१. पठमउरुवेलसुत्तवण्णना

२१. ततियस्स पठमे उरुवेलायन्ति एत्थ उरुवेलाति महावेला, महावालिकरासीति अत्थो. अथ वा उरूति वालुका वुच्चति, वेलाति मरियादा. वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवमेत्थ अत्थो दट्ठब्बो. अतीते किर अनुप्पन्ने बुद्धे दससहस्सा कुलपुत्ता तापसपब्बज्जं पब्बजित्वा तस्मिं पदेसे विहरन्ता एकदिवसं सन्निपतित्वा कतिकवत्तं अकंसु – ‘‘कायकम्मवचीकम्मानि नाम परेसम्पि पाकटानि होन्ति, मनोकम्मं पन अपाकटं. तस्मा यो कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा वितक्केति, तस्स अञ्ञो चोदको नाम नत्थि. सो अत्तनाव अत्तानं चोदेत्वा पत्तपुटेन वालुकं आहरित्वा इमस्मिं ठाने आकिरतु, इदमस्स दण्डकम्म’’न्ति. ततो पट्ठाय यो तादिसं वितक्कं वितक्केति, सो तत्थ पत्तपुटेन वालुकं आकिरति, एवं तत्थ अनुक्कमेन महावालुकरासि जातो. ततो नं पच्छिमा जनता परिक्खिपित्वा चेतियट्ठानमकासि, तं सन्धाय वुत्तं – ‘‘उरुवेलाति महावेला, महावालिकरासीति अत्थो’’ति. तमेव सन्धाय वुत्तं – ‘‘अथ वा उरूति वालुका वुच्चति, वेलाति मरियादा, वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवमेत्थ अत्थो दट्ठब्बो’’ति.

नज्जा नेरञ्जराय तीरेति उरुवेलगामं निस्साय नेरञ्जरानदीतीरे विहरामीति दस्सेति. अजपालनिग्रोधेति अजपालका तस्स निग्रोधस्स छायाय निसीदन्तिपि तिट्ठन्तिपि, तस्मा सो अजपालनिग्रोधोत्वेव सङ्खं गतो, तस्स हेट्ठाति अत्थो. पठमाभिसम्बुद्धोति सम्बुद्धो हुत्वा पठममेव. उदपादीति अयं वितक्को पञ्चमे सत्ताहे उदपादि. कस्मा उदपादीति? सब्बबुद्धानं आचिण्णत्ता चेव पुब्बासेवनताय च. तत्थ पुब्बासेवनाय पकासनत्थं तित्तिरजातकं आहरितब्बं. हत्थिवानरतित्तिरा किर एकस्मिं पदेसे विहरन्ता ‘‘यो अम्हाकं महल्लको, तस्मिं सगारवा विहरिस्सामा’’ति निग्रोधं दस्सेत्वा ‘‘को नु खो अम्हाकं महल्लको’’ति वीमंसन्ता तित्तिरस्स महल्लकभावं ञत्वा तस्स जेट्ठापचायनकम्मं कत्वा अञ्ञमञ्ञं समग्गा सम्मोदमाना विहरित्वा सग्गपरायणा अहेसुं. तं कारणं ञत्वा रुक्खे अधिवत्था देवता इमं गाथमाह –

‘‘ये वुड्ढमपचायन्ति, नरा धम्मस्स कोविदा;

दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गती’’ति. (जा. १.१.३७);

एवं अहेतुकतिरच्छानयोनियं निब्बत्तोपि तथागतो सगारववासं रोचेसि, इदानि कस्मा न रोचेस्सतीति. अगारवोति अञ्ञस्मिं गारवरहितो, कञ्चि गरुट्ठाने अट्ठपेत्वाति अत्थो. अप्पतिस्सोति पतिस्सयरहितो, कञ्चि जेट्ठकट्ठाने अट्ठपेत्वाति अत्थो. समणं वा ब्राह्मणं वाति एत्थ समितपापबाहितपापायेव समणब्राह्मणा अधिप्पेता. सक्कत्वा गरुं कत्वाति सक्कारञ्चेव कत्वा गरुकारञ्च उपट्ठपेत्वा.

