२. अलंसुत्तवण्णना

६२. दुतिये अलं अत्तनो अलं परेसन्ति अत्तनो च परेसञ्च हितपटिपत्तियं समत्थो परियत्तो अनुच्छविको. खिप्पनिसन्तीति खिप्पं उपधारेति, खन्धधातुआयतनादीसु कथियमानेसु ते धम्मे खिप्पं जानातीति अत्थो. इमस्मिं सुत्ते समथविपस्सना कथिता. पुग्गलज्झासयेन पन देसनाविलासेन चेतं मत्थकतो पट्ठाय हेट्ठा ओतरन्तं कथितन्ति.