१. नागसुत्तवण्णना

४३. पञ्चमस्स पठमे आयस्मता आनन्देन सद्धिन्ति इदं ‘‘आयामानन्दा’’ति थेरं आमन्तेत्वा गतत्ता वुत्तं, सत्था पन अनूनेहि पञ्चहि भिक्खुसतेहि परिवुतो तत्थ अगमासीति वेदितब्बो. तेनुपसङ्कमीति तेहेव पञ्चहि भिक्खुसतेहि परिवुतो उपसङ्कमि. परिसिञ्चित्वाति वोहारवचनमेतं, न्हायित्वाति अत्थो. पुब्बापयमानोति रत्तदुपट्टं निवासेत्वा उत्तरासङ्गचीवरं द्वीहि हत्थेहि गहेत्वा पच्छिमलोकधातुं पिट्ठितो कत्वा पुरत्थिमलोकधातुं अभिमुखो वोदकभावेन गत्तानि पुब्बसदिसानि कुरुमानो अट्ठासीति अत्थो. भिक्खुसङ्घोपि तेन तेन ठानेन ओतरित्वा न्हत्वा पच्चुत्तरित्वा सत्थारंयेव परिवारेत्वा अट्ठासि. इति तस्मिं समये आकासतो पतमानं रत्तसुवण्णकुण्डलं विय सूरियो पच्छिमलोकधातुं पटिपज्जि, परिसुद्धरजतमण्डलो विय पाचीनलोकधातुतो चन्दो अब्भुग्गञ्छि, मज्झट्ठानेपि पञ्चभिक्खुसतपरिवारो सम्मासम्बुद्धो छब्बण्णबुद्धरस्मियो विस्सज्जेत्वा पुब्बकोट्ठकनदीतीरे लोकं अलङ्कुरुमानो अट्ठासि.

तेन खो पन समयेन…पे… सेतो नाम नागोति सेतवण्णताय एवं लद्धनामो हत्थिनागो. महातूरियताळितवादितेनाति महन्तेन तूरियताळितवादितेन. तत्थ पठमं सङ्घट्टनं ताळितं नाम होति, ततो परं वादितं. जनोति हत्थिदस्सनत्थं सन्निपतितमहाजनो. दिस्वा एवमाहाति अङ्गपच्चङ्गानि घंसित्वा न्हापेत्वा उत्तारेत्वा बहितीरे ठपेत्वा गत्तानि वोदकानि कत्वा हत्थालङ्कारेन अलङ्कतं तं महानागं दिस्वा इदं ‘‘अभिरूपो वत, भो’’ति पसंसावचनमाह. कायुपपन्नोति सरीरसम्पत्तिया उपपन्नो, परिपुण्णङ्गपच्चङ्गोति अत्थो. आयस्मा उदायीति पटिसम्भिदाप्पत्तो काळुदायित्थेरो. एतदवोचाति तं महाजनं हत्थिस्स वण्णं भणन्तं दिस्वा ‘‘अयं जनो अहेतुकपटिसन्धियं निब्बत्तहत्थिनो वण्णं कथेति, न बुद्धहत्थिस्स. अहं दानि इमिना हत्थिनागेन उपमं कत्वा बुद्धनागस्स वण्णं कथेस्सामी’’ति चिन्तेत्वा एतं ‘‘हत्थिमेव नु खो, भन्ते’’तिआदिवचनं अवोच. तत्थ महन्तन्ति आरोहसम्पन्नं. ब्रहन्तन्ति परिणाहसम्पन्नं. एवमाहाति एवं वदति. अथ भगवा यस्मा अयं नागसद्दो हत्थिम्हिचेव अस्सगोणउरगरुक्खमनुस्सेसु चापि पवत्तति, तस्मा हत्थिम्पि खोतिआदिमाह.

आगुन्ति पापकं लामकं अकुसलधम्मं. तमहं नागोति ब्रूमीति तं अहं इमेहि तीहि द्वारेहि दसन्नं अकुसलकम्मपथानं द्वादसन्नञ्च अकुसलचित्तानं अकरणतो नागोति वदामि. अयञ्हि न आगुं करोतीति इमिना अत्थेन नागो. इमाहि गाथाहि अनुमोदामीति इमाहि चतुसट्ठिपदाहि सोळसहि गाथाहि अनुमोदामि अभिनन्दामि.

