२. सीहसुत्तवण्णना

१२. दुतिये अभिञ्ञाताति ञाता पञ्ञाता पाकटा. सन्थागारेति महाजनस्स विस्समनत्थाय कते अगारे. सा किर सन्थागारसाला नगरमज्झे अहोसि, चतूसु ठानेसु ठितानं पञ्ञायति, चतूहि दिसाहि आगतमनुस्सा पठमं तत्थ विस्समित्वा पच्छा अत्तनो अत्तनो फासुकट्ठानं गच्छन्ति. राजकुलानं रज्जकिच्चसन्थरणत्थाय कतं अगारन्तिपि वदन्तियेव. तत्थ हि निसीदित्वा लिच्छविराजानो रज्जकिच्चं सन्थरन्ति करोन्ति विचारेन्ति. सन्निसिन्नाति तेसं निसीदनत्थञ्ञेव पञ्ञत्तेसु महारहवरपच्चत्थरणेसु समुस्सितसेतच्छत्तेसु आसनेसु सन्निसिन्ना. अनेकपरियायेन बुद्धस्स वण्णं भासन्तीति राजकुले किच्चञ्चेव लोकत्थचरियञ्च विचारेत्वा अनेकेहि कारणेहि बुद्धस्स वण्णं भासन्ति कथेन्ति दीपेन्ति. पण्डिता हि ते राजानो सद्धा पसन्ना सोतापन्नापि सकदागामिनोपि अनागामिनोपि अरियसावका, ते सब्बेपि लोकियजटं छिन्दित्वा बुद्धादीनं तिण्णं रतनानं वण्णं भासन्ति. तत्थ तिविधो बुद्धवण्णो नाम चरियवण्णो, सरीरवण्णो, गुणवण्णोति. तत्रिमे राजानो चरियाय वण्णं आरभिंसु – ‘‘दुक्करं वत कतं सम्मासम्बुद्धेन कप्पसतसहस्साधिकानि चत्तारि असङ्खेय्यानि दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समत्तिंस पारमियो पूरेन्तेन, ञातत्थचरियं, लोकत्थचरियं, बुद्धचरियं मत्थकं पापेत्वा पञ्च महापरिच्चागे परिच्चजन्तेना’’ति अड्ढच्छक्केहि जातकसतेहि बुद्धवण्णं कथेन्ता तुसितभवनं पापेत्वा ठपयिंसु.

धम्मस्स वण्णं भासन्ता पन ‘‘तेन भगवता धम्मो देसितो, निकायतो पञ्च निकाया, पिटकतो तीणि पिटकानि, अङ्गतो नव अङ्गानि, खन्धतो चतुरासीतिधम्मक्खन्धसहस्सानी’’ति कोट्ठासवसेन धम्मगुणं कथयिंसु.

सङ्घस्स वण्णं भासन्ता सत्थु धम्मदेसनं सुत्वा ‘‘पटिलद्धसद्धा कुलपुत्ता भोगक्खन्धञ्चेव ञातिपरिवट्टञ्च पहाय सेतच्छत्तं ओपरज्जं सेनापतिसेट्ठिभण्डागारिकट्ठानन्तरादीनि अगणेत्वा निक्खम्म सत्थु वरसासने पब्बजन्ति. सेतच्छत्तं पहाय पब्बजितानं भद्दियराजमहाकप्पिनपुक्कुसातिआदीनं राजपब्बजितानंयेव बुद्धकाले असीतिसहस्सानि अहेसुं. अनेककोटिसतं धनं पहाय पब्बजितानं पन यसकुलपुत्तसोणसेट्ठिपुत्तरट्ठपालकुलपुत्तादीनं परिच्छेदो नत्थि. एवरूपा च एवरूपा च कुलपुत्ता सत्थु सासने पब्बजन्ती’’ति पब्बज्जासङ्खेपवसेन सङ्घगुणे कथयिंसु.

