१. पठमपण्णासकं
१. सेखबलवग्गो
१. संखित्तसुत्तवण्णना
१. पञ्चकनिपातस्स पठमे सत्तन्नं सेखानं बलानीति सेखबलानि. सद्धाबलादीसु अस्सद्धिये न कम्पतीति सद्धाबलं. अहिरिके न कम्पतीति हिरीबलं. अनोत्तप्पे न कम्पतीति ओत्तप्पबलं. कोसज्जे न कम्पतीति वीरियबलं. अविज्जाय न कम्पतीति पञ्ञाबलं. तस्माति यस्मा इमानि सत्तन्नं सेखानं बलानि, तस्मा.
२. वित्थतसुत्तवण्णना
२. दुतिये कायदुच्चरितेनातिआदीसु उपयोगत्थे करणवचनं, हिरीयितब्बानि कायदुच्चरितादीनि हिरीयति जिगुच्छतीति अत्थो. ओत्तप्पनिद्देसे हेत्वत्थे करणवचनं, कायदुच्चरितादीहि ओत्तप्पस्स हेतुभूतेहि ओत्तप्पति भायतीति अत्थो.
आरद्धवीरियोति पग्गहितवीरियो अनोसक्कितमानसो. पहानायाति पहानत्थाय. उपसम्पदायाति पटिलाभत्थाय. थामवाति वीरियथामेन समन्नागतो. दळ्हपरक्कमोति थिरपरक्कमो. अनिक्खित्तधुरो कुसलेसु धम्मेसूति कुसलेसु धम्मेसु अनोरोपितधुरो अनोसक्कितवीरियो.
उदयत्थगामिनियाति पञ्चन्नं खन्धानं उदयवयगामिनिया उदयञ्च वयञ्च पटिविज्झितुं समत्थाय. पञ्ञाय समन्नागतोति विपस्सनापञ्ञाय चेव मग्गपञ्ञाय च समङ्गिभूतो. अरियायाति विक्खम्भनवसेन च समुच्छेदवसेन च किलेसेहि आरका ठिताय परिसुद्धाय. निब्बेधिकायाति सा च अभिनिविज्झनतो निब्बेधिकाति वुच्चति, ताय समन्नागतोति अत्थो. तत्थ मग्गपञ्ञा समुच्छेदवसेन अनिब्बिद्धपुब्बं अप्पदालितपुब्बं लोभक्खन्धं दोसक्खन्धं मोहक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिका, विपस्सनापञ्ञा तदङ्गवसेन निब्बेधिका, मग्गपञ्ञाय पटिलाभसंवत्तनतो तब्बिपस्सना निब्बेधिकाति वत्तुं वट्टति. सम्मा दुक्खक्खयगामिनियाति इधापि मग्गपञ्ञा सम्मा हेतुना नयेन वट्टदुक्खञ्च किलेसदुक्खञ्च खेपयमाना गच्छतीति सम्मा दुक्खक्खयगामिनी नाम, विपस्सनापञ्ञा तदङ्गवसेन वट्टदुक्खञ्च किलेसदुक्खञ्च खेपयमाना गच्छतीति दुक्खक्खयगामिनी. दुक्खक्खयगामिनिया वा मग्गपञ्ञाय पटिलाभाय संवत्तनतोपेसा दुक्खक्खयगामिनीति वेदितब्बा. इति इमस्मिं सुत्ते पञ्च बलानि मिस्सकानेव कथितानि, तथा पञ्चमे.
६. समापत्तिसुत्तवण्णना
६. छट्ठे अकुसलस्स समापत्तीति अकुसलधम्मस्स समापज्जना, तेन सद्धिं समङ्गिभावोति अत्थो. परियुट्ठाय तिट्ठतीति परियोनन्धित्वा तिट्ठति.
७. कामसुत्तवण्णना
७. सत्तमे कामेसु लळिताति वत्थुकामकिलेसकामेसु लळिता अभिरता. असितब्याभङ्गिन्ति तिणलायनअसितञ्चेव तिणवहनकाजञ्च. कुलपुत्तोति आचारकुलपुत्तो. ओहायाति पहाय. अलं वचनायाति युत्तं वचनाय. लब्भाति सुलभा सक्का लभितुं. हीना कामाति पञ्चन्नं नीचकुलानं कामा. मज्झिमा कामाति मज्झिमसत्तानं कामा. पणीता कामाति राजराजमहामत्तानं कामा. कामात्वेव सङ्खं गच्छन्तीति कामनवसेन कामेतब्बवसेन च कामाइच्चेव सङ्खं गच्छन्ति. वुद्धो होतीति महल्लको होति. अलंपञ्ञोति युत्तपञ्ञो. अत्तगुत्तोति अत्तनाव गुत्तो रक्खितो, अत्तानं वा गोपेतुं रक्खितुं समत्थो. नालं पमादायाति न युत्तो पमज्जितुं. सद्धाय अकतं होतीति यं सद्धाय कुसलेसु धम्मेसु कातुं युत्तं, तं न कतं होति. सेसपदेसुपि एसेव नयो. अनपेक्खो दानाहं, भिक्खवे, तस्मिं भिक्खुस्मिं होमीति एवं सद्धादीहि कातब्बं कत्वाव सोतापत्तिफले पतिट्ठिते तस्मिं पुग्गले अनपेक्खो होमीति दस्सेति. इमस्मिं सुत्ते सोतापत्तिमग्गो कथितो.
८. चवनसुत्तवण्णना
८. अट्ठमे सद्धम्मेति सासनसद्धम्मे. अस्सद्धोति ओकप्पनसद्धाय च पक्खन्दनसद्धाय चाति द्वीहिपि सद्धाहि विरहितो. चवति नप्पतिट्ठातीति इमस्मिं सासने गुणेहि चवति, पतिट्ठातुं न सक्कोति. इति इमस्मिं सुत्ते अप्पतिट्ठानञ्च पतिट्ठानञ्च कथितं.
९. पठमअगारवसुत्तवण्णना
९. नवमे नास्स गारवोति अगारवो. नास्स पतिस्सोति अप्पतिस्सो, अजेट्ठको अनीचवुत्ति. सेसमेत्थ पुरिमसदिसमेव.
१०. दुतियअगारवसुत्तवण्णना
१०. दसमे अभब्बोति अभाजनं. वुद्धिन्ति वड्ढिं. विरूळ्हिन्ति विरूळ्हमूलताय निच्चलभावं. वेपुल्लन्ति महन्तभावं. सेसं सब्बत्थ उत्तानमेवाति.
सेखबलवग्गो पठमो.
२. बलवग्गो
१. अननुस्सुतसुत्तवण्णना
११. दुतियस्स पठमे पुब्बाहं, भिक्खवे, अननुस्सुतेसु धम्मेसूति अहं, भिक्खवे, पुब्बे अननुस्सुतेसु चतूसु सच्चधम्मेसु. अभिञ्ञावोसानपारमिप्पत्तो पटिजानामीति चतूसु सच्चेसु चतूहि मग्गेहि सोळसविधस्स किच्चस्स करणेन अभिजानित्वा वोसानपारमिं सब्बेसं किच्चानं निट्ठितत्ता कतकिच्चभावं पारं पत्तो पटिजानामीति महाबोधिपल्लङ्के अत्तनो आगमनीयगुणं दस्सेति. तथागतस्साति अट्ठहि कारणेहि तथागतस्स. तथागतबलानीति यथा तेहि गन्तब्बं, तथेव गतानि पवत्तानि ञाणबलानि. आसभं ठानन्ति सेट्ठट्ठानं. सीहनादन्ति अभीतनादं. ब्रह्मचक्कन्ति सेट्ठचक्कं. पवत्तेतीति कथेति.
२. कूटसुत्तवण्णना
१२. दुतिये सेखबलानीति सेखानं ञाणबलानि. अग्गन्ति उत्तमं. सेसबलानि गोपानसियो कूटं विय सङ्गण्हातीति सङ्गाहिकं. तानेव बलानि संहतानि करोतीति सङ्घातनियं.
३. संखित्तसुत्तवण्णना
१३. ततिये तत्थ मुट्ठस्सच्चे न कम्पतीति सतिबलं. उद्धच्चे न कम्पतीति समाधिबलं.
४. वित्थतसुत्तवण्णना
१४. चतुत्थे सतिनेपक्केनाति एत्थ नेपक्कं वुच्चति पञ्ञा, सा सतिया उपकारकभावेन गहिता.
