४. अस्सखळुङ्कसुत्तवण्णना

१४. चतुत्थे ‘‘पेही’’ति वुत्तोति ‘‘गच्छा’’ति वुत्तो. पिट्ठितो रथं पवत्तेतीति खन्धट्ठिकेन युगं उप्पीळित्वा पच्छिमभागेन रथं पवट्टेन्तो ओसक्कति. पच्छा लङ्घति, कुब्बरं हनतीति द्वे पच्छिमपादे उक्खिपित्वा तेहि पहरित्वा रथकुब्बरं भिन्दति. तिदण्डं भञ्जतीति रथस्स पुरतो तयो दण्डका होन्ति, ते भञ्जति. रथीसाय सत्थिं उस्सज्जित्वाति सीसं नामेत्वा युगं भूमियं पातेत्वा सत्थिना रथीसं पहरित्वा. अज्झोमद्दतीति द्वीहि पुरिमपादेहि ईसं मद्दन्तो तिट्ठति. उब्बटुमं रथं करोतीति थलं वा कण्डकट्ठानं वा रथं आरोपेति. अनादियित्वाति अमनसिकत्वा अगणित्वा. मुखाधानन्ति मुखठपनत्थाय दिन्नं अयसङ्खलिकं. खीलट्ठायीति चत्तारो पादे थम्भे विय निच्चलं ठपेत्वा खीलट्ठानसदिसेन ठानेन तिट्ठति. इमस्मिं सुत्ते वट्टमेव कथितं.