सीहो सेनापतीति एवंनामको सेनाय अधिपति. वेसालियञ्हि सत्त सहस्सानि सत्त सतानि सत्त च राजानो. ते सब्बेपि सन्निपतित्वा सब्बेसं मनं गहेत्वा ‘‘रट्ठं विचारेतुं समत्थं एकं विचिनथा’’ति विचिनन्ता सीहं राजकुमारं दिस्वा ‘‘अयं सक्खिस्सती’’ति सन्निट्ठानं कत्वा तस्स रत्तमणिवण्णं कम्बलपरियोनद्धं सेनापतिच्छत्तं अदंसु. तं सन्धाय वुत्तं – ‘‘सीहो सेनापती’’ति. निगण्ठसावकोति निगण्ठस्स नाटपुत्तस्स पच्चयदायको उपट्ठाको. जम्बुदीपतलस्मिञ्हि तयो जना निगण्ठानं अग्गुपट्ठाका – नाळन्दायं, उपालि गहपति, कपिलपुरे वप्पो सक्को, वेसालियं अयं सीहो सेनापतीति. निसिन्नो होतीति सेसराजूनं परिसाय अन्तरन्तरे आसनानि पञ्ञापयिंसु, सीहस्स पन मज्झे ठानेति तस्मिं पञ्ञत्ते महारहे राजासने निसिन्नो होति. निस्संसयन्ति निब्बिचिकिच्छं अद्धा एकंसेन, न हेते यस्स वा तस्स वा अप्पेसक्खस्स एवं अनेकसतेहि कारणेहि वण्णं भासन्ति.

येन निगण्ठो नाटपुत्तो तेनुपसङ्कमीति निगण्ठो किर नाटपुत्तो ‘‘सचायं सीहो कस्सचिदेव समणस्स गोतमस्स वण्णं कथेन्तस्स सुत्वा समणं गोतमं दस्सनाय उपसङ्कमिस्सति, मय्हं परिहानि भविस्सती’’ति चिन्तेत्वा पठमतरंयेव सीहं सेनापतिं एतदवोच – ‘‘सेनापति इमस्मिं लोके ‘अहं बुद्धो अहं बुद्धो’ति बहू विचरन्ति. सचे त्वं कस्सचि दस्सनाय उपसङ्कमितुकामो अहोसि, मं पुच्छेय्यासि. अहं ते युत्तट्ठानं पेसेस्सामि, अयुत्तट्ठानतो निवारेस्सामी’’ति. सो तं कथं अनुस्सरित्वा ‘‘सचे मं पेसेस्सति, गमिस्सामि. नो चे, न गमिस्सामी’’ति चिन्तेत्वा येन निगण्ठो नाटपुत्तो, तेनुपसङ्कमि.

अथस्स वचनं सुत्वा निगण्ठो महापब्बतेन विय बलवसोकेन ओत्थटो ‘‘यत्थ दानिस्साहं गमनं न इच्छामि, तत्थेव गन्तुकामो जातो, हतोहमस्मी’’ति अनत्तमनो हुत्वा ‘‘पटिबाहनुपायमस्स करिस्सामी’’ति चिन्तेत्वा किं पन त्वन्तिआदिमाह. एवं वदन्तो विचरन्तं गोणं दण्डेन पहरन्तो विय जलमानं पदीपं निब्बापेन्तो विय भत्तभरितं पत्तं निक्कुज्जन्तो विय च सीहस्स उप्पन्नपीतिं विनासेसि. गमियाभिसङ्खारोति हत्थियानादीनं योजापनगन्धमालादिग्गहणवसेन पवत्तो पयोगो. सो पटिप्पस्सम्भीति सो वूपसन्तो.

दुतियम्पि खोति दुतियवारम्पि. इमस्मिञ्च वारे बुद्धस्स वण्णं भासन्ता तुसितभवनतो पट्ठाय याव महाबोधिपल्लङ्का दसबलस्स हेट्ठा पादतलेहि उपरि केसग्गेहि परिच्छिन्दित्वा द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभानं वसेन सरीरवण्णं कथयिंसु. धम्मस्स वण्णं भासन्ता ‘‘एकपदेपि एकब्यञ्जनेपि अवखलितं नाम नत्थी’’ति सुकथितवसेनेव धम्मगुणं कथयिंसु. सङ्घस्स वण्णं भासन्ता ‘‘एवरूपं यससिरिविभवं पहाय सत्थु सासने पब्बजिता न कोसज्जपकतिका होन्ति, तेरससु पन धुतङ्गगुणेसु परिपूरकारिनो हुत्वा सत्तसु अनुपस्सनासु कम्मं करोन्ति, अट्ठतिंसारम्मणविभत्तियो वळञ्जेन्ती’’ति पटिपदावसेन सङ्घगुणे कथयिंसु.

