९. नन्दसुत्तवण्णना

९. नवमे कुलपुत्तोति जातिकुलपुत्तो. बलवाति थामसम्पन्नो. पासादिकोति रूपसम्पत्तिया पसादजनको. तिब्बरागोति बहलरागो. किमञ्ञत्रातिआदीसु अयमत्थो – किं अञ्ञेन कारणेन कथितेन, अयं नन्दो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियमनुयुत्तो सतिसम्पजञ्ञेन समन्नागतो, येहि नन्दो सक्कोति परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुं. सचे इमेहि कारणेहि समन्नागतो नाभविस्स, न सक्कुणेय्याति. इतिह तत्थाति एवं तत्थ. इमस्मिं सुत्ते वट्टमेव कथितं.