३. ततियपण्णासकं
(११) १. फासुविहारवग्गो
१. सारज्जसुत्तवण्णना
१०१. ततियस्स पठमे वेसारज्जकरणाति विसारदभावावहा. सारज्जं होतीति दोमनस्सं होति.
२. उस्सङ्कितसुत्तवण्णना
१०२. दुतिये उस्सङ्कितपरिसङ्कितोति उस्सङ्कितो च परिसङ्कितो च. अपि अकुप्पधम्मोपीति अपि अकुप्पधम्मो खीणासवो समानोपि परेहि पापभिक्खूहि उस्सङ्कितपरिसङ्कितो होतीति अत्थो. वेसियागोचरोतिआदीसु वेसिया वुच्चन्ति रूपूपजीविनियो, ता गोचरो अस्साति वेसियागोचरो, तासं गेहं अभिण्हगमनोति अत्थो. सेसपदेसुपि एसेव नयो. तत्थ पन विधवाति मतपतिका. थुल्लकुमारिकाति महल्लिककुमारिकायो.
३. महाचोरसुत्तवण्णना
१०३. ततिये इतो भोगेन पटिसन्थरिस्सामीति इतो मम सापतेय्यतो भोगं गहेत्वा तेन पटिसन्थारं करिस्सामि, तस्स च मम च अन्तरं पिदहिस्सामीति अत्थो. गहणानीति परसन्तकानं भण्डानं गहणानि. गुय्हमन्ताति गुहितब्बमन्ता. अन्तग्गाहिकायाति सस्सतं वा उच्छेदं वा गहेत्वा ठिताय. सेसमेत्थ उत्तानत्थमेव. चतुत्थे सब्बं हेट्ठा वुत्तनयमेव.
५. फासुविहारसुत्तवण्णना
१०५. पञ्चमे मेत्तं कायकम्मन्ति मेत्तचित्तेन पवत्तितं कायकम्मं. आवि चेव रहो चाति सम्मुखे चेव परम्मुखे च. इतरेसुपि एसेव नयो. यानि तानि सीलानीतिआदि चतुपारिसुद्धिसीलवसेन वुत्तं. समाधिसंवत्तनिकानीति मग्गसमाधिफलसमाधिनिब्बत्तकानि. सीलसामञ्ञगतोति समानसीलतं गतो, एकसदिससीलो हुत्वाति अत्थो. तक्करस्साति यो नं करोति, तस्स. इति इमस्मिं सुत्ते सीलं मिस्सकं कथितं, दिट्ठि विपस्सनासम्मादिट्ठीति.
६. आनन्दसुत्तवण्णना
१०६. छट्ठे नो च परं अधिसीले सम्पवत्ता होतीति परं सीलभावेन न गरहति न उपवदति. अत्तानुपेक्खीति अत्तनोव कताकतं जाननवसेन अत्तानं अनुपेक्खिता. नो परानुपेक्खीति परस्स कताकतेसु अब्यावटो. अपञ्ञातोति अपाकटो अप्पपुञ्ञो. अपञ्ञातकेनाति अपञ्ञातभावेन अपाकटताय मन्दपुञ्ञताय. नो परितस्सतीति परितासं नापज्जति. इति इमस्मिं सुत्ते खीणासवोव कथितो.
७-८. सीलसुत्तादिवण्णना
१०७-१०८. सत्तमे सीलसमाधिपञ्ञा मिस्सिका कथिता, विमुत्ति अरहत्तफलं, विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं लोकियमेव. अट्ठमेपि एसेव नयो. पच्चवेक्खणञाणं पनेत्थ असेखस्स पवत्तत्ता असेखन्ति वुत्तं.
९-१०. चातुद्दिससुत्तादिवण्णना
१०९-११०. नवमे चातुद्दिसोति चतूसु दिसासु अप्पटिहतचारो. इमस्मिम्पि सुत्ते खीणासवोव कथितो. दसमे अलन्ति युत्तो. इधापि खीणासवोव कथितो.
फासुविहारवग्गो पठमो.
