२. वस्सकारसुत्तवण्णना
२२. दुतिये अभियातुकामोति अभिभवनत्थाय यातुकामो. वज्जीति वज्जिराजानो. एवंमहिद्धिकेति एवं महतिया राजिद्धिया समन्नागते. एतेन नेसं समग्गभावं कथेति. एवंमहानुभावेति एवं महन्तेन राजानुभावेन समन्नागते. एतेन नेसं हत्थिसिप्पादीसु कतसिक्खतं कथेति, यं सन्धाय वुत्तं – ‘‘सिक्खिता वतिमे लिच्छविकुमारका, सुसिक्खिता वतिमे लिच्छविकुमारका, यत्र हि नाम सुखुमेन ताळच्छिग्गळेन असनं अतिपातयिस्सन्ति पोङ्खानुपोङ्खं अविराधित’’न्ति (सं. नि. ५.१११५). उच्छेच्छामीति उच्छिन्दिस्सामि. विनासेस्सामीति अदस्सनं नयिस्सामि. अनयब्यसनन्ति अवड्ढिञ्चेव, ञातिब्यसनञ्च. आपादेस्सामीति पापयिस्सामि.
इति किर सो ठाननिसज्जादीसु इमं युद्धकथमेव कथेति, ‘‘गमनसज्जा होथा’’ति च बलकायं आणापेति. कस्मा? गङ्गाय किर एकं पट्टनगामं निस्साय अद्धयोजनं अजातसत्तुनो विजितं, अद्धयोजनं लिच्छवीनं. तत्र पब्बतपादतो महग्घभण्डं ओतरति. तं सुत्वा ‘‘अज्ज यामि, स्वे यामी’’ति अजातसत्तुनो संविदहन्तस्सेव लिच्छविनो समग्गा सम्मोदमाना पुरेतरं आगन्त्वा सब्बं गण्हन्ति. अजातसत्तु पच्छा आगन्त्वा तं पवत्तिं ञत्वा कुज्झित्वा गच्छति. ते पुनसंवच्छरेपि तथेव करोन्ति. अथ सो बलवाघातजातो, तदा एवमकासि.
ततो चिन्तेसि – ‘‘गणेन सद्धिं युद्धं नाम भारियं, एकोपि मोघप्पहारो नाम नत्थि. एकेन खो पन पण्डितेन सद्धिं मन्तेत्वा करोन्तो निरपराधो होति, पण्डितो च सत्थारा सदिसो नत्थि, सत्था च अविदूरे धुरविहारे वसति, हन्दाहं पेसेत्वा पुच्छामि. सचे मे गतेन कोचि अत्थो भविस्सति, सत्था तुण्ही भविस्सति. अनत्थे पन सति ‘किं रञ्ञो तत्थ गतेना’ति वक्खती’’ति. सो वस्सकारं ब्राह्मणं पेसेसि. ब्राह्मणो गन्त्वा भगवतो तमत्थं आरोचेसि. तेन वुत्तं – अथ खो राजा…पे… आपादेस्सामि वज्जीति.
भगवन्तं बीजयमानोति थेरो वत्तसीसे ठत्वा भगवन्तं बीजति, भगवतो पन सीतं वा उण्हं वा नत्थि. भगवा ब्राह्मणस्स वचनं सुत्वा तेन सद्धिं अमन्तेत्वा थेरेन सद्धिं मन्तेतुकामो किन्ति ते, आनन्द, सुतन्तिआदिमाह. तं वुत्तत्थमेव.
एकमिदाहन्ति इदं भगवा पुब्बे वज्जीनं इमस्स वज्जिसत्तकस्स देसितभावप्पकासनत्थं आह. अकरणीयाति अकत्तब्बा, अग्गहेतब्बाति अत्थो. यदिदन्ति निपातमत्तं. युद्धस्साति करणत्थे सामिवचनं, अभिमुखं युद्धेन गहेतुं न सक्काति अत्थो. अञ्ञत्र उपलापनायाति ठपेत्वा उपलापनं. उपलापना नाम ‘‘अलं विवादेन, इदानि समग्गा होमा’’ति हत्थिअस्सरथहिरञ्ञसुवण्णादीनि पेसेत्वा सङ्गहकरणं, एवञ्हि सङ्गहं कत्वा केवलं विस्सासेन सक्का गण्हितुन्ति अत्थो. अञ्ञत्र मिथुभेदाति ठपेत्वा मिथुभेदं. इमिना ‘‘अञ्ञमञ्ञभेदं कत्वापि सक्का एते गहेतु’’न्ति दस्सेति. इदं ब्राह्मणो भगवतो कथाय नयं लभित्वा आह. किं पन भगवा ब्राह्मणस्स इमाय कथाय नयलाभं जानातीति? आम जानाति. जानन्तो कस्मा कथेसि? अनुकम्पाय. एवं किरस्स अहोसि – ‘‘मया अकथितेपि कतिपाहेन गन्त्वा सब्बे गण्हिस्सति, कथिते पन समग्गे भिन्दन्तो तीहि संवच्छरेहि गण्हिस्सति. एत्तकम्पि जीवितमेव वरं. एत्तकञ्हि जीवन्ता अत्तनो पतिट्ठाभूतं पुञ्ञं करिस्सन्ती’’ति. अभिनन्दित्वाति चित्तेन नन्दित्वा. अनुमोदित्वाति ‘‘याव सुभासितमिदं भोता गोतमेना’’ति वाचाय अनुमोदित्वा. पक्कामीति रञ्ञो सन्तिकं गतो. राजापि तमेव पेसेत्वा सब्बे भिन्दित्वा गन्त्वा अनयब्यसनं पापेसि.