९. आनन्दसुत्तवण्णना
५१. नवमे कित्तावताति कित्तकेन. अस्सुतञ्चेवाति अञ्ञस्मिं काले अस्सुतपुब्बं. न सम्मोसं गच्छन्तीति विनासं न गच्छन्ति. चेतसो सम्फुट्ठपुब्बाति चित्तेन फुसितपुब्बा. समुदाचरन्तीति मनोद्वारे चरन्ति. अविञ्ञातञ्च विजानातीति अञ्ञस्मिं काले अविञ्ञातकारणं जानाति. परियापुणातीति वळञ्जेति कथेति. देसेतीति पकासेति. परं वाचेतीति परं उग्गण्हापेति.
आगतागमाति दीघादीसु यो कोचि आगमो आगतो एतेसन्ति आगतागमा. धम्मधराति सुत्तन्तपिटकधरा. विनयधराति विनयपिटकधरा. मातिकाधराति द्वेपातिमोक्खधरा. परिपुच्छतीति अनुसन्धिपुब्बापरं पुच्छति. परिपञ्हतीति इदञ्चिदञ्च पुच्छिस्सामीति परितुलति परिच्छिन्दति. इदं, भन्ते, कथन्ति, भन्ते, इदं अनुसन्धिपुब्बापरं कथं होतीति पुच्छति. इमस्स क्वत्थोति इमस्स भासितस्स को अत्थोति पुच्छति. अविवटन्ति अविवरितं. विवरन्तीति पाकटं करोन्ति. कङ्खाठानियेसूति कङ्खाय कारणभूतेसु. तत्थ यस्मिं धम्मे कङ्खा उप्पज्जति, स्वेव कङ्खाठानियो नामाति वेदितब्बो.