४. काळकारामसुत्तवण्णना

२४. चतुत्थं अत्थुप्पत्तियं निक्खित्तं. कतराय अत्थुप्पत्तियन्ति? दसबलगुणकथाय. अनाथपिण्डिकस्स किर धीता चूळसुभद्दा ‘‘साकेतनगरे काळकसेट्ठिपुत्तस्स गेहं गच्छिस्सामी’’ति सत्थारं उपसङ्कमित्वा, ‘‘भन्ते, अहं मिच्छादिट्ठिककुलं गच्छामि. सचे तत्थ सक्कारं लभिस्सामि, एकस्मिं पुरिसे पेसियमाने पपञ्चो भविस्सति, मं आवज्जेय्याथ भगवा’’ति पटिञ्ञं गहेत्वा अगमासि. सेट्ठि ‘‘सुणिसा मे आगता’’ति मङ्गलं करोन्तोव बहुं खादनीयभोजनीयं पटियादेत्वा पञ्च अचेलकसतानि निमन्तेसि. सो तेसु निसिन्नेसु ‘‘धीता मे आगन्त्वा अरहन्ते वन्दतू’’ति चूळसुभद्दाय पेसेसि. आगतफला अरियसाविका अरहन्तेति वुत्तमत्तेयेव ‘‘लाभा वत मे’’ति उट्ठहित्वा गता ते निस्सिरिकदस्सने अचेलके दिस्वाव ‘‘समणा नाम न एवरूपा होन्ति, तात, येसं नेव अज्झत्तं हिरी, न बहिद्धा ओत्तप्पं अत्थी’’ति वत्वा ‘‘न इमे समणा, धीधी’’ति खेळं पातेत्वा निवत्तित्वा अत्तनो वसनट्ठानमेव गता.

ततो अचेलका ‘‘महासेट्ठि कुतो ते एवरूपा कालकण्णी लद्धा, किं सकलजम्बुदीपे अञ्ञा दारिका नत्थी’’ति सेट्ठिं परिभासिंसु. सो ‘‘आचरिया जानित्वा वा कतं होतु अजानित्वा वा, अहमेत्थ जानिस्सामी’’ति अचेलके उय्योजेत्वा सुभद्दाय सन्तिकं गन्त्वा ‘‘अम्म, कस्मा एवरूपं अकासि, कस्मा अरहन्ते लज्जापेसी’’ति आह. तात, अरहन्ता नाम एवरूपा न होन्तीति. अथ नं सो आह –

‘‘कीदिसा समणा तुय्हं, बाळ्हं खो ने पसंससि;

किंसीला किंसमाचारा, तं मे अक्खाहि पुच्छिता’’ति.

सा आह –

‘‘सन्तिन्द्रिया सन्तमना, सन्ततेजा गुणमग्गसण्ठिता;

ओक्खित्तचक्खू मितभाणी, तादिसा समणा मम.

‘‘वसन्ति वनमोगय्ह, नागो छेत्वाव बन्धनं;

एककिया अदुतिया, तादिसा समणा ममा’’ति.

एवञ्च पन वत्वा सेट्ठिस्स पुरे ठत्वा तिण्णं रतनानं गुणं कथेसि. सेट्ठि तस्सा वचनं सुत्वा ‘‘यदि एवं, तव समणे आनेत्वा मङ्गलं करोमा’’ति. सा पुच्छि ‘‘कदा करिस्सथ, ताता’’ति. सेट्ठि चिन्तेसि – ‘‘कतिपाहच्चयेनाति वुत्ते पेसेत्वा पक्कोसापेय्या’’ति. अथ नं ‘‘स्वे अम्मा’’ति आह. सा सायन्हसमये उपरिपासादं आरुय्ह महन्तं पुप्फसमुग्गं गहेत्वा सत्थु गुणे अनुस्सरित्वा अट्ठ पुप्फमुट्ठियो दसबलस्स विस्सज्जेत्वा अञ्जलिं पग्गय्ह नमस्समाना अट्ठासि. एवञ्च अवच – ‘‘भगवा स्वे पञ्चहि भिक्खुसतेहि सद्धिं मय्हं भिक्खं गण्हथा’’ति. तानि पुप्फानि गन्त्वा दसबलस्स मत्थके वितानं हुत्वा अट्ठंसु. सत्था आवज्जेन्तो तं कारणं अद्दस. धम्मदेसनापरियोसाने अनाथपिण्डिकमहासेट्ठि दसबलं वन्दित्वा ‘‘स्वे, भन्ते, पञ्चहि भिक्खुसतेहि सद्धिं मम गेहे भिक्खं गण्हथा’’ति आह. चूळसुभद्दाय निमन्तितम्ह सेट्ठीति. न, भन्ते, कञ्चि आगतं पस्सामाति. आम, सेट्ठि, सद्धा पन उपासिका दूरे योजनसतमत्थकेपि योजनसहस्समत्थकेपि ठिता हिमवन्तो विय पञ्ञायतीति वत्वा –

‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;

असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति. (ध. प. ३०४) –

इमं गाथमाह. अनाथपिण्डिको ‘‘भन्ते, मम, धीतु सङ्गहं करोथा’’ति वन्दित्वा पक्कामि.