ततियवारे पन बुद्धस्स वण्णं भासमाना ‘‘इतिपि सो भगवा’’ति सुत्तन्तपरियायेनेव बुद्धगुणे कथयिंसु, ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना सुत्तन्तपरियायेनेव धम्मगुणे, ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना सुत्तन्तपरियायेनेव सङ्घगुणे च कथयिंसु. ततो सीहो चिन्तेसि – ‘‘इमेसञ्च लिच्छविराजकुमारानं ततियदिवसतो पट्ठाय बुद्धधम्मसङ्घगुणे कथेन्तानं मुखं नप्पहोति, अद्धा अनोमगुणेन समन्नागता सो भगवा, इमं दानि उप्पन्नं पीतिं अविजहित्वाव अहं अज्ज सम्मासम्बुद्धं पस्सिस्सामी’’ति. अथस्स ‘‘किं हि मे करिस्सन्ति निगण्ठा’’ति वितक्को उदपादि. तत्थ किं हि मे करिस्सन्तीति किं नाम मय्हं निगण्ठा करिस्सन्ति. अपलोकिता वा अनपलोकिता वाति आपुच्छिता वा अनापुच्छिता वा. न हि मे ते आपुच्छिता यानवाहनसम्पत्तिं, न च इस्सरियविसेसं दस्सन्ति, नापि अनापुच्छिता हरिस्सन्ति, अफलं एतेसं आपुच्छनन्ति अधिप्पायो.

वेसालिया निय्यासीति यथा हि गिम्हकाले देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा थोकमेव गन्त्वा तिट्ठति नप्पवत्तति, एवं सीहस्स पठमदिवसे ‘‘दसबलं पस्सिस्सामी’’ति उप्पन्नाय पीतिया निगण्ठेन पटिबाहितकालो. यथापि दुतियदिवसे देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा थोकं गन्त्वा वालिकापुञ्जं पहरित्वा अप्पवत्तं होति, एवं सीहस्स दुतियदिवसे ‘‘दसबलं पस्सिस्सामी’’ति उप्पन्नाय पीतिया निगण्ठेन पटिबाहितकालो. यथा ततियदिवसे देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा पुराणपण्णसुक्खदण्डकट्ठकचवरादीनि परिकड्ढन्तं वालिकापुञ्जं भिन्दित्वा समुद्दनिन्नमेव होति, एवं सीहो ततियदिवसे तिण्णं वत्थूनं गुणकथं सुत्वा उप्पन्ने पीतिपामोज्जे ‘‘अफला निगण्ठा निप्फला निगण्ठा, किं मे इमे करिस्सन्ति, गमिस्सामहं सत्थुसन्तिक’’न्ति मनं अभिनीहरित्वा वेसालिया निय्यासि. निय्यन्तो च ‘‘चिरस्साहं दसबलस्स सन्तिकं गन्तुकामो जातो, न खो पन मे युत्तं अञ्ञातकवेसेन गन्तु’’न्ति ‘‘येकेचि दसबलस्स सन्तिकं गन्तुकामा, सब्बे निक्खमन्तू’’ति घोसनं कारेत्वा पञ्चरथसतानि योजापेत्वा उत्तमरथे ठितो तेहि चेव पञ्चहि रथसतेहि महतिया च परिसाय परिवुतो गन्धपुप्फचुण्णवासादीनि गाहापेत्वा निय्यासि. दिवा दिवस्साति दिवसस्स च दिवा, मज्झन्हिके अतिक्कन्तमत्ते.

