३. अस्साजानीयसुत्तवण्णना
१३. ततिये अङ्गेहीति गुणङ्गेहि. तस्सं दिसायं जातो होतीति तस्सं सिन्धुनदीतीरदिसायं जातो होति. अञ्ञेपि भद्रा अस्साजानीया तत्थेव जायन्ति. अल्लं वा सुक्खं वाति अल्लतिणं वा सुक्खतिणं वा. नाञ्ञे अस्से उब्बेजेताति अञ्ञे अस्से न उब्बेजेति न पहरति न डंसति न कलहं करोति. साठेय्यानीति सठभावो. कूटेय्यानीति कूटभावो. जिम्हेय्यानीति जिम्हभावो. वङ्केय्यानीति वङ्कभावा. इच्चस्स चतूहिपि पदेहि असिक्खितभावोव कथितो. वाहीति वहनसभावो दिन्नोवादपटिकरो. याव जीवितमरणपरियादानाति याव जीवितस्स मरणेन परियोसाना. सक्कच्चं परिभुञ्जतीति अमतं विय पच्चवेक्खित्वा परिभुञ्जति. पुरिसथामेनातिआदीसु ञाणथामादयो कथिता. सण्ठानन्ति ओसक्कनं पटिप्पस्सद्धि.