९. पठममरणस्सतिसुत्तवण्णना
१९. नवमे नातिकेति एवंनामके गामे. गिञ्जकावसथेति इट्ठकामये पासादे. अमतोगधाति निब्बानोगधा, निब्बानपतिट्ठाति अत्थो. भावेथ नोति भावेथ नु. मरणस्सतिन्ति मरणस्सतिकम्मट्ठानं. अहो वताति पत्थनत्थे निपातो. बहुं वत मे कतं अस्साति तुम्हाकं सासने मम किच्चं बहु कतं अस्स. तदन्तरन्ति तं अन्तरं खणं ओकासं. अस्ससित्वा वा पस्ससामीति एत्थ अस्सासो वुच्चति अन्तो पविसनवातो, पस्सासो बहि निक्खमनवातो. इति अयं भिक्खु याव अन्तो पविट्ठवातो बहि निक्खमति, बहि निक्खन्तो वातो अन्तो पविसति, ताव जीवितं पत्थेन्तो एवमाह. दन्धन्ति मन्दं गरुकं असीघप्पवत्तं. आसवानं खयायाति अरहत्तफलत्थाय. इमस्मिं सुत्ते मरणस्सति अरहत्तं पापेत्वा कथिताति.