९. पठमसेखसुत्तवण्णना
८९. नवमे सेखस्साति सिक्खकस्स सकरणीयस्स. परिहानायाति उपरिगुणेहि परिहानत्थाय. कम्मारामताति नवकम्मे रमनकभावो. भस्सारामताति आलापसल्लापे रमनकभावो. निद्दारामताति निद्दायने रमनकभावो. सङ्गणिकारामताति गणसङ्गणिकाय रमनकभावो. यथाविमुत्तं चित्तं न पच्चवेक्खतीति यथा यं चित्तं विमुत्तं, ये च दोसा पहीना, गुणा च पटिलद्धा, ते पच्चवेक्खित्वा उपरिगुणपटिलाभाय वायामं न करोतीति अत्थो. इति इमस्मिं सुत्ते सत्तन्नं सेखानं उपरिगुणेहि परिहानिकारणञ्च वुद्धिकारणञ्च कथितं. यञ्च नाम सेखस्स परिहानकारणं, तं पुथुज्जनस्स पठममेव होतीति.