५. दट्ठब्बसुत्तवण्णना
१५. पञ्चमे सविसयस्मिंयेव लोकियलोकुत्तरधम्मे कथेतुं कत्थ च, भिक्खवे, सद्धाबलं दट्ठब्बन्तिआदिमाह. यथा हि चत्तारो सेट्ठिपुत्ता, राजाति राजपञ्चमेसु सहायेसु ‘‘नक्खत्तं कीळिस्सामा’’ति वीथिं ओतिण्णेसु एकस्स सेट्ठिपुत्तस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति. दुतियततियचतुत्थस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति. अथ सब्बपच्छा रञ्ञो गेहं गतकाले किञ्चापि राजा सब्बत्थ इस्सरो, इमस्मिं पन काले अत्तनो गेहेयेव ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति विचारेति, एवमेवं सद्धापञ्चमेसु बलेसु तेसु सहायेसु एकतो वीथिं ओतरन्तेसु विय एकारम्मणे उप्पज्जमानेसुपि यथा पठमस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सोतापत्तियङ्गानि पत्वा अधिमोक्खलक्खणं सद्धाबलमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा दुतियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सम्मप्पधानानि पत्वा पग्गहलक्खणं वीरियबलमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा ततियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सतिपट्ठानानि पत्वा उपट्ठानलक्खणं सतिबलमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा चतुत्थस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं झानविमोक्खे पत्वा अविक्खेपलक्खणं समाधिबलमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. सब्बपच्छा रञ्ञो गेहं गतकाले पन यथा इतरे चत्तारो तुण्ही निसीदन्ति, राजाव गेहे विचारेति, एवमेव अरियसच्चानि पत्वा पजाननलक्खणं पञ्ञाबलमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्तीति एवमिध पञ्च बलानि मिस्सकानि कथितानि. छट्ठं उत्तानत्थमेव. एवं पुरिमवग्गे च इध च अट्ठसु सुत्तेसु सेखबलानेव कथितानि. करण्डकोलवासी महादत्तत्थेरो पनाह – ‘‘हेट्ठा चतूसु सुत्तेसु सेखबलानि कथितानि, उपरि चतूसु असेखबलानी’’ति.
७. पठमहितसुत्तवण्णना
१७. सत्तमे सीलादयो मिस्सकाव कथिता. विमुत्तीति अरहत्तफलविमुत्तियेव. विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं, तं लोकियमेव.
८-१०. दुतियहितसुत्तादिवण्णना
१८-२०. अट्ठमे दुस्सीलो बहुस्सुतो कथितो, नवमे अप्पस्सुतो दुस्सीलो, दसमे बहुस्सुतो खीणासवोति.
बलवग्गो दुतियो.
३. पञ्चङ्गिकवग्गो
१. पठमअगारवसुत्तवण्णना
२१. ततियस्स पठमे असभागवुत्तिकोति असभागाय विसदिसाय जीवितवुत्तिया समन्नागतो. आभिसमाचारिकं धम्मन्ति उत्तमसमाचारभूतं वत्तवसेन पञ्ञत्तसीलं. सेखं धम्मन्ति सेखपण्णत्तिसीलं. सीलानीति चत्तारि महासीलानि. सम्मादिट्ठिन्ति विपस्सनासम्मादिट्ठिं. सम्मासमाधिन्ति मग्गसमाधिञ्चेव फलसमाधिञ्च. इमस्मिं सुत्ते सीलादीनि मिस्सकानि कथितानि.
२. दुतियअगारवसुत्तवण्णना
२२. दुतिये सीलक्खन्धन्ति सीलरासिं. सेसद्वयेपि एसेव नयो. इमे पन तयोपि खन्धा मिस्सकाव कथिताति.
३. उपक्किलेससुत्तवण्णना
२३. ततिये न च पभस्सरन्ति न च पभावन्तं. पभङ्गु चाति पभिज्जनसभावं. अयोति काळलोहं. लोहन्ति ठपेत्वा इध वुत्तानि चत्तारि अवसेसं लोहं. सज्झन्ति रजतं. चित्तस्साति चातुभूमककुसलचित्तस्स. तेभूमकस्स ताव उपक्किलेसा होन्तु, लोकुत्तरस्स कथं होन्तीति? उप्पज्जितुं अप्पदानेन. यदग्गेन हि उप्पज्जितुं न देन्ति, तदग्गेनेव ते लोकियस्सपि लोकुत्तरस्सपि उपक्किलेसा नाम होन्ति. पभङ्गु चाति आरम्मणे चुण्णविचुण्णभावूपगमनेन भिज्जनसभावं. सम्मा समाधियति आसवानं खयायाति आसवानं खयसङ्खातस्स अरहत्तस्स अत्थाय हेतुना कारणेन समाधियति. एत्तावता चित्तं विसोधेत्वा अरहत्ते पतिट्ठितं खीणासवं दस्सेति. इदानिस्स अभिञ्ञापटिवेधं दस्सेन्तो यस्स यस्स चातिआदिमाह. तं उत्तानत्थमेवाति.
४. दुस्सीलसुत्तवण्णना
२४. चतुत्थे हतूपनिसोति हतउपनिस्सयो हतकारणो. यथाभूतञाणदस्सनन्ति नामरूपपरिच्छेदञाणं आदिं कत्वा तरुणविपस्सना. निब्बिदाविरागोति निब्बिदा च विरागो च. तत्थ निब्बिदा बलवविपस्सना, विरागो मग्गो. विमुत्तिञाणदस्सनन्ति फलविमुत्ति च पच्चवेक्खणञाणञ्च.
५. अनुग्गहितसुत्तवण्णना
२५. पञ्चमे सम्मादिट्ठीति विपस्सनासम्मादिट्ठि. चेतोविमुत्तिफलातिआदीसु चेतोविमुत्तीति मग्गफलसमाधि. पञ्ञाविमुत्तीति फलञाणं. सीलानुग्गहिताति सीलेन अनुग्गहिता अनुरक्खिता. सुतानुग्गहिताति बाहुसच्चेन अनुग्गहिता. साकच्छानुग्गहिताति धम्मसाकच्छाय अनुग्गहिता. समथानुग्गहिताति चित्तेकग्गताय अनुग्गहिता.
इमस्स पनत्थस्स आविभावत्थं मधुरम्बबीजं रोपेत्वा समन्ता मरियादं बन्धित्वा कालानुकालं उदकं आसिञ्चित्वा कालानुकालं मूलानि सोधेत्वा कालानुकालं पतितपाणके हारेत्वा कालानुकालं मक्कटजालं लुञ्चित्वा अम्बं पटिजग्गन्तो पुरिसो दस्सेतब्बो. तस्स हि पुरिसस्स मधुरम्बबीजरोपनं विय विपस्सनासम्मादिट्ठि दट्ठब्बा, मरियादबन्धनं विय सीलेन अनुग्गण्हनं, उदकासेचनं विय सुतेन अनुग्गण्हनं, मूलपरिसोधनं विय साकच्छाय अनुग्गण्हनं, पाणकहरणं विय झानविपस्सनापारिपन्थिकसोधनवसेन समथानुग्गण्हनं, मक्कटजाललुञ्चनं विय बलवविपस्सनानुग्गण्हनं, एवं अनुग्गहितस्स रुक्खस्स खिप्पमेव वड्ढित्वा फलप्पदानं विय इमेहि सीलादीहि अनुग्गहिताय मूलसम्मादिट्ठिया खिप्पमेव मग्गवसेन वड्ढित्वा चेतोविमुत्तिपञ्ञाविमुत्तिफलप्पदानं वेदितब्बं.
६. विमुत्तायतनसुत्तवण्णना
२६. छट्ठे विमुत्तायतनानीति विमुच्चनकारणानि. यत्थाति येसु विमुत्तायतनेसु. सत्था धम्मं देसेतीति चतुसच्चधम्मं देसेति. अत्थपटिसंवेदिनोति पाळिअत्थं जानन्तस्स. धम्मपटिसंवेदिनोति पाळिं जानन्तस्स. पामोज्जन्ति तरुणपीति. पीतीति तुट्ठाकारभूता बलवपीति. कायोति नामकायो. पस्सम्भतीति पटिप्पस्सम्भति. सुखं वेदेतीति सुखं पटिलभति. चित्तं समाधियतीति अरहत्तफलसमाधिना समाधियति. अयञ्हि तं धम्मं सुणन्तो आगतागतट्ठाने झानविपस्सनामग्गफलानि जानाति, तस्स एवं जानतो पीति उप्पज्जति. सो तस्सा पीतिया अन्तरा ओसक्कितुं न देन्तो उपचारकम्मट्ठानिको हुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणाति. तं सन्धाय वुत्तं – ‘‘चित्तं समाधियती’’ति. सेसेसुपि एसेव नयो. अयं पन विसेसो – समाधिनिमित्तन्ति अट्ठतिंसाय आरम्मणेसु अञ्ञतरो समाधियेव समाधिनिमित्तं. सुग्गहितं होतीतिआदिसु आचरियस्स सन्तिके कम्मट्ठानं उग्गण्हन्तेन सुट्ठु गहितं होति सुट्ठु मनसिकतं सुट्ठु उपधारितं. सुप्पटिविद्धं पञ्ञायाति पञ्ञाय सुट्ठु पच्चक्खं कतं. तस्मिं धम्मेति तस्मिं कम्मट्ठानपाळिधम्मे. इति इमस्मिं सुत्ते पञ्चपि विमुत्तायतनानि अरहत्तं पापेत्वा कथितानीति.
