९. मेत्तसुत्तवण्णना
६२. नवमे मा, भिक्खवे, पुञ्ञानं भायित्थाति पुञ्ञानि करोन्ता तेसं मा भायित्थ. मेत्तचित्तं भावेसिन्ति तिकचतुक्कज्झानिकाय मेत्ताय सम्पयुत्तं पणीतं कत्वा चित्तं भावेसिन्ति दस्सेति. संवट्टमाने सुदाहन्ति संवट्टमाने सुदं अहं. संवट्टमानेति झायमाने विपज्जमाने. धम्मिकोति दसकुसलधम्मसमन्नागतो. धम्मराजाति तस्सेव वेवचनं. धम्मेन वा लद्धरज्जत्ता धम्मराजा. चातुरन्तोति पुरत्थिमसमुद्दादीनं चतुन्नं समुद्दानं वसेन चातुरन्ताय पथविया इस्सरो. विजितावीति विजितसङ्गामो. जनपदो तस्मिं थावरियं थिरभावं पत्तोति जनपदत्थावरियप्पत्तो. परोसहस्सन्ति अतिरेकसहस्सं. सूराति अभीरुनो. वीरङ्गरूपाति वीरानं अङ्गं वीरङ्गं, वीरियस्सेतं नामं. वीरङ्गरूपमेतेसन्ति वीरङ्गरूपा. वीरियजातिका वीरियसभावा वीरियमया विय अकिलासुनो दिवसम्पि युज्झन्ता न किलमन्तीति वुत्तं होति. सागरपरियन्तन्ति चक्कवाळपब्बतं सीमं कत्वा ठितसमुद्दपरियन्तं. अदण्डेनाति धनदण्डेनपि छेज्जभेज्जानुसासनेन सत्थदण्डेनपि विनायेव. असत्थेनाति एकतोधारादिना परविहेठनसत्थेनपि विनायेव. धम्मेन अभिविजियाति एहि खो, महाराजाति एवं पटिराजूहि सम्पटिच्छितागमनो ‘‘पाणो न हन्तब्बो’’तिआदिना धम्मेनेव वुत्तप्पकारं पथविं अभिविजिनित्वा.
सुखेसिनोति सुखपरियेसके सत्ते आमन्तेति. सुञ्ञब्रह्मूपगोति सुञ्ञब्रह्मविमानूपगो. पथविं इमन्ति इमं सागरपरियन्तं महापथविं. असाहसेनाति न साहसिककम्मेन. समेन मनुसासितन्ति समेन कम्मेन अनुसासिं. तेहि एतं सुदेसितन्ति तेहि सङ्गाहकेहि महाकारुणिकेहि बुद्धेहि एतं एत्तकं ठानं सुदेसितं सुकथितं. पथब्योति पुथविसामिको.