५-१०. सन्दिट्ठिकधम्मसुत्तादिवण्णना
४६-५१. पञ्चमादीसु सन्दिट्ठिकोति सयं पस्सितब्बको. निब्बानन्ति किलेसनिब्बानं. परिनिब्बानन्ति तस्सेव वेवचनं. तदङ्गनिब्बानन्ति पठमज्झानादिना तेन तेन अङ्गेन निब्बानं. दिट्ठधम्मनिब्बानन्ति इस्मिंयेव अत्तभावे निब्बानं. सेसं सब्बत्थ उत्तानत्थमेवाति.
सामञ्ञवग्गो पञ्चमो.
पठमपण्णासकं निट्ठितं.