७. समाधिसुत्तवण्णना
२७. सत्तमे अप्पमाणन्ति पमाणकरधम्मरहितं लोकुत्तरं. निपका पतिस्सताति नेपक्केन च सतिया च समन्नागता हुत्वा. पञ्च ञाणानीति पञ्च पच्चवेक्खणञाणानि. पच्चत्तञ्ञेव उप्पज्जन्तीति अत्तनियेव उप्पज्जन्ति. अयं समाधि पच्चुप्पन्नसुखो चेवातिआदीसु अरहत्तफलसमाधि अधिप्पेतो. मग्गसमाधीतिपि वदन्तियेव. सो हि अप्पितप्पितक्खणे सुखत्ता पच्चुप्पन्नसुखो, पुरिमो पुरिमो पच्छिमस्स पच्छिमस्स समाधिसुखस्स पच्चयत्ता आयतिं सुखविपाको, किलेसेहि आरकत्ता अरियो, कामामिसवट्टामिसलोकामिसानं अभावा निरामिसो. बुद्धादीहि महापुरिसेहि सेवितत्ता अकापुरिससेवितो. अङ्गसन्तताय आरम्मणसन्तताय सब्बकिलेसदरथसन्तताय च सन्तो, अतप्पनियट्ठेन पणीतो. किलेसप्पटिप्पस्सद्धिया लद्धत्ता किलेसप्पटिप्पस्सद्धिभावं वा लद्धत्ता पटिप्पस्सद्धलद्धो. पटिप्पस्सद्धं पटिप्पस्सद्धीति हि इदं अत्थतो एकं. पटिप्पस्सद्धकिलेसेन वा अरहता लद्धत्तापि पटिप्पस्सद्धलद्धो, एकोदिभावेन अधिगतत्ता एकोदिभावमेव वा अधिगतत्ता एकोदिभावाधिगतो. अप्पगुणसासवसमाधि विय ससङ्खारेन सप्पयोगेन चित्तेन पच्चनीकधम्मे निग्गय्ह किलेसे वारेत्वा अनधिगतत्ता न ससङ्खारनिग्गय्हवारितगतो. तं समाधिं समापज्जन्तो ततो वा वुट्ठहन्तो सतिवेपुल्लप्पत्तत्ता सतोव समापज्जति, सतोव वुट्ठहति. यथापरिच्छिन्नकालवसेन वा सतो समापज्जति, सतो वुट्ठहति. तस्मा यदेत्थ ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको चा’’ति एवं पच्चवेक्खमानस्स पच्चत्तंयेव अपरप्पच्चयञाणं उप्पज्जति, तं एकं ञाणं. एसेव नयो सेसेसु. एवं इमानि पञ्च ञाणानि पच्चत्तञ्ञेव उप्पज्जन्तीति.
८. पञ्चङ्गिकसुत्तवण्णना
२८. अट्ठमे अरियस्साति विक्खम्भनवसेन पहीनकिलेसेहि आरका ठितस्स. भावनं देसेस्सामीति ब्रूहनं वड्ढनं पकासयिस्सामि. इममेव कायन्ति इमं करजकायं. अभिसन्देतीति तेमेति स्नेहेति, सब्बत्थ पवत्तपीतिसुखं करोति. परिसन्देतीति समन्ततो सन्देति. परिपूरेतीति वायुना भस्तं विय पूरेति. परिप्फरतीति समन्ततो फुसति. सब्बावतो कायस्साति अस्स भिक्खुनो सब्बकोट्ठासवतो कायस्स किञ्चि उपादिन्नकसन्ततिपवत्तिट्ठाने छविमंसलोहितानुगतं अणुमत्तम्पि ठानं पठमज्झानसुखेन अफुटं नाम न होति.
दक्खोति छेको पटिबलो न्हानीयचुण्णानि कातुञ्चेव योजेतुञ्च सन्नेतुञ्च. कंसथालेति येन केनचि लोहेन कतभाजने. मत्तिकाभाजनं पन थिरं न होति, सन्नेन्तस्स भिज्जति. तस्मा तं न दस्सेसि. परिप्फोसकं परिप्फोसकन्ति सिञ्चित्वा सिञ्चित्वा. सन्नेय्याति वामहत्थेन कंसथालं गहेत्वा दक्खिणहत्थेन पमाणयुत्तं उदकं सिञ्चित्वा सिञ्चित्वा परिमद्दन्तो पिण्डं करेय्य. स्नेहानुगताति उदकसिनेहेन अनुगता. स्नेहपरेताति उदकसिनेहेन परिग्गहिता. सन्तरबाहिराति सद्धिं अन्तोपदेसेन चेव बहिपदेसेन च, सब्बत्थकमेव उदकसिनेहेन फुटाति अत्थो. न च पग्घरिणीति न बिन्दु बिन्दु उदकं पग्घरति, सक्का होति हत्थेनपि द्वीहिपि अङ्गुलीहि गहेतुं ओवट्टिकायपि कातुन्ति अत्थो.
दुतियज्झानसुखउपमायं उब्भिदोदकोति उब्भिन्नउदको, न हेट्ठा उब्भिज्जित्वा उग्गच्छनउदको, अन्तोयेव पन उप्पज्जनउदकोति अत्थो. आयमुखन्ति आगमनमग्गो. देवोति मेघो. कालेन कालन्ति काले काले, अन्वड्ढमासं वा अनुदसाहं वाति अत्थो. धारन्ति वुट्ठिं. नानुप्पवेच्छेय्याति नप्पवेसेय्य, न वस्सेय्याति अत्थो. सीता वारिधारा उब्भिज्जित्वाति सीता वारिधारा तं रहदं पूरयमाना उब्भिज्जित्वा. हेट्ठा उग्गच्छनउदकञ्हि उग्गन्त्वा भिज्जन्तं उदकं खोभेति, चतूहि दिसाहि पविसनउदकं पुराणपण्णतिणकट्ठदण्डकादीहि उदकं खोभेति. वुट्ठिउदकं धारानिपातबुब्बुळकेहि उदकं खोभेति, सन्निसिन्नमेव पन हुत्वा इद्धिनिम्मितमिव उप्पज्जमानं उदकं इमं पदेसं फरति, इमं न फरतीति नत्थि. तेन अफुटोकासो नाम न होति. तत्थ रहदो विय करजकायो, उदकं विय दुतियज्झानसुखं, सेसं पुरिमनयेनेव वेदितब्बं.
ततियज्झानसुखउपमायं उप्पलानि एत्थ सन्तीति उप्पलिनी. सेसपदद्वयेपि एसेव नयो. एत्थ च सेतरत्तनीलेसु यंकिञ्चि उप्पलमेव, ऊनकसतपत्तं पुण्डरीकं, सतपत्तं पदुमं. पत्तनियमं वा विनापि सेतं पदुमं, रत्तं पुण्डरीकन्ति अयमेत्थ विनिच्छयो. उदकानुग्गतानीति उदकतो न उग्गतानि. अन्तोनिमुग्गपोसीनीति उदकतलस्स अन्तो निमुग्गानियेव हुत्वा पोसन्ति वड्ढन्तीति अत्थो. सेसं पुरिमनयेनेव वेदितब्बं.
चतुत्थज्झानउपमायं परिसुद्धेन चेतसा परियोदातेनाति एत्थ निरुपक्किलेसट्ठेन परिसुद्धं, पभस्सरट्ठेन परियोदातं वेदितब्बं. ओदातेन वत्थेनाति इदं उतुफरणत्थं वुत्तं. किलिट्ठवत्थेन हि उतुफरणं न होति, तङ्खणधोतपरिसुद्धेन उतुफरणं बलवं होति. इमिस्सा हि उपमाय वत्थं विय करजकायो, उतुफरणं विय चतुत्थज्झानसुखं. तस्मा यथा सुन्हातस्स पुरिसस्स परिसुद्धं वत्थं ससीसं पारुपित्वा निसिन्नस्स सरीरतो उतु सब्बमेव वत्थं फरति, न कोचि वत्थस्स अफुटोकासो होति, एवं चतुत्थज्झानसुखेन भिक्खुनो करजकायस्स न कोचि ओकासो अफुटो होतीति एवमेत्थ अत्थो दट्ठब्बो. चतुत्थज्झानचित्तमेव वा वत्थं विय, तंसमुट्ठानरूपं उतुफरणं विय. यथा हि कत्थचि कत्थचि ओदातवत्थे कायं अफुसन्तेपि तंसमुट्ठानेन उतुना सब्बत्थकमेव कायो फुटो होति, एवं चतुत्थज्झानसमुट्ठापितेन सुखुमरूपेन सब्बत्थकमेव भिक्खुनो कायो फुटो होतीति एवमेत्थ अत्थो दट्ठब्बो.