(१२) २. अन्धकविन्दवग्गो
१. कुलूपकसुत्तवण्णना
१११. दुतियस्स पठमे असन्थवविस्सासीति अत्तना सद्धिं सन्थवं अकरोन्तेसु विस्सासं अनापज्जन्तेसुयेव विस्सासं करोति. अनिस्सरविकप्पीति अनिस्सरोव समानो ‘‘इमं देथ, इमं गण्हथा’’ति इस्सरो विय विकप्पेति. विस्सट्ठुपसेवीति विस्सट्ठानि भिन्नकुलानि घटनत्थाय उपसेवति. उपकण्णकजप्पीति कण्णमूले मन्तं गण्हाति. सुक्कपक्खो वुत्तविपरियायेन वेदितब्बो.
२. पच्छासमणसुत्तवण्णना
११२. दुतिये पत्तपरियापन्नं न गण्हातीति उपज्झाये निवत्तित्वा ठिते अत्तनो तुच्छपत्तं दत्वा तस्स पत्तं न गण्हाति, ततो वा दीयमानं न गण्हाति. न निवारेतीति इदं वचनं आपत्तिवीतिक्कमवचनं नामाति न जानाति. ञत्वा वापि, ‘‘भन्ते, एवरूपं नाम वत्तुं न वट्टती’’ति न निवारेति. कथं ओपातेतीति तस्स कथं भिन्दित्वा अत्तनो कथं पवेसेति. जळोति जडो. एळमूगोति पग्घरितखेळमुखो. ततियं उत्तानमेव.
४. अन्धकविन्दसुत्तवण्णना
११४. चतुत्थे सीलवा होथाति सीलवन्ता होथ. आरक्खसतिनोति द्वाररक्खिकाय सतिया समन्नागता. निपक्कसतिनोति द्वाररक्खनकेनेव ञाणेन समन्नागतस्सतिनो. सतारक्खेन चेतसा समन्नागताति सतारक्खेन चित्तेन समन्नागता. अप्पभस्साति अप्पकथा. सम्मादिट्ठिकाति कम्मस्सकतज्झान-विपस्सनामग्ग-फलवसेन पञ्चविधाय सम्मादिट्ठिया समन्नागता. अपिच पच्चवेक्खणञाणम्पि सम्मादिट्ठियेवाति वेदितब्बा.
५. मच्छरिनीसुत्तवण्णना
११५. पञ्चमे आवासमच्छरिनीति आवासं मच्छरायति, तत्थ अञ्ञेसं वासं न सहति. कुलमच्छरिनीति उपट्ठाककुलं मच्छरायति, अञ्ञेसं तत्थ उपसङ्कमनं न सहति. लाभमच्छरिनीति लाभं मच्छरायति, अञ्ञेसं तं उप्पज्जन्तं न सहति. वण्णमच्छरिनीति गुणं मच्छरायति, अञ्ञेसं गुणकथं न सहति. धम्ममच्छरिनीति परियत्तिधम्मं मच्छरायति, अञ्ञेसं दातुं न इच्छति.
६-७. वण्णनासुत्तादिवण्णना
११६-११७. छट्ठे सद्धादेय्यं विनिपातेतीति परेहि सद्धाय दिन्नपिण्डपाततो अग्गं अग्गहेत्वा परस्स देति. सत्तमे इस्सुकिनीति इस्साय समन्नागता. सेसं सब्बत्थ उत्तानमेवाति.
अन्धकविन्दवग्गो दुतियो.
(१३) ३. गिलानवग्गो
४. दुतियउपट्ठाकसुत्तवण्णना
१२४. ततियस्स चतुत्थे नप्पटिबलोति कायबलेन च ञाणबलेन च असमन्नागतो. आमिसन्तरोति आमिसहेतुको चीवरादीनि पच्चासीसमानो.
५-६. अनायुस्सासुत्तद्वयवण्णना
१२५-१२६. पञ्चमे अनायुस्साति आयुपच्छेदना, न आयुवड्ढना. छट्ठेपि एसेव नयो.
