१. आवरणसुत्तवण्णना

५१. दुतियस्स पठमे आवरणवसेन आवरणा. नीवरणवसेन नीवरणा. चेतो अज्झारुहन्तीति चेतसो अज्झारुहा. विपस्सनापञ्ञञ्च मग्गपञ्ञञ्च उप्पत्तिनिवारणट्ठेन दुब्बलं करोन्तीति पञ्ञाय दुब्बलीकरणा. या वा एतेहि सद्धिं वोकिण्णा पञ्ञा उप्पज्जति, तं दुब्बलं करोन्तीतिपि पञ्ञाय दुब्बलीकरणा. अबलायाति पञ्चनीवरणपरियोनद्धत्ता अपगतबलाय. उत्तरि वा मनुस्सधम्मा अलमरियञाणदस्सनविसेसन्ति दसकुसलकम्मपथसङ्खाता मनुस्सधम्मा उत्तरि अरियभावं कातुं समत्थं ञाणदस्सनविसेसं. हारहारिनीति हरितब्बं हरितुं समत्था. नङ्गलमुखानीति मातिकामुखानि. तानि हि नङ्गलसरिक्खकत्ता नङ्गलेहि च खतत्ता नङ्गलमुखानीति वुच्चन्ति.

एवमेव खोति एत्थ सोतं विय विपस्सनाञाणं दट्ठब्बं, उभतो नङ्गलमुखानं विवरणकालो विय छसु द्वारेसु संवरस्स विस्सट्ठकालो, मज्झेनदिया रुक्खपादे कोट्टेत्वा पलालतिणमत्तिकाहि आवरणे कते उदकस्स विक्खित्तविसटब्यादिण्णकालो विय पञ्चहि नीवरणेहि परियोनद्धकालो, एवं आवरणे कते विहतवेगस्स उदकस्स तिणपलालादीनि परिकड्ढित्वा समुद्दं पापुणितुं असमत्थकालो विय विपस्सनाञाणेन सब्बाकुसले विद्धंसेत्वा निब्बानसागरं पापुणितुं असमत्थकालो वेदितब्बो. सुक्कपक्खे वुत्तविपल्लासेन योजना कातब्बा. इमस्मिं सुत्ते वट्टविवट्टं कथितं. दुतियं उत्तानत्थमेव.