पच्चवेक्खणनिमित्तन्ति पच्चवेक्खणञाणमेव. सुग्गहितं होतीति यथा तेन झानविपस्सनामग्गा सुट्ठु गहिता होन्ति, एवं पच्चवेक्खणनिमित्तं अपरापरेन पच्चवेक्खणनिमित्तेन सुट्ठु गहितं होति. अञ्ञो वा अञ्ञन्ति अञ्ञो एको अञ्ञं एकं, अत्तनोयेव हि अत्ता न पाकटो होति. ठितो वा निसिन्नन्ति ठितकस्सापि निसिन्नो पाकटो होति, तेनेवं वुत्तं. सेसेसुपि एसेव नयो. उदकमणिकोति समेखला उदकचाटि. समतित्तिकोति समभरितो. काकपेय्याति मुखवट्टियं निसीदित्वा काकेन गीवं अनामेत्वाव पातब्बो.
सुभूमियन्ति समभूमियं. ‘‘सुभूमे सुखेत्ते विहतखाणुके बीजानि पतिट्ठापेय्या’’ति (दी. नि. २.४३८) एत्थ पन मण्डभूमि सुभूमीति आगता. चतुमहापथेति द्विन्नं महामग्गानं विनिविज्झित्वा गतट्ठाने. आजञ्ञरथोति विनीतअस्सरथो. ओधस्तपतोदोति यथा रथं अभिरुहित्वा ठितेन सक्का होति गण्हितुं, एवं आलम्बनं निस्साय तिरियतो ठपितपतोदो. योग्गाचरियोति अस्साचरियो. स्वेव अस्सदम्मे सारेतीति अस्सदम्मसारथि. येनिच्छकन्ति येन येन मग्गेन इच्छति. यदिच्छकन्ति यं यं गतिं इच्छति. सारेय्याति उजुकं पुरतो पेसेय्य. पच्चासारेय्याति पटिनिवत्तेय्य.
एवं हेट्ठा पञ्चहि अङ्गेहि समापत्तिपरिकम्मं कथेत्वा इमाहि तीहि उपमाहि पगुणसमापत्तिया आनिसंसं दस्सेत्वा इदानि खीणासवस्स अभिञ्ञापटिपाटिं दस्सेतुं सो सचे आकङ्खतीतिआदिमाह. तं उत्तानत्थमेवाति.
९. चङ्कमसुत्तवण्णना
२९. नवमे अद्धानक्खमो होतीति दूरं अद्धानमग्गं गच्छन्तो खमति, अधिवासेतुं सक्कोति. पधानक्खमोति वीरियक्खमो. चङ्कमाधिगतो समाधीति चङ्कमं अधिट्ठहन्तेन अधिगतो अट्ठन्नं समापत्तीनं अञ्ञतरसमाधि. चिरट्ठितिको होतीति चिरं तिट्ठति. ठितकेन गहितनिमित्तञ्हि निसिन्नस्स नस्सति, निसिन्नेन गहितनिमित्तं निपन्नस्स. चङ्कमं अधिट्ठहन्तेन चलितारम्मणे गहितनिमित्तं पन ठितस्सपि निसिन्नस्सपि निपन्नस्सपि न नस्सतीति.
१०. नागितसुत्तवण्णना
३०. दसमे उद्धं उग्गतत्ता उच्चो, रासिभावेन च महा सद्दो एतेसन्ति उच्चासद्दमहासद्दा. तेसु हि उग्गतुग्गतेसु खत्तियमहासाल-ब्राह्मणमहासालादीसु महासक्कारं गहेत्वा आगतेसु ‘‘असुकस्स ओकासं देथ, असुकस्स ओकासं देथा’’ति वुत्ते ‘‘मयं पठमतरं आगता, मय्हं पठमतरं आगता, नत्थि ओकासो’’ति एवं अञ्ञमञ्ञं कथेन्तानं सद्दो उच्चो चेव महा च अहोसि. केवट्टा मञ्ञे मच्छविलोपेति केवट्टा विय मच्छविलोपे. तेसञ्हि मच्छपच्छिं गहेत्वा आगतानं विक्किणनट्ठाने ‘‘मय्हं देथ मय्हं देथा’’ति वदतो महाजनस्स एवरूपो सद्दो होति. मीळ्हसुखन्ति असुचिसुखं. मिद्धसुखन्ति निद्दासुखं. लाभसक्कारसिलोकसुखन्ति लाभसक्कारञ्चेव वण्णभणनञ्च निस्साय उप्पन्नसुखं.
तंनिन्नाव गमिस्सन्तीति तं तदेव भगवतो गतट्ठानं गमिस्सन्ति, अनुबन्धिस्सन्तियेवाति वुत्तं होति. तथा हि, भन्ते, भगवतो सीलपञ्ञाणन्ति यस्मा तथाविधं तुम्हाकं सीलञ्च ञाणञ्चाति अत्थो. मा च मया यसोति मया सद्धिं यसोपि मा समागच्छतु. पियानन्ति पियजनानं. एसो तस्स निस्सन्दोति एसा पियभावस्स निप्फत्ति. असुभनिमित्तानुयोगन्ति असुभकम्मट्ठानानुयोगं. सुभनिमित्तेति रागट्ठानिये इट्ठारम्मणे. एसो तस्स निस्सन्दोति एसा तस्स असुभनिमित्तानुयोगस्स निप्फत्ति. एवमिमस्मिं सुत्ते इमेसु पञ्चसु ठानेसु विपस्सनाव कथिताति.
पञ्चङ्गिकवग्गो ततियो.
४. सुमनवग्गो
१. सुमनसुत्तवण्णना
३१. चतुत्थस्स पठमे सुमना राजकुमारीति महासक्कारं कत्वा पत्थनं पत्थेत्वा एवं लद्धनामा राजकञ्ञा. विपस्सिसम्मासम्बुद्धकालस्मिं हि नागरेसु ‘‘युद्धम्पि कत्वा सत्थारं अम्हाकं गण्हिस्सामा’’ति सेनापतिं निस्साय बुद्धप्पमुखं सङ्घं लभित्वा पटिपाटिया पुञ्ञानि कातुं आरद्धेसु सब्बपठमदिवसो सेनापतिस्स वारो अहोसि. तस्मिं दिवसे सेनापति महादानं सज्जेत्वा ‘‘अज्ज यथा अञ्ञो कोचि एकभिक्खम्पि न देति, एवं रक्खथा’’ति समन्ता पुरिसे ठपेसि. तंदिवसं सेट्ठिभरिया रोदमाना पञ्चहि कुमारिकासतेहि सद्धिं कीळित्वा आगतं धीतरं आह – ‘‘सचे, अम्म, तव पिता जीवेय्य, अज्जाहं पठमं दसबलं भोजेय्य’’न्ति. सा तं आह – ‘‘अम्म, मा चिन्तयि, अहं तथा करिस्सामि, यथा बुद्धप्पमुखो सङ्घो अम्हाकं पठमं भिक्खं भुञ्जिस्सती’’ति. ततो सतसहस्सग्घनिकाय सुवण्णपातिया निरुदकपायासं पूरेत्वा सप्पिमधुसक्खरादीहि अभिसङ्खरित्वा अञ्ञिस्सा पातिया पटिकुज्जित्वा तं सुमनमालागुळेहि परिक्खिपित्वा मालागुळसदिसं कत्वा भगवतो गामं पविसनवेलाय सयमेव उक्खिपित्वा धातिगणपरिवुता घरा निक्खमि.
