६. विमुत्तायतनसुत्तवण्णना
२६. छट्ठे विमुत्तायतनानीति विमुच्चनकारणानि. यत्थाति येसु विमुत्तायतनेसु. सत्था धम्मं देसेतीति चतुसच्चधम्मं देसेति. अत्थपटिसंवेदिनोति पाळिअत्थं जानन्तस्स. धम्मपटिसंवेदिनोति पाळिं जानन्तस्स. पामोज्जन्ति तरुणपीति. पीतीति तुट्ठाकारभूता बलवपीति. कायोति नामकायो. पस्सम्भतीति पटिप्पस्सम्भति. सुखं वेदेतीति सुखं पटिलभति. चित्तं समाधियतीति अरहत्तफलसमाधिना समाधियति. अयञ्हि तं धम्मं सुणन्तो आगतागतट्ठाने झानविपस्सनामग्गफलानि जानाति, तस्स एवं जानतो पीति उप्पज्जति. सो तस्सा पीतिया अन्तरा ओसक्कितुं न देन्तो उपचारकम्मट्ठानिको हुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणाति. तं सन्धाय वुत्तं – ‘‘चित्तं समाधियती’’ति. सेसेसुपि एसेव नयो. अयं पन विसेसो – समाधिनिमित्तन्ति अट्ठतिंसाय आरम्मणेसु अञ्ञतरो समाधियेव समाधिनिमित्तं. सुग्गहितं होतीतिआदिसु आचरियस्स सन्तिके कम्मट्ठानं उग्गण्हन्तेन सुट्ठु गहितं होति सुट्ठु मनसिकतं सुट्ठु उपधारितं. सुप्पटिविद्धं पञ्ञायाति पञ्ञाय सुट्ठु पच्चक्खं कतं. तस्मिं धम्मेति तस्मिं कम्मट्ठानपाळिधम्मे. इति इमस्मिं सुत्ते पञ्चपि विमुत्तायतनानि अरहत्तं पापेत्वा कथितानीति.