७. वपकाससुत्तवण्णना
१२७. सत्तमे नालं सङ्घम्हा वपकासितुन्ति सङ्घतो निक्खमित्वा एकको वसितुं न युत्तो. कामञ्चेस सङ्घमज्झेपि वसितुं अयुत्तोव असङ्घसोभनताय, ओवादानुसासनिप्पटिबद्धत्ता पन निप्परियायेनेव सङ्घम्हा वपकासितुं न युत्तो. अलं सङ्घम्हा वपकासितुन्ति चातुद्दिसत्ता सङ्घम्हा निक्खम्म एकको वसितुं युत्तो, सङ्घसोभनताय पन सङ्घेपि वसितुं युत्तोयेव. अट्ठमं उत्तानत्थमेव.
९. परिकुप्पसुत्तवण्णना
१२९. नवमे आपायिकाति अपायगामिनो. नेरयिकाति निरयगामिनो. परिकुप्पाति परिकुप्पनसभावा पुराणवणसदिसा. अतेकिच्छाति अकत्तब्बपरिकम्मा. दसमं उत्तानत्थमेवाति.
गिलानवग्गो ततियो.
(१४) ४. राजवग्गो
१. पठमचक्कानुवत्तनसुत्तवण्णना
१३१. चतुत्थस्स पठमे धम्मेनाति दसकुसलधम्मेन. चक्कन्ति आणाचक्कं. अत्थञ्ञूति रज्जत्थं जानाति. धम्मञ्ञूति पवेणिधम्मं जानाति. मत्तञ्ञूति दण्डे वा बलम्हि वा पमाणं जानाति. कालञ्ञूति रज्जसुखानुभवनकालं, विनिच्छयकरणकालं, जनपदचारिकाकालञ्च जानाति. परिसञ्ञूति अयं परिसा खत्तियपरिसा, अयं ब्राह्मणवेस्ससुद्दसमणपरिसाति जानाति.
तथागतवारे अत्थञ्ञूति पञ्च अत्थे जानाति. धम्मञ्ञूति चत्तारो धम्मे जानाति. मत्तञ्ञूति चतूसु पच्चयेसु पटिग्गहणपरिभोगमत्तं जानाति. कालञ्ञूति अयं कालो पटिसल्लीनस्स, अयं समापत्तिया, अयं धम्मदेसनाय, अयं जनपदचारिकायाति एवं कालं जानाति. परिसञ्ञूति अयं परिसा खत्तियपरिसा…पे… अयं समणपरिसाति जानाति. अनुत्तरन्ति नवहि लोकुत्तरधम्मेहि अनुत्तरं. धम्मचक्कन्ति सेट्ठचक्कं.
२. दुतियचक्कानुवत्तनसुत्तवण्णना
१३२. दुतिये पितरा पवत्तितं चक्कन्ति चक्कवत्तिम्हि पब्बजिते वा कालकते वा चक्करतनं सत्ताहमत्तं ठत्वा अन्तरधायति, कथमेस तं अनुप्पवत्तेति नाम? पितु पवेणियं ठत्वा चक्कवत्तिवत्तं पूरेत्वा चक्कवत्तिरज्जं कारेन्तोपि पितरा पवत्तितमेव अनुप्पवत्तेति नाम.
३. धम्मराजासुत्तवण्णना
१३३. ततियं तिकनिपाते वुत्तनयमेव. सेवितब्बासेवितब्बे पनेत्थ पच्छिमपदद्वयमेव विसेसो. तत्थ सम्माआजीवो सेवितब्बो, मिच्छाआजीवो न सेवितब्बो. सप्पायो गामनिगमो सेवितब्बो, असप्पायो न सेवितब्बो.