अन्तरामग्गे सेनापतिनो उपट्ठाका, ‘‘अम्म, मा इतो आगमा’’ति वदन्ति. महापुञ्ञा नाम मनापकथा होन्ति, न च तेसं पुनप्पुनं भणन्तानं कथा पटिक्खिपितुं सक्का होति. सा ‘‘चूळपित, महापित, मातुल, किस्स तुम्हे गन्तुं न देथा’’ति आह. सेनापतिना ‘‘अञ्ञस्स कस्सचि खादनीयं भोजनीयं मा देथा’’ति ठपितम्ह, अम्माति. किं पन मम हत्थे खादनीयं भोजनीयं पस्सथाति? मालागुळं पस्सामाति. किं तुम्हाकं सेनापति मालापूजम्पि कातुं न देतीति? देति, अम्माति. तेन हि अपेथाति भगवन्तं उपसङ्कमित्वा ‘‘मालागुळं गण्हथ भगवा’’ति आह. भगवा एकं सेनापतिस्स उपट्ठाकं ओलोकेत्वा मालागुळं गण्हापेसि. सा भगवन्तं वन्दित्वा ‘‘भवाभवाभिनिब्बत्तियं मे सति परितस्सनजीवितं नाम मा होतु, अयं सुमनमाला विय निब्बत्तनिब्बत्तट्ठाने पियाव होमि, नामेन च सुमनायेवा’’ति पत्थनं कत्वा सत्थारा ‘‘सुखिनी होही’’ति वुत्ता वन्दित्वा पदक्खिणं कत्वा पक्कामि.
भगवापि सेनापतिस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि. सेनापति यागुं गहेत्वा उपगञ्छि, सत्था हत्थेन पत्तं पिदहि. निसिन्नो, भन्ते, भिक्खुसङ्घोति. अत्थि नो एको अन्तरामग्गे पिण्डपातो लद्धोति? मालं अपनेत्वा पिण्डपातं अद्दस. चूळुपट्ठाको आह – ‘‘सामि मालाति मं वत्वा मातुगामो वञ्चेसी’’ति. पायासो भगवन्तं आदिं कत्वा सब्बभिक्खूनं पहोसि. सेनापति अत्तनो देय्यधम्मं अदासि. सत्था भत्तकिच्चं कत्वा मङ्गलं वत्वा पक्कामि. सेनापति ‘‘का नाम सा पिण्डपातमदासी’’ति पुच्छि. सेट्ठिधीता सामीति. सप्पञ्ञा इत्थी, एवरूपाय घरे वसन्तिया पुरिसस्स सग्गसम्पत्ति नाम न दुल्लभाति कं आनेत्वा जेट्ठकट्ठाने ठपेसि?
सा पितुगेहे च सेनापतिगेहे च धनं गहेत्वा यावतायुकं तथागतस्स दानं दत्वा पुञ्ञानि करित्वा ततो चुता कामावचरदेवलोके निब्बत्ति. निब्बत्तक्खणेयेव जाणुप्पमाणेन ओधिना सकलं देवलोकं परिपूरयमानं सुमनवस्सं वस्सि. देवता ‘‘अयं अत्तनाव अत्तनो नामं गहेत्वा आगता’’ति ‘‘सुमना देवधीता’’त्वेवस्सा नामं अकंसु. सा एकनवुतिकप्पे देवेसु च मनुस्सेसु च संसरन्ती निब्बत्तनिब्बत्तट्ठाने अविजहितसुमनवस्सा ‘‘सुमना सुमना’’त्वेव नामा अहोसि. इमस्मिं पन काले कोसलरञ्ञो अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गण्हि. तापि पञ्चसता कुमारिका तंदिवसञ्ञेव तस्मिं तस्मिं कुले पटिसन्धिं गहेत्वा एकदिवसेयेव सब्बा मातुकुच्छितो निक्खमिंसु. तंखणंयेव जाणुप्पमाणेन ओधिना सुमनवस्सं वस्सि. तं दिस्वा राजा ‘‘पुब्बे कताभिनीहारा एसा भविस्सती’’ति तुट्ठमानसो ‘‘धीता मे अत्तनाव अत्तनो नामं गहेत्वा आगता’’ति सुमनात्वेवस्सा नामं कत्वा ‘‘मय्हं धीता न एकिकाव निब्बत्तिस्सती’’ति नगरं विचिनापेन्तो ‘पञ्च दारिकासतानि जातानी’’ति सुत्वा सब्बा अत्तनाव पोसापेसि. मासे मासे सम्पते ‘‘आनेत्वा मम धीतु दस्सेथा’’ति आह. एवमेसा महासक्कारं कत्वा पत्थनं पत्थेत्वा एवंलद्धनामाति वेदितब्बा.
तस्सा सत्तवस्सिककाले अनाथपिण्डिकेन विहारं निट्ठापेत्वा तथागतस्स दूते पेसिते सत्था भिक्खुसङ्घपरिवारो सावत्थिं अगमासि. अनाथपिण्डिको गन्त्वा राजानं एवमाह – ‘‘महाराज, सत्थु इधागमनं अम्हाकम्पि मङ्गलं तुम्हाकम्पि मङ्गलमेव, सुमनं राजकुमारिं पञ्चहि दारिकासतेहि सद्धिं पुण्णघटे च गन्धमालादीनि च गाहापेत्वा दसबलस्स पच्चुग्गमनं पेसेथा’’ति. राजा ‘‘साधु महासेट्ठी’’ति तथा अकासि. सापि रञ्ञा वुत्तनयेनेव गन्त्वा सत्थारं वन्दित्वा गन्धमालादीहि पूजेत्वा एकमन्तं अट्ठासि. सत्था तस्सा धम्मं देसेसि. सा पञ्चहि कुमारिकासतेहि सद्धिं सोतापत्तिफले पतिट्ठासि. अञ्ञानिपि पञ्च दारिकासतानि पञ्च मातुगामसतानि पञ्च उपासकसतानि तस्मिंयेव खणे सोतापत्तिफलं पापुणिंसु. एवं तस्मिं दिवसे अन्तरामग्गेयेव द्वे सोतापन्नसहस्सानि जातानि.
येन भगवा तेनुपसङ्कमीति कस्मा उपसङ्कमीति? पञ्हं पुच्छितुकामताय. कस्सपसम्मासम्बुद्धकाले किर सहायका द्वे भिक्खू अहेसुं. तेसु एको सारणीयधम्मं पूरेति, एको भत्तग्गवत्तं. सारणीयधम्मपूरको इतरं आह – ‘‘आवुसो, अदिन्नस्स फलं नाम नत्थि, अत्तना लद्धं परेसं दत्वा भुञ्जितुं वट्टती’’ति. इतरो पन आह – ‘‘आवुसो, त्वं न जानासि, देय्यधम्मं नाम विनिपातेतुं न वट्टति, अत्तनो यापनमत्तमेव गण्हन्तेन भत्तग्गवत्तं पूरेतुं वट्टती’’ति. तेसु एकोपि एकं अत्तनो ओवादे ओतारेतुं नासक्खि. द्वेपि अत्तनो पटिपत्तिं पूरेत्वा ततो चुता कामावचरदेवलोके निब्बत्तिंसु. तत्थ सारणीयधम्मपूरको इतरं पञ्चहि धम्मेहि अधिगण्हि.
एवं ते देवेसु च मनुस्सेसु च संसरन्ता एकं बुद्धन्तरं खेपेत्वा इमस्मिं काले सावत्थियं निब्बत्तिंसु. सारणीयधम्मपूरको कोसलरञ्ञो अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गण्हि, इतरो तस्सायेव उपट्ठाकइत्थिया कुच्छिस्मिं पटिसन्धिं गण्हि. ते द्वेपि जना एकदिवसेनेव जायिंसु. ते नामग्गहणदिवसे न्हापेत्वा सिरिगब्भे निपज्जापेत्वा द्विन्नम्पि मातरो बहि सक्कारं संविदहिंसु. तेसु सारणीयधम्मपूरको अक्खीनि उम्मीलेत्वा महन्तं सेतच्छत्तं सुपञ्ञत्तं सिरिसयनं अलङ्कतपटियत्तञ्च निवेसनं दिस्वा ‘‘एकस्मिं राजकुले निब्बत्तोस्मी’’ति अञ्ञासि. सो ‘‘किं नु खो कम्मं कत्वा इध निब्बत्तोस्मी’’ति आवज्जेन्तो ‘‘सारणीयधम्मनिस्सन्देना’’ति ञत्वा ‘‘सहायो मे कुहिं नु खो निब्बत्तो’’ति आवज्जेन्तो नीचसयने निपन्नं दिस्वा ‘‘अयं भत्तग्गवत्तं पूरेमीति मम वचनं न गण्हि, इमस्मिं इदानि तं ठाने निग्गण्हितुं वट्टती’’ति ‘‘सम्म मम वचनं नाकासी’’ति आह. अथ किं जातन्ति. पस्स मय्हं सम्पत्तिं, सेतच्छत्तस्स हेट्ठा सिरिसयने निपन्नोस्मि, त्वं नीचमञ्चे थद्धअत्थरणमत्ते निपन्नोसीति. किं पन त्वं एतं निस्साय मानं करोसि, ननु वेळुसलाकाहि कत्वा पिलोतिकाय पलिवेठितं सब्बमेतं पथवीधातुमत्तमेवाति?
