६. कालदानसुत्तवण्णना

३६. छट्ठे कालदानानीति युत्तदानानि, पत्तदानानि अनुच्छविकदानानीति अत्थो. नवसस्सानीति अग्गसस्सानि. नवफलानीति आरामतो पठमुप्पन्नानि अग्गफलानि. पठमं सीलवन्तेसु पतिट्ठापेतीति पठमं सीलवन्तानं दत्वा पच्छा अत्तना परिभुञ्जति. वदञ्ञूति भासितञ्ञू. कालेन दिन्नन्ति युत्तप्पत्तकालेन दिन्नं. अनुमोदन्तीति एकमन्ते ठिता अनुमोदन्ति. वेय्यावच्चन्ति कायेन वेय्यावटिककम्मं करोन्ति. अप्पटिवानचित्तोति अनुक्कण्ठितचित्तो. यत्थ दिन्नं महप्फलन्ति यस्मिं ठाने दिन्नं महप्फलं होति, तत्थ ददेय्य.