मनुस्सभूतन्ति देवादिभावं अनुपगन्त्वा मनुस्समेव भूतं. अत्तदन्तन्ति अत्तनायेव दन्तं, न अञ्ञेहि दमथं उपनीतं. भगवा हि अत्तना उप्पादितेनेव मग्गदमथेन चक्खुतोपि दन्तो, सोततोपि, घानतोपि, जिव्हातोपि, कायतोपि, मनतोपीति इमेसु छसु ठानेसु दन्तो सन्तो निब्बुतो परिनिब्बुतो. तेनाह – ‘‘अत्तदन्त’’न्ति. समाहितन्ति दुविधेनापि समाधिना समाहितं. इरियमानन्ति विहरमानं. ब्रह्मपथेति सेट्ठपथे, अमतपथे, निब्बानपथे. चित्तस्सूपसमे रतन्ति पठमज्झानेन पञ्च नीवरणानि वूपसमेत्वा, दुतियज्झानेन वितक्कविचारे, ततियज्झानेन पीतिं, चतुत्थज्झानेन सुखदुक्खं वूपसमेत्वा तस्मिं चित्तस्सूपसमे रतं अभिरतं.

नमस्सन्तीति कायेन नमस्सन्ति, वाचाय नमस्सन्ति, मनसा नमस्सन्ति, धम्मानुधम्मपटिपत्तिया नमस्सन्ति, सक्करोन्ति गरुं करोन्ति. सब्बधम्मानपारगुन्ति सब्बेसं खन्धायतनधातुधम्मानं अभिञ्ञापारगू, परिञ्ञापारगू, पहानपारगू, भावनापारगू, सच्छिकिरियापारगू, समापत्तिपारगूति छब्बिधेन पारगमनेन पारगतं पारप्पत्तं मत्थकप्पत्तं. देवापि तं नमस्सन्तीति दुक्खप्पत्ता सुब्रह्मदेवपुत्तादयो सुखप्पत्ता च सब्बेव दससहस्सचक्कवाळवासिनो देवापि तुम्हे नमस्सन्ति. इति मे अरहतो सुतन्ति इति मया चतूहि कारणेहि अरहाति लद्धवोहारानं तुम्हाकंयेव सन्तिके सुतन्ति दीपेति.

सब्बसंयोजनातीतन्ति सब्बानि दसविधसंयोजनानि अतिक्कन्तं. वना निब्बनमागतन्ति किलेसवनतो निब्बनं किलेसवनरहितं निब्बानं आगतं सम्पत्तं. कामेहि नेक्खम्मरतन्ति दुविधेहि कामेहि निक्खन्तत्ता पब्बज्जा अट्ठ समापत्तियो चत्तारो च अरियमग्गा कामेहि नेक्खम्मं नाम, तत्थ रतं अभिरतं. मुत्तं सेलाव कञ्चनन्ति सेलधातुतो मुत्तं कञ्चनसदिसं.

सब्बे अच्चरुचीति सब्बसत्ते अतिक्कमित्वा पवत्तरुचि. अट्ठमकञ्हि अतिक्कमित्वा पवत्तरुचिताय सोतापन्नो अच्चरुचि नाम, सोतापन्नं अतिक्कमित्वा पवत्तरुचिताय सकदागामी…पे… खीणासवं अतिक्कमित्वा पवत्तरुचिताय पच्चेकसम्बुद्धो, पच्चेकसम्बुद्धं अतिक्कमित्वा पवत्तरुचिताय सम्मासम्बुद्धो अच्चरुचि नाम. हिमवावञ्ञे सिलुच्चयेति यथा हिमवा पब्बतराजा अञ्ञे पब्बते अतिरोचति, एवं अतिरोचतीति अत्थो. सच्चनामोति तच्छनामो भूतनामो आगुं अकरणेनेव नागोति एवं अवितथनामो.

सोरच्चन्ति सुचिसीलं. अविहिंसाति करुणा च करुणापुब्बभागो च. पादा नागस्स ते दुवेति ते बुद्धनागस्स दुवे पुरिमपादा.

