७. सुतवासुत्तवण्णना
७. सत्तमे पञ्च ठानानि अज्झाचरितुन्ति पञ्च कारणानि अतिक्कमितुं. पाणन्ति अन्तमसो कुन्थकिपिल्लिकं. अदिन्नन्ति अन्तमसो तिणसलाकम्पि परसन्तकं. थेय्यसङ्खातन्ति थेय्यचित्तेन. सन्निधिकारकं कामे परिभुञ्जितुन्ति सन्निधिं कत्वा ठपेत्वा वत्थुकामकिलेसकामे परिभुञ्जितुं अभब्बो. अकप्पियं कामगुणं सन्धायेतं वुत्तं. बुद्धं पच्चक्खातुन्ति ‘‘न बुद्धो अय’’न्ति एवं पटिक्खिपितुं. धम्मादीसुपि एसेव नयो. एवं ताव अट्ठकथाय आगतं. पाळियं पन इमस्मिं सुत्ते अगतिगमनानि कथितानि.