येन भगवा तेनुपसङ्कमीति आरामं पविसन्तो दूरतोव असीति-अनुब्यञ्जन-ब्यामप्पभा-द्वत्तिंस-महापुरिसलक्खणानि छब्बण्णघनबुद्धरस्मियो च दिस्वा ‘‘एवरूपं नाम पुरिसं एवं आसन्ने वसन्तं एत्तकं कालं नाद्दसं, वञ्चितो वतम्हि, अलाभा वत मे’’ति चिन्तेत्वा महानिधिं दिस्वा दलिद्दपुरिसो विय सञ्जातपीतिपामोज्जो येन भगवा तेनुपसङ्कमि. धम्मस्स चानुधम्मं ब्याकरोन्तीति भोता गोतमेन वुत्तकारणस्स अनुकारणं कथेन्ति. कारणवचनो हेत्थ धम्मसद्दो ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७२०) विय. कारणन्ति चेत्थ तथापवत्तस्स सद्दस्स अत्थो अधिप्पेतो तस्स पवत्तिहेतुभावतो. अत्थप्पयुत्तो हि सद्दप्पयोगो. अनुकारणन्ति एसो एव परेहि तथा वुच्चमानो. सहधम्मिको वादानुवादोति. परेहि वुत्तकारणेहि सकारणो हुत्वा तुम्हाकं वादो वा ततो परं तस्स अनुवादो वा कोचि अप्पमत्तकोपि विञ्ञूहि गरहितब्बं ठानं कारणं न आगच्छति. इदं वुत्तं होति – किं सब्बाकारेनपि तव वादे गारय्हं कारणं नत्थीति. अनब्भक्खातुकामाति न अभूतेन वत्तुकामा. अत्थि सीहपरियायोतिआदीनं अत्थो वेरञ्जकण्डे आगतनयेनेव वेदितब्बो. परमेन अस्सासेनाति चतुमग्गचतुफलसङ्खातेन उत्तमेन. अस्सासाय धम्मं देसेमीति अस्सासनत्थाय सन्थम्भनत्थाय धम्मं देसेमि. इति भगवा अट्ठहङ्गेहि सीहस्स सेनापतिस्स धम्मं देसेसि.

अनुविच्चकारन्ति अनुविदित्वा चिन्तेत्वा तुलयित्वा कत्तब्बं करोहीति वुत्तं होति. साधु होतीति सुन्दरो होति. तुम्हादिसस्मिञ्हि मं दिस्वा मं सरणं गच्छन्ते निगण्ठं दिस्वा निगण्ठं सरणं गच्छन्ते ‘‘किं अयं सीहो दिट्ठदिट्ठमेव सरणं गच्छती’’ति गरहा उप्पज्जति, तस्मा अनुविच्चकारो तुम्हादिसानं साधूति दस्सेति. पटाकं परिहरेय्युन्ति ते किर एवरूपं सावकं लभित्वा ‘‘असुको नाम राजा वा राजमहामत्तो वा सेट्ठि वा अम्हाकं सरणं गतो सावको जातो’’ति पटाकं उक्खिपित्वा नगरे घोसेन्ता आहिण्डन्ति. कस्मा? एवं नो महन्तभावो आविभविस्सतीति च. सचे पनस्स ‘‘किमहं एतेसं सरणं गतो’’ति विप्पटिसारो उप्पज्जेय्य, तम्पि सो ‘‘एतेसं मे सरणगतभावं बहू जानन्ति, दुक्खं इदानि पटिनिवत्तितु’’न्ति विनोदेत्वा न पटिक्कमिस्सतीति च. तेनाह – ‘‘पटाकं परिहरेय्यु’’न्ति. ओपानभूतन्ति पटियत्तउदपानो विय ठितं. कुलन्ति तव निवेसनं. दातब्बं मञ्ञेय्यासीति पुब्बे दसपि वीसतिपि सट्ठिपि जने आगते दिस्वा नत्थीति अवत्वा देसि, इदानि मं सरणं गतकारणमत्तेनेव मा इमेसं देय्यधम्मं उपच्छिन्दि. सम्पत्तानञ्हि दातब्बमेवाति ओवदि. सुतं मेतं, भन्तेति कुतो सुतन्ति? निगण्ठानं सन्तिका. ते किर कुलघरेसु एवं पकासेन्ति ‘‘मयं यस्स कस्सचि सम्पत्तस्स दातब्बन्ति वदाम, समणो पन गोतमो ‘मय्हमेव दानं दातब्बं नाञ्ञेसं, मय्हमेव सावकानं दानं दातब्बं, नाञ्ञेसं सावकानं, मय्हमेव दिन्नं दानं महप्फलं, नाञ्ञेसं, मय्हमेव सावकानं दिन्नं महप्फलं, नाञ्ञेस’न्ति एवं वदती’’ति. तं सन्धाय अयं ‘‘सुतं मेत’’न्ति आह.

