१०. भरियासुत्तवण्णना

६३. दसमे केवट्टा मञ्ञे मच्छविलोपेति केवट्टानं मच्छपच्छिं ओतारेत्वा ठितट्ठाने जाले वा उदकतो उक्खित्तमत्ते मच्छग्गाहकानं महासद्दो होति, तं सन्धायेतं वुत्तं. सुजाताति विसाखाय कनिट्ठा. सा नेव सस्सुं आदियतीति सस्सुया कत्तब्बवत्तं नाम अत्थि, तं न करोति, सस्सूतिपि नं न गणेति. न ससुरं आदियतीति वचनं न गण्हाति. एवं अनादरतायपि अग्गहणेनपि न आदियति नाम. सेसेसुपि एसेव नयो. एवं अनाथपिण्डिको सुणिसाय आचारं गहेत्वा सत्थु पुरतो निसीदि. सापि सुजाता ‘‘किं नु खो अयं सेट्ठि दसबलस्स सन्तिके मय्हं गुणं कथेस्सति उदाहु अगुण’’न्ति गन्त्वा अविदूरे सद्दं सुणन्ती अट्ठासि. अथ नं सत्था एहि सुजातेति आमन्तेसि.

अहितानुकम्पिनीति न हितानुकम्पिनी. अञ्ञेसूति परपुरिसेसु. अतिमञ्ञतेति ओमानाति मानवसेन अतिमञ्ञति. धनेन कीतस्साति धनेन कीता अस्स. वधाय उस्सुका वधितुं उस्सुक्कमापन्ना. यं इत्थिया विन्दति सामिको धनन्ति इत्थिया सामिको यं धनं लभति. अप्पम्पि तस्स अपहातुमिच्छतीति थोकतोपि अस्स हरितुं इच्छति, उद्धने आरोपितउक्खलियं पक्खिपितब्बतण्डुलतोपि थोकं हरितुमेव वायमति. अलसाति निसिन्नट्ठाने निसिन्नाव ठितट्ठाने ठिताव होति. फरुसाति खरा. दुरुत्तवादिनीति दुब्भासितभासिनी, कक्खळं वाळकथमेव कथेति. उट्ठायकानं अभिभुय्य वत्ततीति एत्थ उट्ठायकानन्ति बहुवचनवसेन विरियुट्ठानसम्पन्नो सामिको वुत्तो, तस्स तं उट्ठानसम्पत्तिं अभिभवित्वा हेट्ठा कत्वा वत्तति. पमोदतीति आमोदितपमोदिता होति. कोलेय्यकाति कुलसम्पन्ना. पतिब्बताति पतिदेवता. वधदण्डतज्जिताति दण्डकं गहेत्वा वधेन तज्जिता, ‘‘घातेस्सामि न’’न्ति वुत्ता. दासीसमन्ति सामिकस्स वत्तपूरिका दासीति मं भगवा धारेतूति वत्वा सरणेसु पतिट्ठासि.