सत्था आनन्दत्थेरं आमन्तेसि – ‘‘अहं, आनन्द, साकेतं गमिस्सामि, पञ्चन्नं भिक्खुसतानं सलाकं देहि. ददन्तो च छळभिञ्ञानंयेव ददेय्यासी’’ति. थेरो तथा अकासि. चूळसुभद्दा रत्तिभागसमनन्तरे चिन्तेसि – ‘‘बुद्धा नाम बहुकिच्चा बहुकरणीया, मं सल्लक्खेय्य वा न वा, किं नु खो करिस्सामी’’ति. तस्मिं खणे वेस्सवणो महाराजा चूळसुभद्दाय कथेसि – ‘‘भद्दे, मा खो त्वं विमना अहोसि, मा दुम्मना. अधिवुत्थं ते भगवता स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. सा तुट्ठपहट्ठा दानमेव संविदहि. सक्कोपि खो देवराजा विस्सकम्मं आमन्तेसि – ‘‘तात, दसबलो चूळसुभद्दाय सन्तिकं साकेतनगरं गच्छिस्सति, पञ्च कूटागारसतानि मापेही’’ति. सो तथा अकासि. सत्था पञ्चहि छळभिञ्ञसतेहि परिवुतो कूटागारयानेन मणिवण्णं आकासं विलिखन्तो विय साकेतनगरं अगमासि.

सुभद्दा बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा सत्थारं वन्दित्वा आह – ‘‘भन्ते, मय्हं ससुरपक्खो मिच्छादिट्ठिको, साधु तेसं अनुच्छविकधम्मं कथेथा’’ति. सत्था धम्मं देसेसि. काळकसेट्ठि सोतापन्नो हुत्वा अत्तनो उय्यानं दसबलस्स अदासि. अचेलका ‘‘अम्हाकं पठमं दिन्न’’न्ति निक्खमितुं न इच्छन्ति. ‘‘गच्छथ नीहरितब्बनियामेन ते नीहरथा’’ति सब्बे नीहरापेत्वा तत्थेव सत्थु विहारं कारेत्वा ब्रह्मदेय्यं कत्वा उदकं पातेसि. सो काळकेन कारितताय काळकारामो नाम जातो. भगवा तस्मिं समये तत्थ विहरति. तेन वुत्तं – ‘‘साकेते विहरति काळकारामे’’ति.

भिक्खू आमन्तेसीति पञ्चसते भिक्खू आमन्तेसि. ते किर साकेतनगरवासिनो कुलपुत्ता सत्थु धम्मदेसनं सुत्वा सत्थु सन्तिके पब्बजित्वा उपट्ठानसालाय निसिन्ना ‘‘अहो बुद्धगुणा नाम महन्ता, एवरूपं नाम मिच्छादिट्ठिकं काळकसेट्ठिं दिट्ठितो मोचेत्वा सोतापत्तिफलं पापेत्वा सकलनगरं सत्थारा देवलोकसदिसं कत’’न्ति दसबलस्स गुणं कथेन्ति. सत्था तेसं गुणं कथेन्तानं चित्तं उपपरिक्खित्वा – ‘‘मयि गते महती देसना समुट्ठिस्सति, देसनापरियोसाने च इमे पञ्चसता भिक्खू अरहत्ते पतिट्ठहिस्सन्ति, महापथवी उदकपरियन्तं कत्वा कम्पिस्सती’’ति धम्मसभं गन्त्वा पञ्ञत्तवरबुद्धासने निसिन्नो ते भिक्खू आदिं कत्वा यं, भिक्खवे, सदेवकस्स लोकस्साति इमं देसनं आरभि. एवमिदं सुत्तं गुणकथाय निक्खित्तन्ति वेदितब्बं.

तत्थ ‘‘तमहं जानामी’’ति पदपरियोसाने महापथवी उदकपरियन्तं कत्वा अकम्पित्थ. अब्भञ्ञासिन्ति अभिअञ्ञासिं, जानिन्ति अत्थो. विदितन्ति पाकटं कत्वा ञातं. इमिना एतं दस्सेति – अञ्ञे जानन्तियेव, मया पन पाकटं कत्वा विदितन्ति. इमेहि तीहि पदेहि सब्बञ्ञुतभूमि नाम कथिता. तं तथागतो न उपट्ठासीति तं छद्वारिकं आरम्मणं तथागतो तण्हाय वा दिट्ठिया वा न उपट्ठासि न उपगञ्छि. अयञ्हि पस्सति भगवा चक्खुना रूपं, छन्दरागो भगवतो नत्थि, सुविमुत्तचित्तो सो भगवा. सुणाति भगवा सोतेन सद्दं. घायति भगवा घानेन गन्धं. सायति भगवा जिव्हाय रसं. फुसति भगवा कायेन फोट्ठब्बं. विजानाति भगवा मनसा धम्मं, छन्दरागो भगवतो नत्थि, सुविमुत्तचित्तो सो भगवा. तेन वुत्तं – ‘‘तं तथागतो न उपट्ठासी’’ति. इमिना पदेन खीणासवभूमि कथिताति वेदितब्बा.

