६. सोखुम्मसुत्तवण्णना
१६. छट्ठे सोखुम्मानीति सुखुमलक्खणपटिविज्झनकानि ञाणानि. रूपसोखुम्मेन समन्नागतो होतीति रूपे सण्हसुखुमलक्खणपरिग्गाहकेन ञाणेन समन्नागतो होति. परमेनाति उत्तमेन. तेन च रूपसोखुम्मेनाति तेन याव अनुलोमभावं पत्तेन सुखुमलक्खणपरिग्गाहकञाणेन. न समनुपस्सतीति नत्थिभावेनेव न पस्सति. न पत्थेतीति नत्थिभावेनेव न पत्थेति. वेदनासोखुम्मादीसुपि एसेव नयो.
रूपसोखुम्मतं ञत्वाति रूपक्खन्धस्स सण्हसुखुमलक्खणपरिग्गाहकेन ञाणेन सुखुमतं जानित्वा. वेदनानञ्च सम्भवन्ति वेदनाक्खन्धस्स च पभवं जानित्वा. सञ्ञा यतो समुदेतीति यस्मा कारणा सञ्ञाक्खन्धो समुदेति निब्बत्तति, तञ्च जानित्वा. अत्थं गच्छति यत्थ चाति यस्मिं ठाने निरुज्झति, तञ्च जानित्वा. सङ्खारे परतो ञत्वाति सङ्खारक्खन्धं अनिच्चताय लुज्जनभावेन परतो जानित्वा. इमिना हि पदेन अनिच्चानुपस्सना कथिता. दुक्खतो नो च अत्ततोति इमिना दुक्खानत्तानुपस्सना. सन्तोति किलेससन्तताय सन्तो. सन्तिपदे रतोति निब्बाने रतो. इति सुत्तन्ते चतूसु ठानेसु विपस्सनाव कथिता, गाथासु लोकुत्तरधम्मोपीति.