४. यस्संदिसंसुत्तवण्णना
१३४. चतुत्थे उभतोति द्वीहिपि पक्खेहि. मातितो च पितितो चाति यस्स हि माता खत्तिया, मातुमाता खत्तिया, तस्सापि माता खत्तिया. पिता खत्तियो, पितुपिता खत्तियो, तस्सपि पिता खत्तियो. सो उभतो सुजातो मातितो च पितितो च. संसुद्धगहणिकोति संसुद्धाय मातुकुच्छिया समन्नागतो. ‘‘समवेपाकिनिया गहणिया’’ति एत्थ पन कम्मजतेजोधातु गहणीति वुच्चति. याव सत्तमा पितामहयुगाति एत्थ पितुपिता पितामहो, पितामहस्स युगं पितामहयुगं. युगन्ति आयुप्पमाणं वुच्चति. अभिलापमत्तमेव चेतं, अत्थतो पन पितामहोयेव पितामहयुगं. ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता. एवं याव सत्तमो पुरिसो, ताव संसुद्धगहणिको, अथ वा अक्खित्तो अनुपक्कुट्ठो जातिवादेनाति दस्सेति. अक्खित्तोति ‘‘अपनेथ एतं, किं इमिना’’ति एवं अक्खित्तो अनवक्खित्तो. अनुपक्कुट्ठोति न उपक्कुट्ठो न अक्कोसं वा निन्दं वा पत्तपुब्बो. केन कारणेनाति? जातिवादेन, ‘‘इतिपि हीनजातिको एसो’’ति एवरूपेन वचनेनाति अत्थो.
अड्ढोतिआदीसु यो कोचि अत्तनो सन्तकेन विभवेन अड्ढो होति. इध पन न केवलं अड्ढोयेव, महद्धनो महता अपरिमाणसङ्खेन धनेन समन्नागतोति अत्थो. पञ्चकामगुणवसेन महन्ता उळारा भोगा अस्साति महाभोगो. परिपुण्णकोसकोट्ठागारोति कोसो वुच्चति भण्डागारं, निदहित्वा ठपितेन धनेन परिपुण्णकोसो, धञ्ञेन च परिपुण्णकोट्ठागारोति अत्थो. अथ वा चतुब्बिधो कोसो हत्थी अस्सा रथा रट्ठन्ति, तिविधं कोट्ठागारं धनकोट्ठागारं धञ्ञकोट्ठागारं वत्थकोट्ठागारन्ति. तं सब्बम्पि परिपुण्णमस्साति परिपुण्णकोसकोट्ठागारो. अस्सवायाति कस्सचि बहुम्पि धनं देन्तस्स सेना न सुणाति, सा अनस्सवा नाम होति. कस्सचि अदेन्तस्सापि सुणातियेव, अयं अस्सवा नाम. ओवादपटिकरायाति ‘‘इदं वो कत्तब्ब, इदं न कत्तब्ब’’न्ति दिन्नओवादकराय. पण्डितोति पण्डिच्चेन समन्नागतो. ब्यत्तोति पञ्ञावेय्यत्तियेन युत्तो. मेधावीति ठानुप्पत्तिकपञ्ञाय समन्नागतो. पटिबलोति समत्थो. अत्थे चिन्तेतुन्ति वड्ढिअत्थे चिन्तेतुं. सो हि पच्चुप्पन्नअत्थवसेनेव ‘‘अतीतेपि एवं अहेसुं, अनागतेपि एवं भविस्सन्ती’’ति चिन्तेति. विजितावीनन्ति विजितविजयानं, महन्तेन वा विजयेन समन्नागतानं. विमुत्तचित्तानन्ति पञ्चहि विमुत्तीहि विमुत्तमानसानं.
५-६. पत्थनासुत्तद्वयवण्णना
१३५-१३६. पञ्चमे नेगमजानपदस्साति निगमवासिनो च रट्ठवासिनो च जनस्स. हत्थिस्मिन्तिआदीहि हत्थिअस्सरथथरुधनुलेखमुद्दागणनादीनि सोळस महासिप्पानि दस्सितानि. अनवयोति समत्थो परिपुण्णो. सेसमेत्थ हेट्ठा वुत्तनयेनेव वेदितब्बं. छट्ठे ओपरज्जन्ति उपराजभावं.
७. अप्पंसुपतिसुत्तवण्णना
१३७. सत्तमे पुरिसाधिप्पायाति अस्सद्धम्मवसेन पुरिसे उप्पन्नाधिप्पाया पुरिसज्झासया. आदानाधिप्पायोति इदानि गहेतुं सक्खिस्सामि, इदानि सक्खिस्सामीति एवं गहणाधिप्पायो. विसंयोगाधिप्पायोति इदानि निब्बानं पापुणिस्सामि, इदानि पापुणिस्सामीति एवं निब्बानज्झासयो.