अनुपुब्बिं कथन्ति दानानन्तरं सीलं, सीलानन्तरं सग्गं, सग्गानन्तरं मग्गन्ति एवं अनुपटिपाटिकथं. तत्थ दानकथन्ति इदं दानं नाम सुखानं निदानं, सम्पत्तीनं मूलं, भोगानं पतिट्ठा, विसमगतस्स ताणं लेणं गति परायणं, इधलोकपरलोकेसु दानसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि. इदञ्हि अवस्सयट्ठेन रतनमयसीहासनसदिसं, पतिट्ठानट्ठेन महापथवीसदिसं, आरम्मणट्ठेन आलम्बनरज्जुसदिसं. इदञ्हि दुक्खनित्थरणट्ठेन नावा, समस्सासनट्ठेन सङ्गामसूरो, भयपरित्ताणट्ठेन सुसङ्खतनगरं, मच्छेरमलादीहि अनुपलित्तट्ठेन पदुमं, तेसं निदहनट्ठेन अग्गि, दुरासदट्ठेन आसिविसो, असन्तासनट्ठेन सीहो, बलवन्तट्ठेन हत्थी, अभिमङ्गलसम्मतट्ठेन सेतवसभो, खेमन्तभूमिसम्पापनट्ठेन वलाहको अस्सराजा. दानं नामेतं मया गतमग्गो, मय्हेसो वंसो, मया दस पारमियो पूरेन्तेन वेलाममहायञ्ञो, महागोविन्दमहायञ्ञो, महासुदस्सनमहायञ्ञो, वेस्सन्तरमहायञ्ञोति, अनेकमहायञ्ञा पवत्तिता, ससभूतेन जलितअग्गिक्खन्धे अत्तानं निय्यादेन्तेन सम्पत्तयाचकानं चित्तं गहितं. दानञ्हि लोके सक्कसम्पत्तिं देति मारसम्पत्तिं ब्रह्मसम्पत्तिं, चक्कवत्तिसम्पत्तिं, सावकपारमीञाणं, पच्चेकबोधिञाणं, अभिसम्बोधिञाणं देतीति एवमादिदानगुणप्पटिसंयुत्तं कथं.

यस्मा पन दानं देन्तो सीलं समादातुं सक्कोति, तस्मा तदनन्तरं सीलकथं कथेसि. सीलकथन्ति सीलं नामेतं अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं. सीलं नामेतं मम वंसो, अहं सङ्खपालनागराजकाले भूरिदत्तनागराजकाले चम्पेय्यनागराजकाले सीलवराजकाले मातुपोसकहत्थिराजकाले छद्दन्तहत्थिराजकालेति अनन्तेसु अत्तभावेसु सीलं परिपूरेसिं. इधलोकपरलोकसम्पत्तीनञ्हि सीलसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि, सीलालङ्कारसदिसो अलङ्कारो नत्थि, सीलपुप्फसदिसं पुप्फं नत्थि, सीलगन्धसदिसो गन्धो नत्थि. सीलालङ्कारेन हि अलङ्कतं सीलगन्धानुलित्तं सदेवकोपि लोको ओलोकेन्तो तित्तिं न गच्छतीति एवमादिसीलगुणप्पटिसंयुत्तं कथं.

‘‘इदं पन सीलं निस्साय अयं सग्गो लब्भती’’ति दस्सेतुं सीलानन्तरं सग्गकथं कथेसि. सग्गकथन्ति ‘‘अयं सग्गो नाम इट्ठो कन्तो मनापो, निच्चमेत्थ कीळा, निच्चं सम्पत्तियो लब्भन्ति, चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं अनुभवन्ति, तावतिंसा तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानी’’ति एवमादिसग्गगुणप्पटिसंयुत्तं कथं. सग्गसम्पत्तिं कथयन्तानञ्हि बुद्धानं मुखं नप्पहोति. वुत्तम्पि चेतं – ‘‘अनेकपरियायेन ख्वाहं, भिक्खवे, सग्गकथं कथेय्य’’न्तिआदि (म. नि. ३.२५५).