सुमना तेसं कथं सुत्वा ‘‘मम भातिकानं सन्तिके कोचि नत्थी’’ति तेसं समीपं गच्छन्ती द्वारं निस्साय ठिता ‘‘धातू’’ति वचनं सुत्वा ‘‘इदं धातूति वचनं बहिद्धा नत्थि. मम भातिका समणदेवपुत्ता भविस्सन्ती’’ति चिन्तेत्वा – ‘‘सचाहं ‘इमे एवं कथेन्ती’ति मातापितूनं कथेस्सामि, ‘अमनुस्सा एते’ति नीहरापेस्सन्ति. इदं कारणं अञ्ञस्स अकथेत्वा कङ्खच्छेदकं पुरिसहेरञ्ञिकं मम पितरं महागोतमदसबलंयेव पुच्छिस्सामी’’ति भुत्तपातरासा राजानं उपसङ्कमित्वा ‘‘दसबलस्स उपट्ठानं गमिस्सामी’’ति आह. राजा पञ्च रथसतानि योजापेसि. जम्बुदीपतलस्मिञ्हि तिस्सोव कुमारियो पितूनं सन्तिका पञ्च रथसतानि लभिंसु – बिम्बिसाररञ्ञो धीता चुन्दी राजकञ्ञा, धनञ्चयस्स सेट्ठिस्स धीता विसाखा, अयं सुमना राजकञ्ञाति. सा गन्धमालं आदाय रथे ठिता पञ्चरथसतपरिवारा ‘‘इमं पञ्हं पुच्छिस्सामी’’ति येन भगवा तेनुपसङ्कमि.
इधस्सूति इध भवेय्युं. एको दायकोति एको अत्तना लद्धलाभतो परस्स दत्वा परिभुञ्जनको सारणीयधम्मपूरको. एको अदायकोति एको अत्तना लद्धं परस्स अदत्वा परिभुञ्जनको भत्तग्गवत्तपूरको. देवभूतानं पन नेसन्ति देवभूतानं एतेसं. अधिगण्हातीति अधिभवित्वा गण्हाति अज्झोत्थरति अतिसेति. आधिपतेय्येनाति जेट्ठककारणेन. इमेहि पञ्चहि ठानेहीति सेसदेवे सक्को देवराजा विय इमेहि पञ्चहि कारणेहि अधिगण्हाति. मानुसकेनातिआदीसु आयुना महाकस्सपत्थेरो विय बाकुलत्थेरो विय आनन्दत्थेरो विय च, वण्णेन महागतिम्बअभयत्थेरो विय भण्डागारअमच्चो विय च, सुखेन रट्ठपालकुलपुत्तो विय सोणसेट्ठिपुत्तो विय यसदारको विय च, यसेन धम्मासोको विय, तथा आधिपच्चेनाति इमेहि पञ्चहि कारणेहि अतिरेको जेट्ठको होति.
याचितोव बहुलन्ति बाकुलत्थेर-सीवलित्थेर-आनन्दत्थेरादयो विय याचितोव बहुलं चीवरादीनि परिभुञ्जतीति इमेहि कारणेहि अतिरेको होति जेट्ठको. यदिदं विमुत्तिया विमुत्तिन्ति यं एकस्स विमुत्तिया सद्धिं इतरस्स विमुत्तिं आरब्भ नानाकरणं वत्तब्बं भवेय्य, तं न वदामीति अत्थो. सत्तवस्सिकदारको वा हि विमुत्तिं पटिविज्झतु वस्ससतिकत्थेरो वा भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा देवो वा मारो वा ब्रह्मा वा, पटिविद्धलोकुत्तरमग्गे नानत्तं नाम नत्थि. अलमेवाति युत्तमेव. यत्र हि नामाति यानि नाम.
गच्छं आकासधातुयाति आकासेन गच्छन्तो. सद्धोति रतनत्तयगुणानं सद्धाता. थनयन्ति गज्जन्तो. विज्जुमालीति मालासदिसाय मेघमुखे चरन्तिया विज्जुलताय समन्नागतो. सतक्ककूति सतकूटो, इतो चितो च उट्ठितेन वलाहककूटसतेन समन्नागतोति अत्थो. दस्सनसम्पन्नोति सोतापन्नो. भोगपरिब्यूळ्होति उदकोघेन विय दानवसेन दीयमानेहि भोगेहि परिब्यूळ्हो, देवलोकं सम्पापितोति अत्थो. पेच्चाति परलोके. सग्गे पमोदतीति यस्मिं सग्गे उप्पज्जति, तत्थेव मोदतीति.
२. चुन्दीसुत्तवण्णना
३२. दुतिये पञ्चहि रथसतेहीति भुत्तपातरासा पितु सन्तिकं पेसेत्वा पञ्च रथसतानि योजापेत्वा तेहि परिवुताति अत्थो. उपसङ्कमीति भातरा सद्धिं पवत्तितं पञ्हसाकच्छं पुच्छिस्सामीति गन्धमालचुण्णादीनि आदाय उपसङ्कमि. यदेव सो होतीति यदा एव सो होति. अथ वा यो एव सो होति. अरियकन्तानि सीलानीति मग्गफलसम्पयुत्तानि सीलानि. तानि हि अरियानं कन्तानि होन्ति, भवन्तरेपि न परिच्चजन्ति. सेसं चतुक्कनिपाते अग्गप्पसादसुत्ते वुत्तनयेनेव वेदितब्बं.
३. उग्गहसुत्तवण्णना
३३. ततिये भद्दियेति भद्दियनगरे. जातियावनेति सयंजाते अरोपिते हिमवन्तेन सद्धिं एकाबद्धे वनसण्डे, तं नगरं उपनिस्साय तस्मिं वने विहरतीति अत्थो. अत्तचतुत्थोति अत्तना चतुत्थो. कस्मा पनेस भगवन्तं अत्तचतुत्थंयेव निमन्तेसि? गेहे किरस्स मङ्गलं महन्तं, तत्थ महन्तेन संविधानेन बहू मनुस्सा सन्निपतिस्सन्ति. ते भिक्खुसङ्घं परिविसन्तेन दुस्सङ्गहा भविस्सन्तीति अत्तचतुत्थंयेव निमन्तेसि. अपि चस्स एवम्पि अहोसि – ‘‘दहरकुमारिकायो महाभिक्खुसङ्घमज्झे सत्थरि ओवदन्ते ओलीनमना ओवादं गहेतुं न सक्कुणेय्यु’’न्ति. इमिनापि कारणेन अत्तचतुत्थमेव निमन्तेसि. ओवदतु तासं, भन्तेति, भन्ते भगवा, एतासं ओवदतु, एता ओवदतूति अत्थो. उपयोगत्थस्मिञ्हि एतं सामिवचनं. यं तासन्ति यं ओवादानुसासनं एतासं. एवञ्च पन वत्वा सो सेट्ठि ‘‘इमा मम सन्तिके ओवादं गण्हमाना हरायेय्यु’’न्ति भगवन्तं वन्दित्वा पक्कामि.
भत्तूति सामिकस्स. अनुकम्पं उपादायाति अनुद्दयं पटिच्च. पुब्बुट्ठायिनियोति सब्बपठमं उट्ठानसीला. पच्छानिपातिनियोति सब्बपच्छा निपज्जनसीला. इत्थिया हि पठमतरं भुञ्जित्वा सयनं आरुय्ह निपज्जितुं न वट्टति, सब्बे पन गेहपरिजने भोजेत्वा उपकरणभण्डं संविधाय गोरूपादीनि आगतानागतानि ञत्वा स्वे कत्तब्बकम्मं विचारेत्वा कुञ्चिकामुद्दिकं हत्थे कत्वा सचे भोजनं अत्थि, भुञ्जित्वा, नो चे अत्थि, अञ्ञं पचापेत्वा सब्बे सन्तप्पेत्वा पच्छा निपज्जितुं वट्टति. निपन्नायपि याव सूरियुग्गमना निद्दायितुं न वट्टति, सब्बपठमं पन उट्ठाय दासकम्मकरे पक्कोसापेत्वा ‘‘इदञ्चिदञ्च कम्मं करोथा’’ति कम्मन्तं विचारेत्वा धेनुयो दुहापेत्वा सब्बं गेहे कत्तब्बकिच्चं अत्तनो पच्चक्खंयेव कातुं वट्टति. एतमत्थं सन्धाय ‘‘पुब्बुट्ठायिनियो पच्छानिपातिनियो’’ति आह. ‘‘किंकारपटिस्साविनियोति किं करोम किं करोमा’’ति मुखं ओलोकेत्वा विचरणसीला. मनापचारिनियोति मनापंयेव किरियं करणसीला. पियवादिनियोति पियमेव वचनं वादनसीला. पूजेस्सामाति चतुपच्चयपूजाय पूजयिस्साम.