८. भत्तादकसुत्तवण्णना
१३८. अट्ठमे भत्तादकोति भत्तक्खादको, बहुभत्तभुञ्जोति अत्थो. ओकासफरणोति ओकासं फरित्वा अञ्ञेसं सम्बाधं कत्वा ठानेन ओकासफरणो. तत्थ तत्थ लण्डं सारेति पातेतीति लण्डसारणो. एत्तका हत्थीति गणनकाले सलाकं गण्हातीति सलाकग्गाही. निसीदनसयनवसेन मञ्चपीठं मद्दतीति मञ्चपीठमद्दनो. भिक्खुगणनकाले सलाकं गण्हातीति सलाकग्गाही.
९. अक्खमसुत्तवण्णना
१३९. नवमे हत्थिकायन्ति हत्थिघटं. सेसेसुपि एसेव नयो. सङ्गामे अवचरन्तीति सङ्गामावचरा. एकिस्सा वा तिणोदकदत्तिया विमानितोति एकदिवसं एकेन तिणोदकदानेन विमानितो, एकदिवसमत्तं अलद्धतिणोदकोति अत्थो. इतो परम्पि एसेव नयो. न सक्कोति चित्तं समादहितुन्ति आरम्मणे चित्तं सम्मा ठपेतुं न सक्कोति. सेसमेत्थ उत्तानमेव. इमस्मिं पन सुत्ते वट्टविवट्टं कथितन्ति वेदितब्बं.
१०. सोतसुत्तवण्णना
१४०. दसमे दुरुत्तानन्ति न सुट्ठु वुत्तानं दोसवसेन पवत्तितानं फरुसवचनानं. दुरागतानन्ति दुक्खुप्पादनाकारेन सोतद्वारं आगतानं. वचनपथानन्ति वचनानं. दुक्खानन्ति दुक्खमानं. तिब्बानन्ति बहलानं तापनसभावानं वा. खरानन्ति फरुसानं. कटुकानन्ति तिखिणानं. असातानन्ति अमधुरानं. अमनापानन्ति मनं अप्पायितुं वड्ढेतुं असमत्थानं. पाणहरानन्ति जीवितहरानं. या सा दिसाति सब्बसङ्खारसमथादिवसेन दिस्सति अपदिस्सतीति निब्बानं दिसाति वेदितब्बं. यस्मा पन तं आगम्म सब्बे सङ्खारा समथं गच्छन्ति, तस्मा सब्बसङ्खारसमथोति वुत्तं. सेसं सब्बत्थ उत्तानमेव. इमस्मिं पन सुत्ते सीलसमाधिपञ्ञा मिस्सिका कथिताति.
राजवग्गो चतुत्थो.
(१५) ५. तिकण्डकीवग्गो
१. अवजानातिसुत्तवण्णना
१४१. पञ्चमस्स पठमे संवासेनाति एकतोवासेन. आदेय्यमुखोति आदियनमुखो, गहणमुखोति अत्थो. तमेनं दत्वा अवजानातीति ‘‘अयं दिन्नं पटिग्गहेतुमेव जानाती’’ति एवं अवमञ्ञति. तमेनं संवासेन अवजानातीति अप्पमत्तके किस्मिञ्चिदेव कुज्झित्वा ‘‘जानामहं तया कतकम्मं, एत्तकं अद्धानं अहं किं करोन्तो वसिं, ननु तुय्हमेव कताकतं वीमंसन्तो’’तिआदीनि वत्ता होति. अथ इतरो ‘‘अद्धा कोचि मय्हं दोसो भविस्सती’’ति किञ्चि पटिप्फरितुं न सक्कोति. तं खिप्पञ्ञेव अधिमुच्चिता होतीति तं वण्णं वा अवण्णं वा सीघमेव सद्दहति. सद्दहनट्ठेन हि आदानेन एस आदियनमुखोति वुत्तो. आधेय्यमुखोति पाळिया पन ठपितमुखोति अत्थो. मग्गे खटआवाटो विय आगतागतं उदकं वण्णं वा अवण्णं वा सद्दहनवसेन सम्पटिच्छितुं ठपितमुखोति वुत्तं होति.
