६. कुहसुत्तवण्णना

२६. छट्ठे कुहाति कुहका. थद्धाति कोधेन च मानेन च थद्धा. लपाति उपलापका. सिङ्गीति ‘‘तत्थ कतमं सिङ्गं, यं सिङ्गं सिङ्गारता चातुरता चातुरियं परिक्खत्तता पारिक्खत्तिय’’न्ति (विभ. ८५२) एवं वुत्तेहि सिङ्गसदिसेहि पाकटकिलेसेहि समन्नागता. उन्नळाति उग्गतनळा तुच्छमानं उक्खिपित्वा ठिता. असमाहिताति चित्तेकग्गमत्तस्सापि अलाभिनो. न मे ते, भिक्खवे, भिक्खू मामकाति ते मय्हं भिक्खू मम सन्तका न होन्ति. ‘‘ते मय्ह’’न्ति इदं पन सत्थारं उद्दिस्स पब्बजितत्ता वुत्तं. ते खो मे, भिक्खवे, भिक्खू मामकाति इधापि मेति अत्तानं उद्दिस्स पब्बजितत्ता वदति, सम्मापटिपन्नत्ता पन ‘‘मामका’’ति आह. वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्तीति सीलादीहि गुणेहि वड्ढनतो वुद्धिं, निच्चलभावेन विरूळ्हिं, सब्बत्थ पत्थटताय वेपुल्लं पापुणन्ति. ते पनेते याव अरहत्तमग्गा विरुहन्ति, अरहत्तफलं पत्ते विरूळ्हा नाम होन्ति. इति इमस्मिं सुत्तेपि गाथासुपि वट्टविवट्टमेव कथितं.