एवं सग्गकथाय पलोभेत्वा पन हत्थिं अलङ्करित्वा तस्स सोण्डं छिन्दन्तो विय ‘‘अयम्पि सग्गो अनिच्चो अद्धुवो, न एत्थ छन्दरागो कत्तब्बो’’ति दस्सनत्थं ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (म. नि. १.२३५-२३६; २.४२) नयेन कामानं आदीनवं ओकारं संकिलेसं कथेसि. तत्थ आदीनवोति दोसो. ओकारोति अवकारो लामकभावो. संकिलेसोति तेहि सत्तानं संसारे संकिलिस्सनं. यथाह – ‘‘संकिलिस्सन्ति वत, भो, सत्ता’’ति (म. नि. २.३५१).

एवं कामादीनवेन तज्जेत्वा नेक्खम्मे आनिसंसं पकासेसि. कल्लचित्तन्ति अरोगचित्तं. सामुक्कंसिकाति सामं उक्कंसिका अत्तनायेव उद्धरित्वा गहिता, सयम्भुञाणेन दिट्ठा असाधारणा अञ्ञेसन्ति अत्थो. का पन साति? अरियसच्चदेसना. तेनेवाह – दुक्खं समुदयं निरोधं मग्गन्ति. विरजं वीतमलन्ति रागरजादीनं अभावा विरजं, रागमलादीनं विगतत्ता वीतमलं. धम्मचक्खुन्ति इध सोतापत्तिमग्गो अधिप्पेतो. तस्स उप्पत्तिआकारदस्सनत्थं यंकिञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्ति आह. तञ्हि निरोधं आरम्मणं कत्वा किच्चवसेन एवं सब्बसङ्खतं पटिविज्झन्तं उप्पज्जति. दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो. एस नयो सेसेसुपि. तिण्णा विचिकिच्छा अनेनाति तिण्णविचिकिच्छो. विगता कथंकथा अस्साति विगतकथंकथो. विसारज्जं पत्तोति वेसारज्जप्पत्तो. कत्थ? सत्थुसासने. नास्स परो पच्चयो, न परं सद्धाय एत्थ वत्ततीति अपरप्पच्चयो.

पवत्तमंसन्ति पकतिया पवत्तं कप्पियमंसं मूलं गहेत्वा अन्तरापणे परियेसाहीति अधिप्पायो. सम्बहुला निगण्ठाति पञ्चसतमत्ता निगण्ठा. थूलं पसुन्ति थूलं महासरीरं गोकण्णमहिंससूकरसङ्खातं पसुं. उद्दिस्सकतन्ति अत्तानं उद्दिसित्वा कतं, मारितन्ति अत्थो. पटिच्चकम्मन्ति स्वायं तं मंसं पटिच्च तं पाणवधकम्मं फुसति. तञ्हि अकुसलं उपड्ढं दायकस्स, उपड्ढं पटिग्गाहकस्स होतीति नेसं लद्धि. अपरो नयो – पटिच्चकम्मन्ति अत्तानं पटिच्चकतं. अथ वा पटिच्चकम्मन्ति निमित्तकम्मस्सेतं अधिवचनं, तं पटिच्चकम्मं एत्थ अत्थीति मंसम्पि पटिच्चकम्मन्ति वुत्तं. उपकण्णकेति कण्णमूले. अलन्ति पटिक्खेपवचनं, किं इमिनाति अत्थो. न च पनेतेति एते आयस्मन्तो दीघरत्तं अवण्णकामा हुत्वा अवण्णं भासन्तापि अब्भाचिक्खन्ता न जिरिदन्ति, अब्भक्खानस्स अन्तं न गच्छन्तीति अत्थो. अथ वा लज्जनत्थे इदं जिरिदन्तीति पदं दट्ठब्बं, न लज्जन्तीति अत्थो.