इत्तरसद्धोति परित्तकसद्धो. कुसलाकुसले धम्मे न जानातीतिआदीसु कुसले धम्मे ‘‘इमे कुसला’’ति न जानाति, अकुसले धम्मे ‘‘इमे अकुसला’’ति न जानाति. तथा सावज्जे सदोसधम्मे ‘‘इमे सावज्जा’’ति, अनवज्जे च निद्दोसधम्मे ‘‘इमे अनवज्जा’’ति, हीने हीनाति, पणीते पणीताति. कण्हसुक्कसप्पटिभागेति ‘‘इमे कण्हा सुक्के पटिबाहेत्वा ठितत्ता सप्पटिभागा नाम, इमे च सुक्का कण्हे पटिबाहित्वा ठितत्ता सप्पटिभागा’’ति न जानाति.
२. आरभतिसुत्तवण्णना
१४२. दुतिये आरभति च विप्पटिसारी च होतीति आपत्तिवीतिक्कमनवसेन आरभति चेव, तप्पच्चया च विप्पटिसारी होति. चेतोविमुत्तिं पञ्ञाविमुत्तिन्ति अरहत्तसमाधिञ्चेव अरहत्तफलञाणञ्च. नप्पजानातीति अनधिगतत्ता न जानाति. आरभति न विप्पटिसारी होतीति आपत्तिं आपज्जति, वुट्ठितत्ता पन न विप्पटिसारी होति. नारभति विप्पटिसारी होतीति सकिं आपत्तिं आपज्जित्वा ततो वुट्ठाय पच्छा किञ्चापि नापज्जति, विप्पटिसारं पन विनोदेतुं न सक्कोति. नारभति न विप्पटिसारी होतीति न चेव आपत्तिं आपज्जति, न च विप्पटिसारी होति. तञ्च चेतोविमुत्तिं…पे… निरुज्झन्तीति अरहत्तं पन अप्पत्तो होति. पञ्चमनयेन खीणासवो कथितो.
आरम्भजाति आपत्तिवीतिक्कमसम्भवा. विप्पटिसारजाति विप्पटिसारतो जाता. पवड्ढन्तीति पुनप्पुनं उप्पज्जनेन वड्ढन्ति. आरम्भजे आसवे पहायाति वीतिक्कमसम्भवे आसवे आपत्तिदेसनाय वा आपत्तिवुट्ठानेन वा पजहित्वा. पटिविनोदेत्वाति सुद्धन्ते ठितभावपच्चवेक्खणेन नीहरित्वा. चित्तं पञ्ञञ्च भावेतूति विपस्सनाचित्तञ्च तंसम्पयुत्तं पञ्ञञ्च भावेतु. सेसं इमिना उपायेनेव वेदितब्बन्ति.
३. सारन्ददसुत्तवण्णना
१४३. ततिये कामाधिमुत्तानन्ति वत्थुकामकिलेसकामेसु अधिमुत्तानं. धम्मानुधम्मप्पटिपन्नोति नवलोकुत्तरधम्मत्थाय सहसीलकं पुब्बभागप्पटिपदं पटिपन्नो पटिपत्तिपूरको पुग्गलो दुल्लभो लोकस्मिं.
