१. पठमचेतोविमुत्तिफलसुत्तवण्णना
७१. ततियस्स पठमे यतो खो, भिक्खवेति हेट्ठा वुत्तनयेन विपस्सनं वड्ढेत्वा अरहत्तं पत्तस्स भिक्खुनो इदानि वण्णभणनत्थं इदं आरद्धं. तत्थ यतो खोति यदा खो. उक्खित्तपलिघोति अविज्जापलिघं उक्खिपित्वा अपनेत्वा ठितो. संकिण्णपरिखोति संसारपरिखं संकिरित्वा विनासेत्वा ठितो. अब्बूळ्हेसिकोति तण्हासङ्खातं एसिकाथम्भं अब्बुय्ह लुञ्चित्वा ठितो. निरग्गळोति नीवरणकवाटं उग्घाटेत्वा ठितो. पन्नद्धजो पन्नभारोति मानद्धजञ्च खन्धाभिसङ्खारकिलेसभारञ्च पातेत्वा ओतारेत्वा ठितो. विसंयुत्तोति वट्टेन विसंयुत्तो. सेसं पाळिनयेनेव वेदितब्बं. एत्तावता भगवता मग्गेन किलेसे खेपेत्वा निरोधसयनवरगतस्स निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा विहरतो खीणासवस्स कालो दस्सितो.
यथा हि द्वे नगरानि एकं चोरनगरं एकं खेमनगरं. अथ एकस्स महायोधस्स एवं भवेय्य – ‘‘याविमं चोरनगरं तिट्ठति, ताव खेमनगरं भयतो न मुच्चति, चोरनगरं अनगरं करिस्सामी’’ति सन्नाहं कत्वा खग्गं गहेत्वा चोरनगरं उपसङ्कमित्वा नगरद्वारे उस्सापिते एसिकाथम्भे खग्गेन छिन्दित्वा सद्धिं द्वारबाहाहि कवाटं भिन्दित्वा पलिघं उक्खिपित्वा पाकारं भिन्दित्वा परिखं विकिरित्वा नगरसोभत्थाय उस्सिते धजे पातेत्वा नगरं अग्गिना झापेत्वा खेमनगरं पविसित्वा पासादं आरुय्ह ञातिगणपरिवुतो सुरसभोजनं भुञ्जेय्य. एवं चोरनगरं विय सक्कायो, खेमनगरं विय निब्बानं, महायोधो विय योगावचरो. तस्सेवं होति – ‘‘याव सक्कायवट्टं वट्टति, ताव द्वत्तिंसकम्मकारणाअट्ठनवुतिरोगपञ्चवीसतिमहाभयेहि परिमुच्चनं नत्थी’’ति. सो महायोधो सन्नाहं विय सीलसन्नाहं कत्वा पञ्ञाखग्गं गहेत्वा खग्गेन एसिकाथम्भे विय अरहत्तमग्गेन तण्हेसिकं लुञ्चित्वा, सो योधो सद्वारबाहकं नगरकवाटं विय पञ्चोरम्भागियसंयोजनअग्गळं उग्घाटेत्वा, सो योधो पलिघं विय अविज्जापलिघं उक्खिपित्वा, सो योधो पाकारं भिन्दन्तो परिखं विय कम्माभिसङ्खारं भिन्दन्तो जातिसंसारपरिखं विकिरित्वा, सो योधो नगरं सोभत्थाय उस्सापितद्धजे विय मानद्धजे पातेत्वा सक्कायनगरं झापेत्वा, सो योधो खेमनगरे उपरिपासादे सुभोजनं विय किलेसपरिनिब्बाननगरं पविसित्वा अमतं निरोधारम्मणं फलसमापत्तिसुखं अनुभवमानो कालं वीतिनामेति.