१०. परिब्बाजकसुत्तवण्णना

३०. दसमे अभिञ्ञाताति ञाता पाकटा. अन्नभारोतिआदीनि तेसं नामानि. पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठितो. सा हि इध पटिसल्लानन्ति अधिप्पेता. पच्चक्खायाति पटिक्खिपित्वा. अभिज्झालुन्ति सतण्हं. कामेसु तिब्बसारागन्ति वत्थुकामेसु बहलरागं. तमहं तत्थ एवं वदेय्यन्ति तं अहं तस्मिं कारणे एवं वदेय्यं. पटिक्कोसितब्बं मञ्ञेय्याति पटिक्कोसितब्बानि पटिबाहितब्बनि वा मञ्ञेय्य. सहधम्मिकाति सकारणा. वादानुपाताति धम्मिकवादे घट्टयमाना अधम्मिकवादानुपाता, वादप्पवत्तियोति अत्थो. गारय्हा ठानाति गरहितब्बयुत्तका पच्चया. आगच्छन्तीति उपगच्छन्ति.

उक्कलाति उक्कलजनपदवासिनो. वस्सभञ्ञाति वस्सो च भञ्ञो चाति द्वे जना. अहेतुकवादाति ‘‘नत्थि हेतु नत्थि पच्चयो सत्तानं विसुद्धिया’’तिएवमादिवादिनो. अकिरियवादाति ‘‘करोतो न करीयति पाप’’न्ति एवं किरियपटिक्खेपवादिनो. नत्थिकवादाति ‘‘नत्थि दिन्न’’न्तिआदिवादिनो. ते इमेसु तीसुपि दस्सनेसु ओक्कन्तनियामा अहेसुं. कथं पन तेसु नियामो होतीति? यो हि एवरूपं लद्धिं गहेत्वा रत्तिट्ठानदिवाट्ठानेसु निसिन्नो सज्झायति वीमंसति, तस्स ‘‘नत्थि हेतु नत्थि पच्चयो करोतो न करीयति पापं…पे… नत्थि दिन्नं…पे… कायस्स भेदा उच्छिज्जती’’ति तस्मिं आरम्मणे मिच्छासति सन्तिट्ठति, चित्तं एकग्गं होति, जवनानि जवन्ति. पठमजवने सतेकिच्छो होति, तथा दुतियादीसु, सत्तमे बुद्धानम्पि अतेकिच्छो अनिवत्ति अरिट्ठकण्टकसदिसो होति. तत्थ कोचि एकं दस्सनं ओक्कमति, कोचि द्वे, कोचि तीणिपि. नियतमिच्छादिट्ठिकोव होति, पत्तो सग्गमग्गावरणञ्चेव मोक्खमग्गावरणञ्च, अभब्बो तस्स अत्तभावस्स अनन्तरं सग्गम्पि गन्तुं, पगेव मोक्खं. वट्टखाणुको नामेस सत्तो पथविगोपको, येभुय्येन एवरूपस्स भवतो वुट्ठानं नत्थि. वस्सभञ्ञापि एदिसा अहेसुं. निन्दाब्यारोसनउपारम्भभयाति अत्तनो निन्दभयेन घट्टनभयेन उपवादभयेन चाति अत्थो. अभिज्झाविनये सिक्खन्ति अभिज्झाविनयो वुच्चति अरहत्तं, अरहत्ते सिक्खमानो अप्पमत्तो नाम वुच्चतीति सुत्तन्ते वट्टविट्टं कथेत्वा गाथाय फलसमापत्ति कथिताति.

उरुवेलवग्गो ततियो.