५. पठमयोधाजीवसुत्तवण्णना

७५. पञ्चमे योधाजीवाति युद्धूपजीविनो. रजग्गन्ति हत्थिअस्सादीनं पादप्पहारभिन्नाय भूमिया उग्गतं रजक्खन्धं. न सन्थम्भतीति सन्थम्भित्वा ठातुं न सक्कोति. सहति रजग्गन्ति रजक्खन्धं दिस्वापि अधिवासेति. धजग्गन्ति हत्थिअस्सदीनं पिट्ठेसु वा रथेसु वा उस्सापितानं धजानं अग्गं. उस्सारणन्ति हत्थिअस्सरथानञ्चेव बलकायस्स च उच्चासद्दमहासद्दं. सम्पहारेति समागते अप्पमत्तकेपि पहारे. हञ्ञतीति विहञ्ञति विघातं आपज्जति. ब्यापज्जतीति विपत्तिं आपज्जति, पकतिभावं जहति. सहति सम्पहारन्ति द्वे तयो पहारे पत्वापि सहति अधिवासेति. तमेव सङ्गामसीसन्ति तंयेव जयक्खन्धावारट्ठानं. अज्झावसतीति सत्ताहमत्तं अभिभवित्वा आवसति. किं कारणा? लद्धपहारानं पहारजग्गनत्थञ्चेव कतकम्मानं विसेसं ञत्वा ठानन्तरदानत्थञ्च इस्सरियसुखानुभवनत्थञ्च.

इदानि यस्मा सत्थु योधाजीवेहि किच्चं नत्थि, इमस्मिं पन सासने तथारूपे पञ्च पुग्गले दस्सेतुं इदं ओपम्मं आभतं. तस्मा ते पुग्गले दस्सेन्तो एवमेव खोतिआदिमाह. तत्थ संसीदतीति मिच्छावितक्कस्मिं संसीदति अनुप्पविसति. न सक्कोति ब्रह्मचरियं सन्धारेतुन्ति ब्रह्मचरियवासं अनुपच्छिज्जमानं गोपेतुं न सक्कोति. सिक्खादुब्बल्यं आविकत्वाति सिक्खाय दुब्बलभावं पकासेत्वा. किमस्स रजग्गस्मिन्ति किं तस्स पुग्गलस्स रजग्गं नामाति वदति. अभिरूपाति अभिरूपवती. दस्सनीयाति दस्सनयोग्गा. पासादिकाति दस्सनेनेव चित्तप्पसादावहा. परमायाति उत्तमाय. वण्णपोक्खरतायाति सरीरवण्णेन चेव अङ्गसण्ठानेन च. ऊहसतीति अवहसति. उल्लपतीति कथेति. उज्झग्घतीति पाणिं पहरित्वा महाहसितं हसति. उप्पण्डेतीति उप्पण्डनकथं कथेति. अभिनिसीदतीति अभिभवित्वा सन्तिके वा एकासने वा निसीदति. दुतियपदेपि एसेव नयो. अज्झोत्थरतीति अवत्थरति. विनिवेठेत्वा विनिमोचेत्वाति गहितट्ठानतो तस्सा हत्थं विनिब्बेठेत्वा चेव मोचेत्वा च. सेसमेत्थ उत्तानत्थमेवाति. इमस्मिं सुत्ते वट्टविवट्टं कथितं.