अब्भागतेति अत्तनो सन्तिकं आगते. आसनोदकेन पटिपूजेस्सामाति आसनेन च पादधोवनउदकेन च पूजयिस्साम. एत्थ च मातापितूनं देवसिकं सक्कारो कातब्बो. समणब्राह्मणानं पन अब्भागतानं आसनं दत्वा पादधोवनञ्च दातब्बं, सक्कारो च कातब्बो.
उण्णाति एळकलोमं. तत्थ दक्खा भविस्सामाति एळकलोमानं विजटनधोवनरजनवेणिकरणादीसु कप्पासस्स च वट्टनपिसनफोटनकन्तनादीसु छेका भविस्साम. तत्रुपायायाति तस्मिं उण्णाकप्पाससंविधाने उपायभूताय ‘‘इमस्मिं काले इदं नाम कातुं वट्टती’’ति एवं पवत्ताय वीमंसाय समन्नागता. अलं कातुं अलं संविधातुन्ति अत्तना कातुम्पि परेहि कारापेतुम्पि युत्ता चेव समत्था च भविस्सामाति अत्थो.
कतञ्च कततो जानिस्साम, अकतञ्च अकततोति सकलदिवसं इदं नाम कम्मं कत्वा आगतानं, उपड्ढदिवसं इदं नाम कम्मं कत्वा आगतानं, निक्कम्मानं गेहे निसिन्नानं इदं नाम दातुञ्च एवञ्च कातुं वट्टतीति एवं जानिस्साम. गिलानकानञ्च बलाबलन्ति सचे हि गिलानकाले तेसं भेसज्जभोजनादीनि दत्वा रोगं फासुं न करोन्ति, ‘‘इमे अरोगकाले अम्हे यं इच्छन्ति, तं कारेन्ति. गिलानकाले अत्थि भावम्पि नो न जानन्ती’’ति विरत्तरूपा पच्छा किच्चानि न करोन्ति, दुक्कटानि वा करोन्ति. तस्मा नेसं बलाबलं ञत्वा दातब्बञ्च कातब्बञ्च जानिस्सामाति एवं तुम्हेहि सिक्खितब्बन्ति दस्सेति. खादनीयं भोजनीयञ्चस्साति खादनीयञ्च भोजनीयञ्च अस्स अन्तोजनस्स. पच्चंसेनाति पटिलभितब्बेन अंसेन, अत्तनो अत्तनो लद्धब्बकोट्ठासानुरूपेनाति अत्थो. संविभजिस्सामाति दस्साम. सम्पादेस्सामाति सम्पादयिस्साम.
अधुत्तीति पुरिसधुत्तसुराधुत्ततावसेन अधुत्तियो. अथेनीति अथेनियो अचोरियो. असोण्डीति सुरासोण्डतादिवसेन असोण्डियो.
एवं सुत्तन्तं निट्ठपेत्वा इदानि गाथाहि कूटं गण्हन्तो यो नं भरति सब्बदातिआदिमाह. तत्थ भरतीति पोसति पटिजग्गति. सब्बकामहरन्ति सब्बकामददं. सोत्थीति सुइत्थी. एवं वत्ततीति एत्तकं वत्तं पूरेत्वा वत्तति. मनापा नाम ते देवाति निम्मानरती देवा. ते हि इच्छितिच्छितं रूपं मापेत्वा अभिरमणतो निम्मानरतीति च मनापाति च वुच्चन्तीति.
४. सीहसेनापतिसुत्तवण्णना
३४. चतुत्थे सन्दिट्ठिकन्ति सामं पस्सितब्बकं. दायकोति दानसूरो. न सो सद्धामत्तकेनेव तिट्ठति, परिच्चजितुम्पि सक्कोतीति अत्थो. दानपतीति यं दानं देति, तस्स पति हुत्वा देति, न दासो, न सहायो. यो हि अत्तना मधुरं भुञ्जति, परेसं अमधुरं देति, सो दानसङ्खातस्स देय्यधम्मस्स दासो हुत्वा देति. यो यं अत्तना भुञ्जति, तदेव देति, सो सहायो हुत्वा देति. यो पन अत्तना येन केनचि यापेति, परेसं मधुरं देति, सो पति जेट्ठको सामी हुत्वा देति. तादिसं सन्धाय वुत्तं – ‘‘दानपती’’ति.
अमङ्कुभूतोति न नित्तेजभूतो. विसारदोति ञाणसोमनस्सप्पत्तो. सहब्यतं गताति सहभावं एकीभावं गता. कतावकासाति येन कम्मेन तत्थ अवकासो होति, तस्स कतत्ता कतावकासा. तं पन यस्मा कुसलमेव होति, तस्मा कतकुसलाति वुत्तं. मोदरेति मोदन्ति पमोदन्ति. असितस्साति अनिस्सितस्स तथागतस्स. तादिनोति तादिलक्खणं पत्तस्स.
५. दानानिसंससुत्तवण्णना
३५. पञ्चमे गिहिधम्मा अनपगतो होतीति अखण्डपञ्चसीलो होति. सतं धम्मं अनुक्कमन्ति सप्पुरिसानं महापुरिसानं धम्मं अनुक्कमन्तो. सन्तो नं भजन्तीति सप्पुरिसा बुद्धपच्चेकबुद्धतथागतसावका एतं भजन्ति.
६. कालदानसुत्तवण्णना
३६. छट्ठे कालदानानीति युत्तदानानि, पत्तदानानि अनुच्छविकदानानीति अत्थो. नवसस्सानीति अग्गसस्सानि. नवफलानीति आरामतो पठमुप्पन्नानि अग्गफलानि. पठमं सीलवन्तेसु पतिट्ठापेतीति पठमं सीलवन्तानं दत्वा पच्छा अत्तना परिभुञ्जति. वदञ्ञूति भासितञ्ञू. कालेन दिन्नन्ति युत्तप्पत्तकालेन दिन्नं. अनुमोदन्तीति एकमन्ते ठिता अनुमोदन्ति. वेय्यावच्चन्ति कायेन वेय्यावटिककम्मं करोन्ति. अप्पटिवानचित्तोति अनुक्कण्ठितचित्तो. यत्थ दिन्नं महप्फलन्ति यस्मिं ठाने दिन्नं महप्फलं होति, तत्थ ददेय्य.
७. भोजनसुत्तवण्णना
३७. सत्तमे आयुं देतीति आयुदानं देति. वण्णन्ति सरीरवण्णं. सुखन्ति कायिकचेतसिकसुखं. बलन्ति सरीरथामं. पटिभानन्ति युत्तमुत्तप्पटिभानं.
८. सद्धसुत्तवण्णना
३८. अट्ठमे अनुकम्पन्तीति अनुग्गण्हन्ति. खन्धिमाव महादुमोति खन्धसम्पन्नो महारुक्खो विय. मनोरमे आयतनेति रमणीये समोसरणट्ठाने. छायं छायत्थिका यन्तीति छायाय अत्थिकाव छायं उपगच्छन्ति. निवातवुत्तिन्ति नीचवुत्तिं. अत्थद्धन्ति कोधमानथद्धताय रहितं. सोरतन्ति सोरच्चेन सुचिसीलेन समन्नागतं. सखिलन्ति सम्मोदकं.
९. पुत्तसुत्तवण्णना
३९. नवमे भतो वा नो भरिस्सतीति अम्हेहि थञ्ञपायनहत्थपादवड्ढनादीहि भतो पटिजग्गितो अम्हे महल्लककाले हत्थपादधोवन-न्हापनयागुभत्तदानादीहि भरिस्सति. किच्चं वा नो करिस्सतीति अत्तनो कम्मं ठपेत्वा अम्हाकं राजकुलादीसु उप्पन्नं किच्चं गन्त्वा करिस्सति. कुलवंसो चिरं ठस्सतीति अम्हाकं सन्तकं खेत्तवत्थुहिरञ्ञसुवण्णादिं अविनासेत्वा रक्खन्ते पुत्ते कुलवंसो चिरं ठस्सति, अम्हेहि वा पवत्तितानि सलाकभत्तादीनि अनुपच्छिन्दित्वा पवत्तेस्सति, एवम्पि नो कुलवंसो चिरं ठस्सति. दायज्जं पटिपज्जिस्सतीति कुलवंसानुरूपाय पटिपत्तिया अत्तानं दायज्जारहं करोन्तो अम्हाकं सन्तकं दायज्जं पटिपज्जिस्सति. दक्खिणं अनुप्पदस्सतीति पत्तिदानं कत्वा ततियदिवसतो पट्ठाय दानं अनुप्पदस्सति.