सदेवके लोकेतिआदीसु सद्धिं देवेहि सदेवके. देवग्गहणेन चेत्थ मारब्रह्मेसु गहितेसुपि मारो नाम वसवत्ती सब्बेसं उपरि वसं वत्तेति, ब्रह्मा नाम महानुभावो, एकङ्गुलिया एकस्मिं चक्कवाळसहस्से आलोकं फरति, द्वीहि द्वीसु, दसहि अङ्गुलीहि दससु चक्कवाळसहस्सेसु आलोकं फरति. सो इमिना सीलसम्पन्नतरोति वत्तुं मा लभन्तूति समारके सब्रह्मकेति विसुं वुत्तं. तथा समणा नाम एकनिकायादिवसेन बहुस्सुता सीलवन्तो पण्डिता, ब्राह्मणापि वत्थुविज्जादिवसेन बहुस्सुता पण्डिता. ते इमिना सम्पन्नतराति वत्तुं मा लभन्तूति सस्समणब्राह्मणिया पजायाति वुत्तं. सदेवमनुस्सायाति इदं पन निप्पदेसतो दस्सनत्थं गहितमेव गहेत्वा वुत्तं. अपिचेत्थ पुरिमानि तीणि पदानि लोकवसेन वुत्तानि, पच्छिमानि द्वे पजावसेन. सीलसम्पन्नतरन्ति सीलेन सम्पन्नतरं, अधिकतरन्ति अत्थो. एत्थ च सीलादयो चत्तारो धम्मा लोकियलोकुत्तरा कथिता, विमुत्तिञाणदस्सनं लोकियमेव. पच्चवेक्खणञाणमेव हेतं. पातुरहोसीति ‘‘अयं सत्था अवीचितो याव भवग्गा सीलादीहि अत्तना अधिकतरं अपस्सन्तो ‘मया पटिविद्धनवलोकुत्तरधम्ममेव सक्कत्वा उपनिस्साय विहरिस्सामी’ति चिन्तेति, कारणं भगवा चिन्तेति, अत्थं वुड्ढिं विसेसं चिन्तेति, गच्छामिस्स उस्साहं जनेस्सामी’’ति चिन्तेत्वा पुरतो पाकटो अहोसि, अभिमुखे अट्ठासीति अत्थो.

विहंसु विहरन्ति चाति एत्थ यो वदेय्य – ‘‘विहरन्तीति वचनतो पच्चुप्पन्नेपि बहू बुद्धा’’ति, सो ‘‘भगवापि भन्ते एतरहि अरहं सम्मासम्बुद्धो’’ति इमिना वचनेन पटिबाहितब्बो.

‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;

सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’’ति. (महाव. ११; म. नि. २.३४१) –

आदीहि चस्स सुत्तेहि अञ्ञेसं बुद्धानं अभावो दीपेतब्बो. तस्माति यस्मा सब्बेपि बुद्धा सद्धम्मगरुनो, तस्मा. महत्तमभिकङ्खताति महन्तभावं पत्थयमानेन. सरं बुद्धान सासनन्ति बुद्धानं सासनं सरन्तेन.

यतोति यस्मिं काले. महत्तेन समन्नागतोति रत्तञ्ञुमहत्तं वेपुल्लमहत्तं ब्रह्मचरियमहत्तं लाभग्गमहत्तन्ति इमिना चतुब्बिधेन महत्तेन समन्नागतो. अथ मे सङ्घेपि गारवोति अथ मय्हं सङ्घेपि गारवो जातो. किस्मिं पन काले भगवता सङ्घे गारवो कतोति? महापजापतिया दुस्सयुगदानकाले. तदा हि भगवा अत्तनो उपनीतं दुस्सयुगं ‘‘सङ्घे, गोतमि, देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’’ति वदन्तो सङ्घे गारवं अकासि नाम.