३. ब्याकरणसुत्तवण्णना

९३. ततिये अञ्ञाब्याकरणानीति अरहत्तब्याकरणानि. मन्दत्ताति मन्दभावेन अञ्ञाणेन. मोमूहत्ताति अतिमूळ्हभावेन. अञ्ञं ब्याकरोतीति अरहत्तं पत्तोस्मीति कथेति. इच्छापकतोति इच्छाय अभिभूतो. अधिमानेनाति अधिगतमानेन. सम्मदेवाति हेतुना नयेन कारणेनेव.