२. पञ्हब्याकरणसुत्तवण्णना

४२. दुतिये यो च तेसं तत्थ तत्थ, जानाति अनुधम्मतन्ति यो एतेसं पञ्हानं तस्मिं तस्मिं ठाने ब्याकरणं जानाति. चतुपञ्हस्स कुसलो, आहु भिक्खुं तथाविधन्ति तथाविधं भिक्खुं तेसु चतूसु पञ्हेसु कुसलोति एवं वदन्ति. दुरासदो दुप्पसहोति परेहि घट्टेतुं वा अभिभवितुं वा न सक्का. गम्भीरोति सत्तसीदन्तरमहासमुद्दो विय गम्भीरो. दुप्पधंसियोति दुम्मोचापयो, गहितग्गहणं विस्सज्जापेतुं न सक्काति अत्थो. अत्थे अनत्थे चाति वड्ढियञ्च अवड्ढियञ्च. अत्थाभिसमयाति अत्थसमागमेन. धीरो पण्डितोति पवुच्चतीति धितिसम्पन्नो पुग्गलो ‘‘पण्डितो अय’’न्ति एवं पवुच्चति.