तं ममस्स मुसाति तं मे वचनं मुसावादो नाम भवेय्य. तं पस्स तादिसमेवाति तम्पि मुसावादो भवेय्य. तं ममस्स कलीति तं वचनं मय्हं दोसो भवेय्याति अत्थो. एत्तावता सच्चभूमि नाम कथिताति वेदितब्बा.

दट्ठा दट्ठब्बन्ति दिस्वा दट्ठब्बं. दिट्ठं न मञ्ञतीति तं दिट्ठं रूपायतनं ‘‘अहं महाजनेन दिट्ठमेव पस्सामी’’ति तण्हामानदिट्ठीहि न मञ्ञति. अदिट्ठं न मञ्ञतीति ‘‘अहं महाजनेन अदिट्ठमेव एतं पस्सामी’’ति एवम्पि तण्हादीहि मञ्ञनाहि न मञ्ञति. दट्ठब्बं न मञ्ञतीति ‘‘महाजनेन दिट्ठं पस्सामी’’ति एवम्पि ताहि मञ्ञनाहि न मञ्ञति. दट्ठब्बञ्हि अदिट्ठम्पि होतियेव. एवरूपानि हि वचनानि तीसुपि कालेसु लब्भन्ति, तेनस्स अत्थो वुत्तो. दट्ठारं न मञ्ञतीति पस्सितारं एकसत्तं नाम ताहि मञ्ञनाहि न मञ्ञतीति अत्थो. सेसट्ठानेसुपि इमिनाव नयेन अत्थो वेदितब्बो. इमिना एत्तकेन ठानेन सुञ्ञताभूमि नाम कथिता.

इति खो, भिक्खवेति एवं खो, भिक्खवे. तादीयेव तादीति तादिता नाम एकसदिसता. तथागतो च यादिसो लाभादीसु, तादिसोव अलाभादीसु. तेन वुत्तं – ‘‘लाभेपि तादी, अलाभेपि तादी. यसेपि तादी, अयसेपि तादी. निन्दायपि तादी, पसंसायपि तादी. सुखेपि तादी, दुक्खेपि तादी’’ति (महानि. ३८, १९२). इमाय तादिताय तादी. तम्हा च पन तादिम्हाति ततो तथागततादितो अञ्ञो उत्तरितरो वा पणीततरो वा तादी नत्थीति एत्तावता तादिभूमि नाम कथिता. इमाहि पञ्चभूमीहि देसनं निट्ठापेन्तस्स पञ्चसुपि ठानेसु महापथवी सक्खिभावेन अकम्पित्थ. देसनापरियोसाने ते पञ्चसते अधुनापब्बजिते कुलपुत्ते आदिं कत्वा तं ठानं पत्तानं देवमनुस्सानं चतुरासीति पाणसहस्सानि अमतपानं पिविंसु.

भगवापि सुत्तं निट्ठापेत्वा गाथाहि कूटं गण्हन्तो यंकिञ्चीतिआदिमाह. तत्थ अज्झोसितं सच्चमुतं परेसन्ति परेसं सद्धाय परपत्तियायनाय सच्चमुतन्ति मञ्ञित्वा अज्झोसितं गिलित्वा परिनिट्ठापेत्वा गहितं. सयसंवुतेसूति सयमेव संवरित्वा पियायित्वा गहितगहणेसु, दिट्ठिगतिकेसूति अत्थो. दिट्ठिगतिका हि सयं संवुताति वुच्चन्ति. सच्चं मुसा वापि परं दहेय्याति तेसु सयं संवुतसङ्खातेसु दिट्ठिगतिकेसु तथागतो तादी तेसं एकम्पि वचनं ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति एवं सच्चं मुसा वापि परं उत्तमं कत्वा न ओदहेय्य, न सद्दहेय्य, न पत्तियायेय्य. एतञ्च सल्लन्ति एतं दिट्ठिसल्लं. पटिकच्च दिस्वाति पुरेतरं बोधिमूलेयेव दिस्वा. विसत्ताति लग्गा लगिता पलिबुद्धा. जानामि पस्सामि तथेव एतन्ति यथायं पजा अज्झोसिता गिलित्वा परिनिट्ठापेत्वा विसत्ता लग्गा लगिता, एवं अहम्पि जानामि पस्सामि. तथा एवं यथा एताय पजाय गहितन्ति एवं अज्झोसितं नत्थि तथागतानन्ति अत्थो.