गरहपटिच्छादनभावो पञ्चमो, ‘‘मय्ह’’न्ति परिग्गहकरणभावो छट्ठो, गेहस्स अत्थिभावो नामेस दुतियकवासो वियाति सत्तमो ऊकामङ्गुलघरगोळिकादीनं साधारणताय बहुसाधारणभावो अट्ठमोति इमे अट्ठ आदीनवे दिस्वा महासत्तो पण्णसालं पजहि. तेनाह ‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालक’’न्ति.

उपागमिं रुक्खमूलं गुणे दसहुपागतन्ति छन्नं पटिक्खिपित्वा दसहि गुणेहि उपेतं रुक्खमूलं उपागतोस्मीति वदति.

तत्रिमे दस गुणा – अप्पसमारम्भता एको गुणो उपगमनमत्तमेव हि तत्थ होतीति. अप्पटिजग्गनता दुतियो तञ्हि सम्मट्ठम्पि असम्मट्ठम्पि परिभोगफासुकं होतियेव. अनुट्ठापनीयभावो ततियो, गरहं नप्पटिच्छादेति, तत्थ हि पापं करोन्तो लज्जतीति गरहाय अप्पटिच्छादनभावो चतुत्थो, अब्भोकासावासो विय कायं न सन्थम्भेतीति कायस्स असन्थम्भनभावो पञ्चमो. परिग्गहकरणाभावो छट्ठो, गेहालयपटिक्खेपो सत्तमो, बहुसाधारणगेहे विय ‘‘पटिजग्गिस्सामि नं, निक्खमथा’’ति नीहरणाभावो अट्ठमो, वसन्तस्स सप्पीतिकभावो नवमो, रुक्खमूलसेनासनस्स गतगतट्ठाने सुलभताय अनपेक्खभावो दसमोति, इमे दस गुणे दिस्वा रुक्खमूलं उपागतोस्मीति वदति.

इमानि एत्तकानि कारणानि सल्लक्खेत्वा महासत्तो पुनदिवसे भिक्खाय गामं पाविसि. अथस्स सम्पत्तगामे मनुस्सा महन्तेन उस्साहेन भिक्खं अदंसु. सो भत्तकिच्चं निट्ठापेत्वा अस्समं आगम्म निसीदित्वा चिन्तेसि ‘‘नाहं ‘आहारं न लभामी’ति पब्बजितो सिनिद्धाहारो नामेस मानमदपुरिसमदे वड्ढेति. आहारमूलकस्स दुक्खस्स अन्तो नत्थि यंनूनाहं वापितं रोपितं धञ्ञनिब्बत्तकं आहारं पजहित्वा पवत्तफलभोजनो भवेय्य’’न्ति. सो ततो पट्ठाय तथा कत्वा घटेन्तो वायमन्तो सत्ताहब्भन्तरेयेव अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेसि. तेन वुत्तं –

‘‘वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

‘‘तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबल पापुणि’’न्ति.

एवं मे सिद्धिप्पत्तस्स, वसीभूतस्स सासने;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.

उप्पज्जन्ते च जायन्ते, बुज्झन्ते धम्मदेसने;

चतुरो निमित्ते नाद्दसं, झानरतिसमप्पितो.

पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;

तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.

अहं तेन समयेन, निक्खमित्वा सकस्समा;

धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.

वेदजातं जनं दिस्वा, तुट्ठहट्ठं पमोदितं;

ओरोहित्वान गगना, मनुस्से पुच्छि तावदे.

‘‘तुट्ठहट्ठो पमुदितो, वेदजातो महाजनो;

कस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

ते मे पुट्ठा वियाकंसु ‘‘बुद्धो लोके अनुत्तरो;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको;

तस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

‘‘बुद्धो’’ति वचनं सुत्वान, पीति उप्पज्जि तावदे;

‘‘बुद्धो बुद्धो’’ति कथयन्तो, सोमनस्सं पवेदयिं.

तत्थ ठत्वा विचिन्तेसिं, तुट्ठो संविग्गमानसो;

‘‘इध बीजानि रोपिस्सं, खणो वे मा उपच्चगा’’.

यदि बुद्धस्स सोधेथ, एकोकासं ददाथ मे;

अहम्पि सोधयिस्सामि, अञ्जसं वटुमायनं.

अदंसु ते ममोकासं, सोधेतुं अञ्जसं तदा;

‘‘बुद्धो बुद्धो’’ति चिन्तेन्तो, मग्गं सोधेमहं तदा.

अनिट्ठिते पमोकासे, दीपङ्करो महामुनि;

चतूहि सतसहस्सेहि, छळभिञ्ञेहि तादिहि;

खीणासवेहि विमलेहि, पटिपज्जि अञ्जसं जिनो.

पच्चुग्गमना वत्तन्ति, वज्जन्ति भेरियो बहू;

आमोदिता नरमरू, साधुकारं पवत्तयुं.

देवा मनुस्से पस्सन्ति, मनुस्सापि च देवता;

उभोपि ते पञ्जलिका, अनुयन्ति तथागतं.

देवा दिब्बेहि तुरियेहि, मनुस्सा मानुसेहि च;

उभोपि ते वज्जयन्ता, अनुयन्ति तथागतं.

दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

दिब्बं चन्दनचुण्णञ्च, वरगन्धञ्च केवलं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

चम्पकं सललं नीपं, नागपुन्नागकेतकं;

दिसोदिसं उक्खिपन्ति, भूमितलगता नरा.

केसे मुञ्चित्वाहं तत्थ, वाकचीरञ्च चम्मकं;

कलले पत्थरित्वान, अवकुज्जो निपज्जहं.

अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;

मा नं कलले अक्कमित्थ, हिताय मे भविस्सति.

पथवियं निपन्नस्स, एवं मे आसि चेतसो;

‘‘इच्छमानो अहं अज्ज, किलेसे झापये मम.

‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;

सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके.

‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;

सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.

‘‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;

सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.

‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;

धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकं’’.

दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

उस्सीसके मं ठत्वान, इदं वचनमब्रवि.

‘‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;

अपरिमेय्ये इतो कप्पे, बुद्धो लोके भविस्सति.

‘‘अहु कपिलव्हया रम्मा, निक्खमित्वा तथागतो;

पधानं पदहित्वान, कत्वा दुक्करकारिकं.

‘‘अजपालरुक्खमूले, निसीदित्वा तथागतो;