९. लोणकपल्लसुत्तवण्णना
१०१. नवमे यथा यथायन्ति यथा यथा अयं. तथा तथा तन्ति तथा तथा तं कम्मं. इदं वुत्तं होति – यो एवं वदेय्य – ‘‘यथा यथा कम्मं करोति, तथा तथास्स विपाकं पटिसंवेदियतेव. न हि सक्का कतस्स कम्मस्स विपाकं पटिसेधेतुं. तस्मा यत्तकं कम्मं करोति, तत्तकस्स विपाकं पटिसंवेदियतेवा’’ति. एवं सन्तन्ति एवं सन्ते. ब्रह्मचरियवासो न होतीति यं मग्गभावनतो पुब्बे उपपज्जवेदनीयं कम्मं कतं, तस्स अवस्सं पटिसंवेदनीयत्ता ब्रह्मचरियं वुत्थम्पि अवुत्थमेव होति. ओकासो न पञ्ञायति सम्मा दुक्खस्स अन्तकिरियायाति यस्मा च एवं सन्ते तेन कम्मायूहनञ्चेव विपाकानुभवना च होति, तस्मा हेतुना नयेन वट्टदुक्खस्स अन्तकिरियाय ओकासो न पञ्ञायति नाम.
यथा यथा वेदनीयन्ति येन येनाकारेन वेदितब्बं. तथा तथास्स विपाकं पटिसंवेदियतीति तेन तेनाकारेन अस्स विपाकं पच्चनुभोति. इदं वुत्तं होति – यदेतं सत्तसु जवनेसु पठमजवनकम्मं सति पच्चये विपाकवारं लभन्तमेव दिट्ठधम्मवेदनीयं होति, असति अहोसिकम्मं नाम. यञ्च सत्तमजवनकम्मं सति पच्चये उपपज्जवेदनीयं होति, असति अहोसिकम्मं नाम. यञ्च मज्झे पञ्चजवनकम्मं याव संसारप्पवत्ति, ताव अपरपरियायवेदनीयं नाम होति. एतेसु आकारेसु येन येनाकारेन वेदितब्बं कम्मं अयं पुरिसो करोति, तेन तेनेवस्स विपाकं पटिसंवेदियति नाम. अट्ठकथायञ्हि लद्धविपाकवारमेव कम्मं यथावेदनीयं कम्मं नामाति वुत्तं. एवं सन्तं, भिक्खवे, ब्रह्मचरियवासो होतीति कम्मक्खयकरस्स ब्रह्मचरियस्स खेपेतब्बकम्मसम्भवतो वासो नाम होति, वुत्थं सुवुत्थमेव होतीति अत्थो. ओकासो पञ्ञायति सम्मा दुक्खस्स अन्तकिरियायाति यस्मा एवं सन्ते तेन तेन मग्गेन अभिसङ्खारविञ्ञाणस्स निरोधेन तेसु तेसु भवेसु आयतिं वट्टदुक्खं न उप्पज्जति, तस्मा ओकासो पञ्ञायति सम्मा दुक्खस्स अन्तकिरियाय.
इदानि तं यथावेदनीयकम्मसभावं दस्सेन्तो इध, भिक्खवे, एकच्चस्सातिआदिमाह. तत्थ अप्पमत्तकन्ति परित्तं थोकं मन्दं लामकं. तादिसंयेवाति तंसरिक्खकमेव. दिट्ठधम्मवेदनीयन्ति तस्मिं कम्मेयेव दिट्ठधम्मे विपच्चितब्बं विपाकवारं लभन्तं दिट्ठधम्मवेदनीयं होति. नाणुपि खायतीति दुतिये अत्तभावे अणुपि न खायति, अणुमत्तम्पि दुतिये अत्तभावे विपाकं न देतीति अत्थो. बहुदेवाति बहुकं पन विपाकं किमेव दस्सतीति अधिप्पायो. अभावितकायोतिआदीहि कायभावनारहितो वट्टगामी पुथुज्जनो दस्सितो. परित्तोति परित्तगुणो. अप्पातुमोति आतुमा वुच्चति अत्तभावो, तस्मिं महन्तेपि गुणपरित्तताय अप्पातुमोयेव. अप्पदुक्खविहारीति अप्पकेनपि पापेन दुक्खविहारी. भावितकायोतिआदीहि खीणासवो दस्सितो. सो हि कायानुपस्सनासङ्खाताय कायभावनाय भावितकायो नाम. कायस्स वा वड्ढितत्ता भावितकायो. भावितसीलोति वड्ढितसीलो. सेसपदद्वयेपि एसेव नयो. पञ्चद्वारभावनाय वा भावितकायो. एतेन इन्द्रियसंवरसीलं वुत्तं, भावितसीलोति इमिना सेसानि तीणि सीलानि. अपरित्तोति न परित्तगुणो. महत्तोति अत्तभावे परित्तेपि गुणमहन्तताय महत्तो. अप्पमाणविहारीति खीणासवस्सेतं नाममेव. सो हि पमाणकरानं रागादीनं अभावेन अप्पमाणविहारी नाम.
परित्तेति खुद्दके. उदकमल्लकेति उदकसरावे. ओरब्भिकोति उरब्भसामिको. उरब्भघातकोति सूनकारो. जापेतुं वाति धनजानिया जापेतुं. झापेतुन्तिपि पाठो, अयमेवत्थो. यथापच्चयं वा कातुन्ति यथा इच्छति, तथा कातुं. उरब्भधनन्ति एळकअग्घनकमूलं. सो पनस्स सचे इच्छति, देति. नो चे इच्छति, गीवायं गहेत्वा निक्कड्ढापेति. सेसं वुत्तनयेनेव वेदितब्बं. इमस्मिं पन सुत्ते वट्टविवट्टं कथितन्ति.