२. पुरिसगतिसुत्तवण्णना

५५. दुतिये पुरिसगतियोति पुरिसस्स ञाणगतियो. अनुपादापरिनिब्बानन्ति अपच्चयनिब्बानं. नो चस्साति अतीते अत्तभावनिब्बत्तकं कम्मं नो चे अभविस्स. नो च मे सियाति एतरहि मे अयं अत्तभावो न सिया. न भविस्सतीति एतरहि मे अनागतत्तभावनिब्बत्तकं कम्मं न भविस्सति. न च मे भविस्सतीति अनागते मे अत्तभावो न भविस्सति. यदत्थि यं भूतन्ति यं अत्थि यं भूतं पच्चुप्पन्नक्खन्धपञ्चकं. तं पजहामीति उपेक्खं पटिलभतीति तं तत्थ छन्दरागप्पहानेन पजहामीति विपस्सनुपेक्खं पटिलभति. भवे न रज्जतीति अतीते खन्धपञ्चके तण्हादिट्ठीहि न रज्जति. सम्भवे न रज्जतीति अनागतेपि तथेव न रज्जति. अत्थुत्तरि पदं सन्तन्ति उत्तरि सन्तं निब्बानपदं नाम अत्थि. सम्मप्पञ्ञाय पस्सतीति तं सहविपस्सनाय मग्गपञ्ञाय सम्मा पस्सति. न सब्बेन सब्बन्ति एकच्चानं किलेसानं अप्पहीनत्ता सच्चपटिच्छादकस्स तमस्स सब्बसो अविद्धंसितत्ता न सब्बाकारेन सब्बं. हञ्ञमानेति सण्डासेन गहेत्वा मुट्ठिकाय कोट्टियमाने. अन्तरापरिनिब्बायीति उपपत्तिसमनन्तरतो पट्ठाय आयुनो वेमज्झं अनतिक्कमित्वा एत्थन्तरे किलेसपरिनिब्बानेन परिनिब्बुतो होति. अनुपहच्च तलन्ति आकासतलं अनुपहच्च अनतिक्कमित्वा, भूमिं अप्पत्वा आकासेयेव निब्बायेय्याति इमाहि तीहि उपमाहि तयो अन्तरापरिनिब्बायी दस्सिता.

उपहच्चपरिनिब्बायीति आयुवेमज्झं अतिक्कमित्वा पच्छिमकोटिं अप्पत्वा परिनिब्बुतो होति. उपहच्च तलन्ति जलमाना गन्त्वा आकासतलं अतिक्कमित्वा पथवीतलं वा उपहनित्वा पथवियं पतितमत्ताव निब्बायेय्य. असङ्खारेन अप्पयोगेन किलेसे खेपेत्वा परिनिब्बायीति असङ्खारपरिनिब्बायी. ससङ्खारेन सप्पयोगेन किलेसे खेपेत्वा परिनिब्बायीति ससङ्खारपरिनिब्बायी. गच्छन्ति निरारक्खं अरञ्ञं. दायन्ति सारक्खं अभयत्थाय दिन्नं अरञ्ञं. सेसमेत्थ उत्तानत्थमेव. इमस्मिं सुत्ते अरियपुग्गलाव कथिताति.