सन्तो सप्पुरिसाति इमस्मिं ठाने मातापितूसु सम्मा पटिपत्तिया सन्तो सप्पुरिसाति वेदितब्बा. पुब्बे कतमनुस्सरन्ति मातापितूहि पठमतरं कतगुणं अनुस्सरन्ता. ओवादकारीति मातापितूहि दिन्नस्स ओवादस्स कत्ता. भतपोसीति येहि भतो, तेसं पोसको. पसंसियोति दिट्ठेव धम्मे महाजनेन पसंसितब्बो होति.
१०. महासालपुत्तसुत्तवण्णना
४०. दसमे महासालाति महारुक्खा. साखापत्तपलासेन वड्ढन्तीति खुद्दकसाखाहि च पत्तसङ्खातेन च पलासेन वड्ढन्ति. अरञ्ञस्मिन्ति अगामके पदेसे. ब्रहावनेति महावने अटवियं. सेसं सब्बत्थ उत्तानत्थमेवाति.
सुमनवग्गो चतुत्थो.
५. मुण्डराजवग्गो
१. आदियसुत्तवण्णना
४१. पञ्चमस्स पठमे भोगानं आदियाति भोगानं आदातब्बकारणानि. उट्ठानवीरियाधिगतेहीति उट्ठानसङ्खातेन वीरियेन अधिगतेहि. बाहाबलपरिचितेहीति बाहुबलेन सञ्चितेहि. सेदावक्खित्तेहीति सेदं अवक्खिपेत्वा उप्पादितेहि. धम्मिकेहीति धम्मयुत्तेहि. धम्मलद्धेहीति दसकुसलकम्मं अकोपेत्वा लद्धेहि. पीणेतीति पीणितं थूलं करोति. सेसमेत्थ चतुक्कनिपाते वुत्तनयेनेव वेदितब्बं. दुतियं उत्तानत्थमेव.
३. इट्ठसुत्तवण्णना
४३. ततिये आयुसंवत्तनिका पटिपदाति दानसीलादिका पुञ्ञपटिपदा. सेसेसुपि एसेव नयो. अत्थाभिसमयाति अत्थस्स अभिसमागमेन, अत्थप्पटिलाभेनाति वुत्तं होति.
४. मनापदायीसुत्तवण्णना
४४. चतुत्थे उग्गोति गुणेहि उग्गतत्ता एवंलद्धनामो. सालपुप्फकं खादनीयन्ति चतुमधुरयोजितेन सालिपिट्ठेन कतं सालपुप्फसदिसं खादनीयं. तञ्हि पञ्ञायमानवण्टपत्तकेसरं कत्वा जीरकादिसम्भारयुत्ते सप्पिम्हि पचित्वा सप्पिं विनिवत्तेत्वा कोलुम्बे पूरेत्वा गन्धवासं गाहापेत्वा पिदहित्वा लञ्छेत्वा ठपितं होति. तं सो यागुं पिवित्वा निसिन्नस्स भगवतो अन्तरभत्ते दातुकामो एवमाह. पटिग्गहेसि भगवाति देसनामत्तमेतं, उपासको पन तं भगवतो च पञ्चन्नञ्च भिक्खुसतानं अदासि. यथा च तं, एवं सूकरमंसादीनिपि. तत्थ सम्पन्नकोलकन्ति सम्पन्नबदरं. सूकरमंसन्ति मधुररसेहि बदरेहि सद्धिं जीरकादिसम्भारेहि योजेत्वा पक्कं एकसंवच्छरिकसूकरमंसं. निब्बत्ततेलकन्ति विनिवत्तिततेलं. नालियसाकन्ति सालिपिट्ठेन सद्धिं मद्दित्वा जीरकादिसंयुत्ते सप्पिम्हि पचित्वा चतुमधुरेन योजेत्वा वासं गाहापेत्वा ठपितं नालियसाकं. नेतं भगवतो कप्पतीति एत्थ अकप्पियं उपादाय कप्पियम्पि न कप्पतीति वुत्तं, सेट्ठि पन सब्बम्पि तं आहरापेत्वा रासिं कत्वा यं यं अकप्पियं, तं तं अन्तरापणं पहिणित्वा कप्पियं उपभोगपरिभोगभण्डं अदासि. चन्दनफलकं नातिमहन्तं दीघतो अड्ढतेय्यरतनं, तिरियं दियड्ढरतनं, सारवरभण्डत्ता पन महग्घं अहोसि. भगवा तं पटिग्गहेत्वा खण्डाखण्डिकं छेदापेत्वा भिक्खूनं अञ्जनपिसनत्थाय दापेसि.
उज्जुभूतेसूति कायवाचाचित्तेहि उजुकेसु. छन्दसाति पेमेन. चत्तन्तिआदीसु परिच्चागवसेन चत्तं. मुत्तचागताय मुत्तं. अनपेक्खचित्तताय चित्तेन न उग्गहितन्ति अनुग्गहीतं. खेत्तूपमेति विरुहनट्ठेन खेत्तसदिसे.
अञ्ञतरं मनोमयन्ति सुद्धावासेसु एकं झानमनेन निब्बत्तं देवकायं. यथाधिप्पायोति यथाज्झासयो. इमिना किं पुच्छति? तस्स किर मनुस्सकाले अरहत्तत्थाय अज्झासयो अहोसि, तं पुच्छामीति पुच्छति. देवपुत्तोपि अरहत्तं पत्तताय तग्घ मे भगवा यथाधिप्पायोति आह. यत्थ यत्थूपपज्जतीति तीसु वा कुलसम्पत्तीसु छसु वा कामसग्गेसु यत्थ यत्थ उप्पज्जति, तत्थ तत्थ दीघायु यसवा होतीति. पञ्चमं चतुक्कनिपाते वुत्तनयेनेव वेदितब्बं. छट्ठसत्तमानि उत्तानत्थानेव.
८. अलब्भनीयठानसुत्तवण्णना
४८. अट्ठमे अलब्भनीयानीति अलद्धब्बानि, न सक्का लभितुं. ठानानीति कारणानि. जराधम्मं मा जीरीति यं मय्हं जरासभावं, तं मा जीरतु. सेसपदेसुपि एसेव नयो. नच्छादेय्याति न रुच्चेय्य. अब्बुहीति नीहरि.
यतोति यस्मिं काले. आपदासूति उपद्दवेसु. न वेधतीति न कम्पति नानुसोचति. अत्थविनिच्छयञ्ञूति कारणत्थविनिच्छये कुसलो. पुराणन्ति निब्बिकारताय पोराणकमेव. जप्पेनाति वण्णभणनेन. मन्तेनाति महानुभावमन्तपरिवत्तनेन. सुभासितेनाति सुभासितकथनेन. अनुप्पदानेनाति सतस्स वा सहस्सस्स वा दानेन. पवेणिया वाति कुलवंसेन वा, ‘‘इदं अम्हाकं पवेणिया आचिण्णं, इदं अनाचिण्ण’’न्ति एवं पवेणिकथनेनाति अत्थो. यथा यथा यत्थ लभेथ अत्थन्ति एतेसु जप्पादीसु येन येन यत्थ यत्थ ठाने जराधम्मादीनं अजीरणतादिअत्थं लभेय्य. तथा तथा तत्थ परक्कमेय्याति तेन तेन तस्मिं तस्मिं ठाने परक्कमं करेय्य. कम्मं दळ्हन्ति वट्टगामिकम्मं मया थिरं कत्वा आयूहितं, स्वाहं इदानि किन्ति करोमीति एवं पच्चवेक्खित्वा अधिवासेय्याति.
९. कोसलसुत्तवण्णना
४९. नवमे उपकण्णकेति कण्णमूले. दुम्मनोति दुट्ठुमनो. पत्तक्खन्धोति पतितक्खन्धो. पज्झायन्तोति चिन्तयन्तो. अप्पटिभानोति निप्पटिभानो हुत्वा. सेसं हेट्ठा वुत्तनयमेव.
१०. नारदसुत्तवण्णना
५०. दसमे अज्झोमुच्छितोति अधिओमुच्छितो गिलित्वा परिनिट्ठपेत्वा गहणसभावाय अतिरेकमुच्छाय तण्हाय समन्नागतो. महच्चा राजानुभावेनाति महता राजानुभावेन, अट्ठारसहि सेनीहि परिवारितो महतिया राजिद्धिया पायासीति अत्थो. तग्घाति एकंसत्थे निपातो, एकंसेनेव सोकसल्लहरणोति अत्थो. इति राजा इमं ओवादं सुत्वा तस्मिं ठितो धम्मेन समेन रज्जं कारेत्वा सग्गपरायणो अहोसि.
मुण्डराजवग्गो पञ्चमो.
पठमपण्णासकं निट्ठितं.