तपोति धुतसमादानं. ब्रह्मचरियन्ति अरियमग्गसीलं. चरणा नागस्स त्यापरेति ते बुद्धनागस्स अपरे द्वे पच्छिमपादा. सद्धाहत्थोति सद्धामयाय सोण्डाय समन्नागतो. उपेक्खासेतदन्तवाति छळङ्गुपेक्खामयेहि सेतदन्तेहि समन्नागतो.

सति गीवाति यथा नागस्स अङ्गपच्चङ्गस्मिं सिराजालानं गीवा पतिट्ठा, एवं बुद्धनागस्स सोरच्चादीनं धम्मानं सति. तेन वुत्तं – ‘‘सति गीवा’’ति. सिरो पञ्ञाति यथा हत्थिनागस्स सिरो उत्तमङ्गो, एवं बुद्धनागस्स सब्बञ्ञुतञाणं. तेन हि सो सब्बधम्मे जानाति. तेन वुत्तं – ‘‘सिरो पञ्ञा’’ति. वीमंसा धम्मचिन्तनाति यथा हत्थिनागस्स अग्गसोण्डो वीमंसा नाम होति. सो ताय थद्धमुदुकं खादितब्बाखादितब्बञ्च वीमंसति, ततो पहातब्बं पजहति, आदातब्बं आदियति, एवमेव बुद्धनागस्स धम्मकोट्ठासपरिच्छेदकञाणसङ्खाता धम्मचिन्तना वीमंसा. तेन हि ञाणेन सो भब्बाभब्बे जानाति. तेन वुत्तं – ‘‘वीमंसा धम्मचिन्तना’’ति. धम्मकुच्छिसमातपोति धम्मो वुच्चति चतुत्थज्झानसमाधि, कुच्छियेव समातपो कुच्छिसमातपो. समातपो नाम समातपनट्ठानं. धम्मो कुच्छिसमातपो अस्साति धम्मकुच्छिसमातपो. चतुत्थज्झानसमाधिस्मिं ठितस्स हि ते ते इद्धिविधादिधम्मा इज्झन्ति, तस्मा सो कुच्छिसमातपोति वुत्तो. विवेकोति कायचित्तउपधिविवेको. यथा नागस्स वालधि मक्खिका वारेति, एवं तथागतस्स विवेको गहट्ठपब्बजिते वारेति. तस्मा सो वालधीति वुत्तो.

झायीति दुविधेन झानेन झायी. अस्सासरतोति नागस्स हि अस्सासपस्सासा विय बुद्धनागस्स फलसमापत्ति, तत्थ रतो, अस्सासपस्सासेहि विय ताय विना न वत्ततीति अत्थो. सब्बत्थ संवुतोति सब्बद्वारेसु संवुतो. अनवज्जानीति सम्माआजीवेन उप्पन्नभोजनानि. सावज्जानीति पञ्चविधमिच्छाजीववसेन उप्पन्नभोजनानि.

अणुंथूलन्ति खुद्दकञ्च महन्तञ्च. सब्बं छेत्वान बन्धनन्ति सब्बं दसविधम्पि संयोजनं छिन्दित्वान. नुपलिप्पति लोकेनाति लोकेन सद्धिं तण्हामानदिट्ठिलेपेहि न लिप्पति. महागिनीति महाअग्गि. विञ्ञूहि देसिताति इध पटिसम्भिदाप्पत्तो काळुदायित्थेरोव विञ्ञू पण्डितो, तेन देसिताति अत्थो. विञ्ञस्सन्ति महानागा, नागं नागेन देसितन्ति उदायित्थेरनागेन देसितं बुद्धनागं इतरे खीणासवा नागा विजानिस्सन्ति.

सरीरं विजहं नागो, परिनिब्बिस्सतीति बोधिपल्लङ्के किलेसपरिनिब्बानेन परिनिब्बुतो, यमकसालन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायिस्सति. एवं पटिसम्भिदाप्पत्तो उदायित्थेरो सोळसहि गाथाहि चतुसट्ठिया पदेहि दसबलस्स वण्णं कथेन्तो देसनं निट्ठापेसि. भगवा अनुमोदि. देसनावसाने चतुरासीतिपाणसहस्सानि अमतपानं पिविंसूति.