१०. कारण्डवसुत्तवण्णना

१०. दसमे अञ्ञेनाञ्ञं पटिचरतीति अञ्ञेन कारणेन वचनेन वा अञ्ञं कारणं वचनं वा पटिच्छादेति. बहिद्धा कथं अपनामेतीति बाहिरतो अञ्ञं आगन्तुककथं ओतारेति. अपनेय्येसोति अपनेय्यो नीहरितब्बो एस. समणदूसीति समणदूसको. समणपलापोति वीहीसु वीहिपलापो विय निस्सारताय समणेसु समणपलापो. समणकारण्डवोति समणकचवरो. बहिद्धा नासेन्तीति बहि नीहरन्ति. यवकरणेति यवखेत्ते. फुणमानस्साति उच्चे ठाने ठत्वा महावाते ओपुनियमानस्स. अपसम्मज्जन्तीति सारधञ्ञानं एकतो दुब्बलधञ्ञानं एकतो करणत्थं पुनप्पुनं अपसम्मज्जन्ति, अपसम्मज्जनिसङ्खातेन वातग्गाहिना सुप्पेन वा वत्थेन वा नीहरन्ति. दद्दरन्ति दद्दरसद्दं.

संवासायन्ति संवासेन अयं. विजानाथाति जानेय्याथ. सन्तवाचोति सण्हवाचो. जनवतीति जनमज्झे. रहो करोति करणन्ति करणं वुच्चति पापकम्मं, तं रहो पटिच्छन्नो हुत्वा करोति. संसप्पी च मुसावादीति संसप्पित्वा मुसावादी, मुसा भणन्तो संसप्पति फन्दतीति अत्थो. इमस्मिं सुत्ते वट्टमेव कथेत्वा गाथासु वट्टविवट्टं कथितन्ति.

मेत्तावग्गो पठमो.