५-६. सञ्ञासुत्तद्वयवण्णना
४८-४९. पञ्चमे अमतोगधाति निब्बानपतिट्ठा. अमतपरियोसानाति निब्बानावसाना. छट्ठे मेथुनधम्मसमापत्तियाति मेथुनधम्मेन समङ्गिभावतो. न्हारुदद्दुलन्ति न्हारुखण्डं न्हारुविलेखनं वा. अनुसन्दतीति पवत्तति. नत्थि मे पुब्बेनापरं विसेसोति नत्थि मय्हं पुब्बेन अभावितकालेन सद्धिं अपरं भावितकाले विसेसो. लोकचित्रेसूति तिधातुकलोकसन्निवाससङ्खातेसु लोकचित्रेसु. आलस्येति आलसियभावे. विस्सट्ठियेति विस्सट्ठभावे. अननुयोगेति योगस्स अननुयुञ्जने. अहङ्कारममङ्कारमानापगतन्ति अहङ्कारदिट्ठितो च ममङ्कारतण्हातो च नवविधमानतो च अपगतं. विधासमतिक्कन्तन्ति तिस्सो विधा अतिक्कन्तं. सन्तन्ति तप्पच्चनीककिलेसेहि सन्तं. सुविमुत्तन्ति पञ्चहि विमुत्तीहि सुट्ठु विमुत्तं.