१२. धम्मिकसुत्तवण्णना

५४. द्वादसमे सब्बसोति सब्बेसु. सत्तसु विहारेसूति सत्तसु परिवेणेसु. परिभासतीति परिभवति भयं उपदंसेति. विहिंसतीति विहेठेति. वितुदतीति विज्झति. रोसेति वाचायाति वाचाय घट्टेति. पक्कमन्तीति दिसा पक्कमन्ति. न सण्ठहन्तीति नप्पतिट्ठहन्ति. रिञ्चन्तीति छड्डेन्ति विस्सज्जेन्ति. पब्बाजेय्यामाति नीहरेय्याम. हन्दाति ववस्सग्गत्थे निपातो. अलन्ति युत्तमेतं, यं तं पब्बाजेय्युन्ति अत्थो. किं ते इमिनाति किं तव इमिना जातिभूमियं वासेन. तीरदस्सिं सकुणन्ति दिसाकाकं. मुञ्चन्तीति दिसादस्सनत्थं विस्सज्जेन्ति. सामन्ताति अविदूरे. समन्तातिपि पाठो, समन्ततोति अत्थो. अभिनिवेसोति पत्थरित्वा ठितसाखानं निवेसो. मूलसन्तानकानन्ति मूलानं निवेसो.

आळ्हकथालिकाति तण्डुलाळ्हकस्स भत्तपचनथालिका. खुद्दं मधुन्ति खुद्दमक्खिकाहि कतं दण्डकमधुं. अनेलकन्ति निद्दोसं. न च सुदं अञ्ञमञ्ञस्स फलानि हिंसन्तीति अञ्ञमञ्ञस्स कोट्ठासे फलानि न हिंसन्ति. अत्तनो कोट्ठासेहि मूलं वा तचं वा पत्तं वा छिन्दन्तो नाम नत्थि, अत्तनो अत्तनो साखाय हेट्ठा पतितानेव परिभुञ्जन्ति. अञ्ञस्स कोट्ठासतो अञ्ञस कोट्ठासं परिवत्तित्वा गतम्पि ‘‘न अम्हाकं साखाय फल’’न्ति ञत्वा नो खादन्ति. यावदत्थं भक्खित्वाति कण्ठप्पमाणेन खादित्वा. साखं भञ्जित्वाति छत्तप्पमाणमत्तं छिन्दित्वा छायं कत्वा पक्कामि. यत्र हि नामाति यो हि नाम. पक्कमिस्सतीति पक्कन्तो. नादासीति देवताय आनुभावेन फलमेव न गण्हि. एवञ्हि सा अधिट्ठासि.

तेनुपसङ्कमीति जनपदवासीहि गन्त्वा, ‘‘महाराज, रुक्खो फलं न गण्हि, अम्हाकं नु खो दोसो तुम्हाक’’न्ति वुत्ते ‘‘नेव मय्हं दोसो अत्थि, न जानपदानं, अम्हाकं विजिते अधम्मो नाम न वत्तति, केन नु खो कारणेन रुक्खो न फलितो, सक्कं उपसङ्कमित्वा पुच्छिस्सामी’’ति चिन्तेत्वा येन सक्को देवानमिन्दो तेनुपसङ्कमि. पवत्तेसीति परिवत्तेसि. उम्मूलमकासीति उद्धंमूलं अकासि. अपि नु त्वन्ति अपि नु तव. अट्ठितायेवाति अट्ठिताय एव. सच्छवीनीति समानच्छवीनि पकतिट्ठाने ठितानि. न पच्चक्कोसतीति नप्पटिक्कोसति. रोसन्तन्ति घट्टेन्तं. भण्डन्तन्ति पहरन्तं.

सुनेत्तोति नेत्ता वुच्चन्ति अक्खीनि, तेसं सुन्दरताय सुनेत्तो. तित्थकरोति सुगतिओगाहनतित्थस्स कारको. वीतरागोति विक्खम्भनवसेन विगतरागो. पसवतीति पटिलभति. दिट्ठिसम्पन्नन्ति दस्सनसम्पन्नं, सोतापन्नन्ति अत्थो. खन्तिन्ति अत्तनो गुणखणनं. यथामं सब्रह्मचारीसूति यथा इमं सब्रह्मचारीसु अक्कोसनपरिभासनं, अञ्ञं एवरूपं गुणखन्तिं न वदामीति अत्थो. न नो समसब्रह्मचारीसूति एत्थ समजनो नाम सकजनो वुच्चति. तस्मा न नो सकेसु समानब्रह्मचारीसु चित्तानि पदुट्ठानि भविस्सन्तीति अयमेत्थ अत्थो.

जोतिपालो च गोविन्दोति नामेन जोतिपालो ठानेन महागोविन्दो. सत्तपुरोहितोति रेणुआदीनं सत्तन्नं राजूनं पुरोहितो. अहिंसका अतीतंसेति एते छ सत्थारो अतीतंसे अहिंसका अहेसुं. निरामगन्धाति कोधामगन्धेन निरामगन्धा. करुणेविमुत्ताति करुणज्झाने अधिमुत्ता, करुणाय च करुणापुब्बभागे च ठिता. येतेति एते, अयमेव वा पाठो. न साधुरूपं आसीदेति साधुसभावं न घट्टेय्य. दिट्ठिट्ठानप्पहायिनन्ति द्वासट्ठिदिट्ठिगतप्पहायिनं. सत्तमोति अरहत्ततो पट्ठाय सत्तमो. अवीतरागोति अविगतरागो. एतेन अनागामिभावं पटिक्खिपति. पञ्चिन्द्रिया मुदूति पञ्च विपस्सनिन्द्रियानि मुदूनि. तस्स हि तानि सकदागामिं उपादाय मुदूनि नाम होन्ति. विपस्सनाति सङ्खारपरिग्गहञाणं. पुब्बेव उपहञ्ञतीति पठमतरञ्ञेव उपहञ्ञति. अक्खतोति गुणखणनेन अक्खतो अनुपहतो हुत्वा. सेसं सब्बत्थ उत्तानमेवाति.

धम्मिकवग्गो पञ्चमो.