४. तिकण्डकीसुत्तवण्णना
१४४. चतुत्थे अप्पटिकूलेति अप्पटिकूलारम्मणे. पटिकूलसञ्ञीति पटिकूलन्ति एवंसञ्ञी. एस नयो सब्बत्थ. कथं पनायं एवं विहरतीति? इट्ठस्मिं वत्थुस्मिं पन असुभाय वा फरति, अनिच्चतो वा उपसंहरति. एवं ताव अप्पटिकूले पटिकूलसञ्ञी विहरति. अनिट्ठस्मिं वत्थुस्मिं मेत्ताय वा फरति, धातुतो वा उपसंहरति. एवं पटिकूले अप्पटिकूलसञ्ञी विहरति. उभयस्मिं पन पुरिमनयस्स च पच्छिमनयस्स च वसेन ततियचतुत्थवारा वुत्ता, छळङ्गुपेक्खावसेन पञ्चमो. छळङ्गुपेक्खा चेसा खीणासवस्स उपेक्खासदिसा, न पन खीणासवुपेक्खा. तत्थ उपेक्खको विहरेय्याति मज्झत्तभावे ठितो विहरेय्य. क्वचनीति किस्मिञ्चि आरम्मणे. कत्थचीति किस्मिञ्चि पदेसे. किञ्चनति कोचि अप्पमत्तकोपि. इति इमस्मिं सुत्ते पञ्चसु ठानेसु विपस्सनाव कथिता. तं आरद्धविपस्सको भिक्खु कातुं सक्कोति, ञाणवा पञ्ञुत्तरो बहुस्सुतसमणोपि कातुं सक्कोति. सोतापन्नसकदागामिअनागामिनो कातुं सक्कोन्तियेव, खीणासवे वत्तब्बमेव नत्थीति. पञ्चमं उत्तानमेव.
६. मित्तसुत्तवण्णना
१४६. छट्ठे कम्मन्तं कारेतीति खेत्तादिकम्मन्तं कारेति. अधिकरणं आदियतीति चत्तारि अधिकरणानि आदियति. पामोक्खेसु भिक्खूसूति दिसापामोक्खेसु भिक्खूसु. पटिविरुद्धो होतीति पच्चनीकग्गाहिताय विरुद्धो होति. अनवत्थचारिकन्ति अनवत्थानचारिकं.
७. असप्पुरिसदानसुत्तवण्णना
१४७. सत्तमे असक्कच्चं देतीति न सक्करित्वा सुचिं कत्वा देति. अचित्तीकत्वा देतीति अचित्तीकारेन अगारववसेन देति. अपविद्धं देतीति न निरन्तरं देति, अथ वा छड्डेतुकामो विय देति. अनागमनदिट्ठिको देतीति कतस्स नाम फलं आगमिस्सतीति न एवं आगमनदिट्ठिं न उप्पादेत्वा देति.
सुक्कपक्खे चित्तीकत्वा देतीति देय्यधम्मे च दक्खिणेय्येसु च चित्तीकारं उपट्ठपेत्वा देति. तत्थ देय्यधम्मं पणीतं ओजवन्तं कत्वा देन्तो देय्यधम्मे चित्तीकारं उपट्ठपेति नाम. पुग्गलं विचिनित्वा देन्तो दक्खिणेय्येसु चित्तीकारं उपट्ठपेति नाम. सहत्था देतीति आणत्तिया परहत्थेन अदत्वा ‘‘अनमतग्गे संसारे विचरन्तेन मे हत्थपादानं अलद्धकालस्स पमाणं नाम नत्थि, वट्टमोक्खं भवनिस्सरणं करिस्सामी’’ति सहत्थेनेव देति. आगमनदिट्ठिकोति ‘‘अनागतभवस्स पच्चयो भविस्सती’’ति कम्मञ्च विपाकञ्च सद्दहित्वा देतीति.
८. सप्पुरिसदानसुत्तवण्णना
१४८. अट्ठमे सद्धायाति दानञ्च दानफलञ्च सद्दहित्वा. कालेनाति युत्तप्पत्तकालेन. अनग्गहितचित्तोति अग्गहितचित्तो मुत्तचागो हुत्वा. अनुपहच्चाति अनुपघातेत्वा गुणे अमक्खेत्वा. कालागता चस्स अत्था पचुरा होन्तीति अत्था आगच्छमाना वयोवुड्ढकाले अनागन्त्वा युत्तप्पत्तकाले पठमवयस्मिंयेव आगच्छन्ति चेव बहू च होन्ति.
९. पठमसमयविमुत्तसुत्तवण्णना
१४९. नवमे समयविमुत्तस्साति अप्पितप्पितक्खणेयेव विक्खम्भितेहि किलेसेहि विमुत्तत्ता समयविमुत्तिसङ्खाताय लोकियविमुत्तिया विमुत्तचित्तस्स. दसमं उत्तानत्थमेव.
तिकण्डकीवग्गो पञ्चमो.
ततियपण्णासकं निट्ठितं.