४. भद्दकसुत्तवण्णना

१४. चतुत्थे न भद्दकन्ति न लद्धकं. तत्थ यो हि भीतभीतो मरति, तस्स न भद्दकं मरणं होति. यो अपाये पटिसन्धिं गण्हाति, तस्स न भद्दिका कालकिरिया होति. कम्मारामोतिआदीसु आरमणं आरामो, अभिरतीति अत्थो. विहारकरणादिम्हि नवकम्मे आरामो अस्साति कम्मारामो. तस्मिंयेव कम्मे रतोति कम्मरतो. तदेव कम्मारामतं पुनप्पुनं युत्तोति अनुयुत्तो. एस नयो सब्बत्थ. एत्थ च भस्सन्ति आलापसल्लापो. निद्दाति सोप्पं. सङ्गणिकाति गणसङ्गणिका. सा ‘‘एकस्स दुतियो होति, द्विन्नं होति ततियको’’तिआदिना नयेन वेदितब्बा. संसग्गोति दस्सनसवनसमुल्लापसम्भोगकायसंसग्गवसेन पवत्तो संसट्ठभावो. पपञ्चोति तण्हादिट्ठिमानवसेन पवत्तो मदनाकारसण्ठितो किलेसपपञ्चो. सक्कायन्ति तेभूमकवट्टं. सम्मा दुक्खस्स अन्तकिरियायाति हेतुना नयेन सकलवट्टदुक्खस्स परिवटुमपरिच्छेदकरणत्थं. मगोति मगसदिसो. निप्पपञ्चपदेति निब्बानपदे. आराधयीति परिपूरयि तं सम्पादेसीति.