५. वस्सकारसुत्तवण्णना
३५. पञ्चमे अनुस्सरिताति अनुगन्त्वा सरिता, अपरापरं सरितुं समत्थोति अत्थो. दक्खोति छेको. तत्रुपायायाति ‘‘इमस्मिं काले इमं नाम कत्तब्ब’’न्ति एवं तत्थ तत्थ उपायभूताय पञ्ञाय समन्नागतो. अनुमोदितब्बन्ति अभिनन्दितब्बं. पटिक्कोसितब्बन्ति पटिक्खिपितब्बं. नेव खो त्याहन्ति नेव खो ते अहं. कस्मा पनेतं भगवा नाभिनन्दति, नप्पटिक्खिपतीति? लोकियत्ता नाभिनन्दति, लोकियं अत्थं गहेत्वा ठितत्ता नप्पटिक्कोसति. बहुस्स जनताति बहु अस्स जनता. इदञ्च करणत्थे सामिवचनं वेदितब्बं. अरिये ञायेति सहविपस्सनके मग्गे. कल्याणधम्मता कुसलधम्मतातिपि तस्सेव नामानि. यं वितक्कन्ति नेक्खम्मवितक्कादीसु अञ्ञतरं. न तं वितक्कं वितक्केतीति कामवितक्कादीसु एकम्पि न वितक्केति. इतरं तस्सेव वेवचनं. वितक्कपथेति एत्थ वितक्कोयेव वितक्कपथो. अहञ्हि ब्राह्मणातिआदीसु पठमनयेन खीणासवस्स सीलञ्चेव बाहुसच्चञ्च कथितं, दुतियततियेहि खीणासवस्स किरियवितक्कानि चेव किरियज्झानानि च, चतुत्थेन खीणासवभावो कथितोति वेदितब्बो.
मच्चुपासप्पमोचनन्ति मच्चुपासा पमोचनकं मग्गं. ञायं धम्मन्ति सहविपस्सनकं मग्गं. दिस्वा च सुत्वा चाति ञाणेनेव पस्सित्वा च सुणित्वा च. सेसमेत्थ उत्तानमेव.