११. कोधनसुत्तवण्णना
६४. एकादसमे सपत्तकन्ताति सपत्तानं वेरीनं कन्ता पिया तेहि इच्छितपत्थिता. सपत्तकरणाति सपत्तानं वेरीनं अत्थकरणा. कोधपरेतोति कोधानुगतो. पचुरत्थतायाति बहुअत्थताय बहुहितताय. अनत्थम्पीति अवुद्धिम्पि. अत्थो मे गहितोति वुड्ढि मे गहिता.
अथो अत्थं गहेत्वानाति अथो वुद्धिं गहेत्वा. अनत्थं अधिपज्जतीति अनत्थो मे गहितोति सल्लक्खेति. वधं कत्वानाति पाणातिपातकम्मं कत्वा. कोधसम्मदसम्मत्तोति कोधमदेन मत्तो, आदिन्नगहितपरामट्ठोति अत्थो. आयसक्यन्ति अयसभावं, अयसो नियसो होतीति अत्थो. अन्तरतो जातन्ति अब्भन्तरे उप्पन्नं. अत्थं न जानातीति वुद्धिअत्थं न जानाति. धम्मं न पस्सतीति समथविपस्सनाधम्मं न पस्सति. अन्धतमन्ति अन्धभावकरं तमं बहलतमं. सहतेति अभिभवति.
दुम्मङ्कुयन्ति दुम्मङ्कुभावं नित्तेजतं दुब्बण्णमुखतं. यतो पतायतीति यदा निब्बत्तति. न वाचो होति गारवोति वचनस्सपि गरुभावो न होति. न दीपं होति किञ्चनन्ति काचि पतिट्ठा नाम न होति. तपनीयानीति तापजनकानि. धम्मेहीति समथविपस्सनाधम्मेहि. आरकाति दूरे. ब्राह्मणन्ति खीणासवब्राह्मणं. याय मातु भतोति याय मातरा भतो पोसितो. पाणददिं सन्तिन्ति जीवितदायिकं समानं. हन्ति कुद्धो पुथुत्तानन्ति कुद्धो पुग्गलो पुथु नानाकारणेहि अत्तानं हन्ति. नानारूपेसु मुच्छितोति नानारम्मणेसु अधिमुच्छितो हुत्वा. रज्जुया बज्झ मीयन्तीति रज्जुया बन्धित्वा मरन्ति. पब्बतामपि कन्दरेति पब्बतकन्दरेपि पतित्वा मरन्ति.
भूनहच्चानीति हतवुद्धीनि. इतायन्ति इति अयं. तं दमेन समुच्छिन्देति तं कोधं दमेन छिन्देय्य. कतरेन दमेनाति? पञ्ञावीरियेन दिट्ठियाति विपस्सनापञ्ञाय चेव विपस्सनासम्पयुत्तेन कायिकचेतसिकवीरियेन च मग्गसम्मादिट्ठिया च. तथेव धम्मे सिक्खेथाति यथा अकुसलं समुच्छिन्देय्य, समथविपस्सनाधम्मेपि तथेव सिक्खेय्य. मा नो दुम्मङ्कुयं अहूति मा अम्हाकं दुम्मङ्कुभावो अहोसीति इममत्थं पत्थयमाना. अनायासाति अनुपायासा. अनुस्सुकाति कत्थचि उस्सुक्कं अनापन्ना. सेसं सब्बत्थ उत्तानमेवाति.
अब्याकतवग्गो छट्ठो.